००८

॥हरिरुवाच ॥
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् ॥
पञ्चरङ्गिकचूर्णेन वज्रनाभं तु मण्डलम् ॥ 8.1 ॥

षोडशैः कोष्ठकैस्तत्र सम्मितं रुद्र ? कारयेत् ॥
चतुर्थपञ्चकोणेषु सूत्रपातं तु कारयेत् ॥ 8.2 ॥

कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः ॥
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः ॥ 8.3 ॥

तदनन्तरकोणेषु एवमेव हि कारयेत् ॥
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसङ्गमे ॥ 8.4 ॥

अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः ॥
पूर्वमध्यमनाभिभ्यामथं सूत्रं तु भ्रामयेत् ॥ 8.5 ॥

अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर !॥
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव ! ॥ 8.6 ॥

कर्णिकाया द्विभागेन केसराणि विचक्षणः ॥
तदग्रेण सदा विद्वान्दलान्येव समालिखेत् ॥ 8.7 ॥

सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत ! ॥
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित् ॥ 8.8 ॥

आदिसूत्रविभागेन द्वाराणि परिकल्पयेत् ॥
द्वारशोभां तथा तत्र तदर्द्धेन तु कल्पयेत् ॥ 8.9 ॥

कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः ॥
अन्तरं नीलवर्णेन दलानि असितेन च ॥ 8.10 ॥

कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत् ॥
द्वाराणि शुक्लवर्णेन रेखाः पञ्च च मण्डले ॥ 8.11 ॥

सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम् ॥ 8.12 ॥

हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा ॥
प्रद्युम्नं शिरसिन्यस्य शिखायामनिरुद्धकम् ॥ 8.13 ॥

ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा ॥
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम् ॥ 8.14 ॥

न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे ॥
अनिरुद्धं पश्चिमे च ब्रह्माणं चोत्तरे न्यसेत् ॥ 8.15 ॥

श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत् ॥
ततोऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम् ॥ 8.16 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः ॥ 8 ॥