॥ ऋषय ऊचुः ॥
कथं व्यासेन कथितं पुराणं गारुडं तव ॥
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ॥ 2.1 ॥
सूत उवाच ॥
अहं हि मुनिभिः सार्द्धं गतो बदरिकाश्रमम् ॥
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ॥ 2.2 ॥
तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम् ॥
॥सूत उवाच ॥
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ॥ 2.3 ॥
मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् ॥
एवं पृष्टो यथा प्राह तथा विप्रा ? निबोधत ॥ 2.4 ॥
॥व्यास उवाच ॥
श्रृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव ॥
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ॥ 2.5 ॥
॥सूत उवाच ॥
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् ॥
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ॥ 2.6 ॥
॥व्यास उवाच ॥
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् ॥
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ॥ 2.7 ॥
॥ब्रह्मोवाच ॥
पुराणं गारुडं सारं रुद्रं च मां यथा ॥
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते ॥ 2.8 ॥
॥व्यास उवाच ॥
कथं रुद्रं सुरैः सार्द्धमब्रवीद्वै हरिः पुरा ॥
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ॥ 2.9 ॥
॥ब्रह्मोवाच ॥
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ॥
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ॥ 2.10 ॥
पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर ? ॥
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ॥ 2.11 ॥
सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह ॥
॥रुद्र उवाच ॥
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ॥ 2.12
सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् ॥
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ॥ 2.13 ॥
विष्णोराराधनार्थं मे व्रतचर्य्या पितामह ॥
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ॥ 2.14 ॥
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् ॥
शुचिं शुचिपदं हँसं तत्पदं परमेश्वरम् ॥ 2.15 ॥
युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् ॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ 2.16 ॥
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
सहस्त्राक्षं सहस्त्राङ्घ्रिं सहस्त्रोरुं वराननम् ॥ 2.17
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ 2.18 ॥
यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च ॥
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ 2.19 ॥
पुराणपुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु ॥
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ 2.20 ॥
यस्मिंल्लोकाः स्फुरन्तीमे जलेषु शकुन्यो यथा ॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ 2.21 ॥
अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः ॥
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥ 2.22 ॥
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ॥
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ॥ 2.23 ॥
यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ॥ 2.24 ॥
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् ॥
परः कालात्परो यज्ञात्परः सदसतश्च यः ॥ 2.25 ॥
अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ॥
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ॥ 2.26 ॥
मुखादग्निश्च सञ्जज्ञे तं देवं चिन्तयाम्यहम् ॥
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ 2.27 ॥
मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ 2.28 ॥
वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् ॥
यं ध्यायाम्यहमेतस्माद्व्रजामः सारमीक्षितुम् ॥ 2.29 ॥
॥ब्रह्मोवाच ॥
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् ॥
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ॥ 2.30 ॥
अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् ॥
सारात्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ॥ 2.31 ॥
॥ब्रह्मोवाच ॥
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः ॥
पप्रच्छ विष्णुं देवाद्यैः श्रृण्वताममरैः सह ॥ 2.32 ॥
॥रुद्र उवाच ॥
हरे कथय देवेश ! देवदेवः क ईश्वरः ॥
को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः ॥ 2.33 ॥
कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया ॥
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ॥ 2.34 ॥
कस्माद्देवाज्जगज्जातं जगत्पालयते च कः ॥
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ॥ 2.35 ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
कस्माद्देवात्प्रवर्त्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम् ॥ 2.36 ॥
एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन ॥
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ॥ 2.37 ॥
तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत् ॥
॥हरिरुवाच ॥
श्रृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ॥ 2.38 ॥
अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः ॥
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः ॥ 2.39 ॥
अहं हि पूजितो रुद्र ! ददामि परमां गतिम् ॥
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ॥ 2.40 ॥
जगत्स्थितेरहं बीजं जगत्कर्त्ता त्वहं शिव ! ॥
दुष्टनिग्रहकर्त्ता हि धर्मगोप्ता त्वहं हर ! ॥ 2.41 ॥
अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् ॥
अहं मन्त्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ॥ 2.42 ॥
स्वर्गादीनां च कर्त्ताहं स्वर्गादीन्यहमेव च ॥
योगी योगोहमेवाद्यः पुराणान्यहमेवच ॥ 2.43 ॥
ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च ॥
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ॥ 2.44 ॥
ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च ॥
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव ! ॥ 2.45 ॥
सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव ! ॥
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ॥ 2.46 ॥
अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम् ॥
वर्णाश्रमास्तथा चाहं तद्धर्मोऽहं पुरातनः ॥ 2.47 ॥
यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च ॥
अहं सूर्य्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ॥ 2.48 ॥
पुरा मां गरुडः पक्षी तपसाराधयद्भुवि ॥
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ॥ 2.49 ॥
॥गरुड उवाच ॥
मम माता च विनता नागैर्दासीकृता हरे ॥
यथाहं देवताञ्जित्वा चामृतं ह्यानयामि तत् ॥ 2.50 ॥
दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव ॥
महाबलो महावीर्य्यः सर्वज्ञो नागदारणः ॥ 2.51 ॥
पुराणसंहिताकर्त्ता यथाऽहं स्यां तथा कुरुं ॥
॥विष्णुरुवाच ॥
यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ॥ 2.52 ॥
नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि ॥
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ॥ 2.53 ॥
महाबलो वाहनस्त्वं भविष्यसि विषार्दनः ॥
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ॥ 2.54 ॥
यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति ॥
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ॥ 2.55 ॥
यथाहं देवदेवानां श्रीः ख्यातो विनतासुत ॥
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति ॥ 2.56 ॥
यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ॥
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ॥ 2.57 ॥
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ॥
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ॥ 2.58 ॥
स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत् ॥
यक्षि ॐउंस्वाहाजापी विद्ययं गारुडी परा ॥
गरुडोक्तं गारुडं हि श्रृणु रुद्र ! मदात्मकम् ॥ 2.59 ॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयोऽध्यायः ॥ 2 ॥