मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
अश्वमेधखण्डः - द्विचत्वारिशोऽध्यायः
रासक्रीडा -
श्रीगर्ग उवाच -
हेमन्ते मासि पूर्वस्मिन्राकायां राधिकेश्वरः ॥
वंशीं वशकरीं दघ्मौ यथा वृन्दावने पुरा ॥१॥
ध्वनिर्बभूव तस्याश्च सर्वेषामाहरन्मनः ॥
निशम्य गोप्यः सङ्खिन्नाः कामखेदेन तत्रसुः ॥२॥
रुन्धन्नम्बुभृतश्चमत्कृतिपरं
कुर्वन्मुहुस्त्वम्बरं
ध्यानाद्धन्तनयन्सनन्दनमुखा-
न्विस्मेरयन्वेधसम् ॥
औत्सुक्याद्बलिभिर्बलिं चटुलय-
न्भोगेन्द्रमाघूर्णयन्-
भिन्दन्नण्डकटाहभित्तिमभितो
बभ्राम वंशीध्वनिः ॥३॥
अथोदगाच्चन्द्रमास्तु चर्षणीनां शुचो मृजन् ॥
यथा प्रियाया राजेन्द्र विदेशादागतः प्रियः ॥४॥
तदैव यमुना राजंस्तनुं दिव्यं दधार ह ॥
वृन्दावनं गिरीन्द्रञ्च व्रजभूमिञ्च मानद ॥५॥
कृष्णा नदी जयति यत्र मणीन्द्रमुक्ता-
माणिक्यशुभ्रहरिता करतोलिकाभिः ॥
वैदूर्यनीलकहरिद्धरिवज्रपीत-
सोपानमण्डपयुताभिरतिस्फुरन्ती ॥६॥
स्वच्छन्दसूत्पतितमत्स्यगणैर्वहन्ती
सच्छ्यामलेन वपुषाघगणं हरन्ती ॥
उत्तुङ्गलोललहरी कमलैर्लसन्ती
कृष्णा नदी जयति कृष्णगृहे लुठन्ती ॥७॥
गोवर्धनं भज गिरीं शतचन्द्रयुक्तं
मन्दारचन्दनलतावृतकल्पवृक्षम् ॥
श्रीरासमण्डलयुतं मणिमण्डपाढ्यं
कोटीरमञ्जुलनिकुञ्जकुटीरकोटिम् ॥८॥
वृन्दावनं च यमुनातटनीरतीर-
सम्पृक्तमन्दगमनैरतिगन्धवातैः ॥
तत्कम्पितं च सुरभीकृतसर्वदेशं
श्रीखण्डकुङ्कुममृदागुरुचर्चितं तम् ॥९॥
जुष्टं वसन्तनवपल्लवपुष्परङ्गै-
र्मन्दारचन्दनसुचम्पकनीपनिम्बैः ॥
आम्रातकाम्रपनसागुरुनागरङ्गैः
श्रीतालपिप्पलवटैर्नवनारिकेलैः ॥१०॥
खर्जूरश्रीफललवङ्गविराजमान-
मञ्जीरशालकतमालकदम्बयुक्तम् ॥
सन्तानकुन्दबदरीकदलीसिताढ्यं
श्रीशाल्मलीबकुलकेतकिसच्छिरीषम् ॥११॥
सन्मोदिनीजलजवृन्दमनोहराभं
वृन्दारकं वरवनं तुलसीलताढ्याम् ॥
श्रीमल्लिकामृतलतामधुमाधवीभिः
संराजितं स्मर नृपेन्द्र व्रजस्य मध्ये ॥१२॥
वंशीवटं च कलकण्ठविहङ्गमैश्च
कृष्णातटे च पुलिनं किल बालुकाढ्याम् ॥
श्रीपाटलैर्मधुककिंशुकसत्प्रियालै-
रौदुम्बरैः क्रमुकद्राक्षकपित्थयुक्तम् ॥१३॥
श्रीकोविदारपिचुमन्दलतार्जुनैश्च
प्लक्षैरशोकसरलैः सुरदारुभिश्च ॥
जम्बूसुवेत्रनलकुब्जकस्वर्णयूथी-
पुन्नागनागकुटजैः कुरबैर्वृतं च ॥१४॥
चक्राह्वसारसशुकैः सितराजहंसैः
