००३

॥सूत उवाच ॥
इति रुद्राब्जजौ विष्णोः शुश्राव ब्रह्मणो मुनिः ॥
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे ॥ 3.1 ॥

मुनीनां श्रृण्वतां मध्ये सर्गाद्यं देवपूजनम् ॥
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते ॥ 3.2 ॥

वर्णाश्रमादिधर्माश्च दानराज्यादिधर्मकाः ॥
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम् ॥ 3.3 ॥

अङ्गानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् ॥
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ॥ 3.4 ॥

पुराणे गारुडे सर्वं गरुडो भगवानथ ॥
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः ॥ 3.5 ॥

भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम् ॥
देवान्विजित्य गरुडो ह्यमृताहरणं तथा ॥ 3.6 ॥

चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः ॥
यं दृष्ट्वा स्मृतमात्रेण नागादीनां च सङ्क्षयम् ॥ 3.7 ॥

कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः ॥
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ॥ 3.8 ॥

तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव ॥
वक्ष्ये व्यासं नमस्कृत्य श्रृणु शौनक तद्यथा ॥ 3.9 ॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः ॥ 3 ॥