कारण्डवैश्च जलकुक्कुटकूजितं च ॥१५॥
दात्यूहकोकिलकपोतकनीलकण्ठै-
र्नृत्यन्मयूरकलराववृतं स्मर त्वम् ॥१६॥
श्यामाचकोरकलखञ्जनसारिकाभिः
पारावतैर्भ्रमरतित्तिरतित्तिरीभिः ॥
श्रीकाञ्चनीमधुलतामधुयूथिकाभिः
संवेष्टितं हरिणमर्कटमर्कटीभिः ॥१७॥
श्रीपद्मरागशिखरं च निकुञ्जगेहं
श्रीकौस्तुभेन्द्रमणिराजिविराजमानम् ॥
कोटीन्दुमण्डलवितानगणैश्च हैमैः
श्रीपट्टसूत्ररचितैर्मणितोरणाढ्यम् ॥१८॥
मुक्तावृतैः कनकपीतपतत्पताकैः
पारावतैः सितपतत्रिभिरावृतञ्च ॥
मन्दारकुन्दकरवीरकयूथिकानां
मालाविचित्ररचितं नवचम्पकानाम् ॥१९॥
नागेशपद्महरिचन्दनपल्लवानां
श्रीमालतीकुरबकाञ्चनयूथिकानाम् ॥
मालाभिरावृतमनङ्गहरं गृहं त-
त्सद्रत्नदर्पणवृतं सितचामरैश्च ॥२०॥
सिंहासनैश्च नवपल्लवपुष्पयुक्तैः
शय्यासनैः कनकविद्रुमपादवृन्दैः ॥
श्रीचन्दनागुरुजलैर्मकरन्दसङ्घैः
कस्तूरिकामुदितकुङ्कुमचर्चितं तत् ॥२१॥
एजद्वसन्ततरुपल्लवमेव वातैः
शीतैर्गजेन्द्रगमनैः सुरभीकृताङ्गम् ॥
एतादृशं हरिनिकुञ्जगृहं स्मर त्वं
सन्नम्रशाखतरुयुक्तमतीव पुष्पैः ॥२२॥
श्रीवेणुगीतं बहुकामवर्द्धनं
निशम्य सर्वा व्रजयोषितो नृप ॥
श्रीकृष्णकान्तेन गृहीतमानसा
विसृज्य कर्माणि समाययुर्वने ॥२३॥
रुद्धा याः पतिभी राजन्कृष्णेन हृतमानसाः ॥
स्थूलं शरीरं तास्त्यक्त्वा त्वरं कृष्णान्तिकं ययुः ॥२४॥
सिंहासने हेमदुकूलसंयुते
मध्ये स्थितं सुन्दरनन्दनन्दनम् ॥
श्रीसुन्दरी राधिकया समं परं
गले दधानं मधुमालतीस्रजम् ॥२५॥
श्यामं प्रभातार्ककिरीटिनं हरिं
स्फुरत्प्रभं श्रीमुरलीमनोहरम् ॥
पीताम्बरं मन्मथराशिमोहनं
व्रजस्त्रियस्तं ददृशुः समागताः ॥२६॥
दृष्ट्वा प्रियाः प्रियतमं मत्स्यकुण्डलिनं हरिम् ॥
गोप्यो मूर्च्छां गताः सद्यो भूप चालक्षितोद्यमाः ॥२७॥
सान्त्वयामास ताः कृष्णो मिष्टवाक्यैः सुधासमैः ॥
तदा गोप्यो वनोद्देशे सर्वाश्चैतन्यतां गताः ॥२८॥
कृष्णं गद्गदया वाचा स्तुत्वा भीताः स्त्रियो वराः ॥
त्यक्त्वा विरहजं दुःखं गोविन्दं ददृशुः प्रियम् ॥२९॥
वृन्दावने भ्राजमाने मालतीवनसङ्कुले ॥
दिव्यद्रुमलताजाले मधुपध्वनिनादिते ॥३०॥
विचचार हरिः साक्षाद्देवो मदनमोहनः ॥
पद्माभं पद्महस्तेन गृहीत्वा राधिकाकरम् ॥३१॥
प्रहसन्भगवान्साक्षादाययौ यमुनातटम् ॥
कृष्णातीरे निकुञ्जे वै श्रीकृष्णो निषसाद ह ॥३२॥
तस्मिन्गृहे मधुपतेः शृणु गोपिकानां
श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् ॥
झङ्कारनूपुरझणत्करकङ्कणानां
मञ्जीररत्नविचलत्कटिकिङ्किणीनाम् ॥३३॥
स्मेरद्युतिस्फुटचमत्कृतगण्डदेशैः
श्रीदन्तपङ्क्तिविलसत्तडितालिलेशैः ॥
कोटीरहारहरिताङ्गदभूषितानां
बालार्कमण्डलविकुण्डलमण्डितानाम् ॥३४॥
तासां तु कापि युवती कथिता च मुग्धा
मध्यापि कापि तरुणी रुचिरा प्रगल्भा ॥
काचित्तरुं विनयती मधुरं हसन्ती
काचित्सखी मदयुता सुवने व्रजन्ती ॥३५॥
सन्ताड्य तामपि करेण तु काप्यधाव-
त्सङ्गृह्य कापि भुवने कमलैर्जघान ॥
काचिच्छ्लथत्कनकहारमुपाजहार
काचित्प्रमुक्तकबरी तु विहारमत्ता ॥३६॥
श्रीजाह्नवी च यमुना मधु माधवी च
शीला रमा शशिमुखी विरजा सुशीला ॥
चन्द्रानना च ललिता त्वचला विशाखा
मायाऽल्प एव कथिता भवने त्वसङ्ख्याः ॥३७॥
लीलातपत्रमतिमौक्तिकदामजालं
नीत्वा चलन्ति मणिभूमिषु तत्र काश्चित् ॥
श्रीचामरव्यजनदण्डधरा वयस्याः
काश्चिद्व्रजन्ति धृतपीतपतत्पताकाः ॥३८॥
नृत्यन्ति तत्र हरिवेषधरास्तु काश्चि-
द्वीणाकरा मधुरतालमृदङ्गहस्ताः ॥
वंशीधराश्च वृषभानुसुताः सुवेषाः
केयूरकुण्डलयुता मणिवेत्रहस्ताः ॥३९॥
सद्धावभावरसतालयुतस्मिताक्तै-
र्झङ्कारनूपुरयुतैर्विशदैः कटाक्षैः ॥
सङ्गीतनृत्यविदितैर्भ्रुकुटीविभङ्गै
राधां हरिं च सततं परितोषयन्त्यः ॥४०॥
तस्मिन्निकुञ्जभवने यमुनातटेऽपि
वंशीवटे वनधरानिकटे हरिं तम् ॥
श्रीराधया च गिरिराजतटं व्रजन्तं
नन्दात्मजं च नटवेषधरं स्मर त्वम् ॥४१॥
श्रीपद्मरागनखदीप्तिपदारविन्दं
झङ्कारनूपुरधरं स्फुरदङ्गदेशम् ॥
कुर्वन्तमेव तु पदारुणभूमिदेशं
श्रीमत्परागसुरुचालमितस्ततस्तु ॥४२॥
लक्ष्मीकराब्जपरिलालितजानुदेशं
रम्भोरु पीतवसनं तु कृशोदराभम् ॥
रोमावलिभ्रमरनाभिसरस्त्रिरेखं
काञ्चीधरं भृगुपदं मणीकौस्तुभाढ्यम् ॥४३॥
श्रीवत्सहाररुचिरं नवमेघनीलं
पीताम्बरं करिकरस्फुटबाहुदण्डम् ॥
रत्नाङ्गदं च मणीकङ्कणपद्महस्तं
श्रीराजहंसवरकन्धरशोभमानम् ॥४४॥
श्रीकम्बुकण्ठललितं विलसत्कपोलं
मध्यं तु निम्नचिबुकं किल कुन्ददन्तम् ॥
बिम्बाधरं स्मितलसच्छुकचञ्चुनासं
पीयूषकल्पवचनं प्रचलत्कटाक्षम् ॥४५॥
श्रीपुण्डरीकदलनेत्रमनङ्गलीलं
भ्रूमण्डलस्मितगुणावृतकामचापम् ॥
विद्युच्छटोच्छलितरत्नकिरीटकोटिं
मार्तण्डमण्डलविकुण्डमण्डिताभम् ॥४६॥
वंशीधरं त्वहिविलोलगुडालकाढ्यं
राधापतिं सजलपद्ममुखं चलन्तम् ॥
कन्दर्पकोटिघनमानहरं कृशाङ्गं
वंशीवटे नटवरं भज सर्वथा त्वम् ॥४७॥
आरक्तरक्तनखचन्द्रपदाब्जशोभां
मञ्जीरनूपुररणत्कटिकिङ्किणीकाम् ॥
श्रीघण्टिकाकनककङ्कणशब्दमुक्तां
राधां दधामि तरुपुञ्जनिकुञ्जमध्ये ॥४८॥
नीलाम्बरैः कनकरश्मितटस्फुरद्भिः
श्रीभानुजातटमरुद्गतिचञ्चलाङ्गैः ॥
सूक्ष्मस्वरूपललितैरतिगौरवर्णां
रासेश्वरीं भज मनोहरमन्दहासाम् ॥४९॥
बालार्कमण्डलमहाङ्गदरत्नहारां
ताटङ्कतोरणमणीन्द्रमनोहराभाम् ॥
श्रीकण्ठभालसुमनोनवपञ्चदाम्नीं
रत्नाङ्गुलीयललितां व्रजराजपत्नीम् ॥५०॥
चूडामणिद्युतिलसत्स्फुरदर्द्धचन्द्रां
ग्रैवेयकालपनपत्रविचित्ररूपाम् ॥
श्रीपट्टसूत्रमणीपट्टचलद्द्विदाम्नीं
स्फूर्ज्जत्सहस्रदलपद्मधरां भजस्व ॥५१॥
श्रीबाहुकङ्कणलसत्कुचरत्नदीप्तिं
श्रीनासिकाभरणभूषितगण्डदेशाम् ॥
सद्यौवनालसगतिं कलसर्पवेणीं
मध्येन्दुकोटिवदनां स्फुटचम्पकाभाम् ॥५२॥
सद्धावभावसहितां नवपद्मनेत्रां
स्फूर्ज्जत्स्मितद्युतिकलां प्रचलत्कटाक्षाम् ॥
कृष्णप्रियां ललितकुन्तलपुञ्जलाभां
मन्दारहारमधुरभ्रमरीरवाढ्याम् ॥५३॥
श्रीखण्डकुङ्कुममृदागुरुवारिसिक्तां
श्रीबिन्दुकीरुचिरपत्रविचित्रचित्राम् ॥
सन्तानपत्ररुचिरामलमञ्जनाभां
रासेश्वरीं गजगतिं भज पद्मिनीं ताम् ॥५४॥
एतादृशीं रतिवरां तु समेत्य कृष्णो
गच्छन्निकुञ्जवनजालविलोकानाय ॥
धावन्ति तत्र मणिछत्रधराश्च गोप्यो
नीत्वा तथा चमरचारुपतत्पताकाः ॥५५॥
षड्रागमेव वरधैवतमध्यमाद्यै-
र्गायन्तमादिपुरुषं भज नन्दपुत्रम् ॥
षट्त्रिंशतस्तदनुवर्त्तितरागिणीनां
वंशीवरेण ललितेन वरं व्रजन्तम् ॥५६॥
शृङ्गारवीरकरुणाद्भुतहास्यरौद्र-
बीभत्सशान्तकभयानकनित्ययुक्तम् ॥
भक्तप्रियं व्रजवधूमुखपद्मभृङ्गं
योगीन्द्रहृत्कमलविस्फुरदङ्घ्रियुग्मम् ॥५७॥
क्षेत्रज्ञमादिपुरुषं स्वधियज्ञरूपं
सर्वेश्वरं सकलकारणकारणेशम् ॥
कृष्णं हरिं प्रकृतिपूरषयोः पुमांसं
सर्वं निरस्तकपटं निजतेजसेह ॥५८॥
यं वै स्तुवन्ति शिवधर्मसुरेशशेष-
लोकेशसिद्धिदगणेशसुरादयोऽपि ॥
राधारमाप्रकृतिभूविरजास्वराद्या
वेदा भजन्ति सततं तमहं भजामि ॥५९॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां द्विचत्वारिंशोऽध्यायः ॥४२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP