मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
अश्वमेधखण्डः - एकत्रिंशोऽध्यायः
सिंह-कुशाश्ववधम् -

गर्ग उवाच -
स्वस्याः पराजयं दृष्ट्वा सिंहो दैत्यो रुषान्वितः ॥
निजघान वृकं बाणै रथस्थं खरवाहनः ॥१॥
दृष्ट्वा समागतान्बाणन्वृको वै कृष्णनन्दनः ॥
चिच्छेद तान्स्वबाणैश्च लीलया प्रधने नृप ॥२॥
पुनश्चिक्षेप बाणान्वै तांश्च चिच्छेद कृष्णजः ॥
ततः क्रुद्धो रणे राजन्सिंहनामासुरेश्वरः ॥३॥
शरासने समाधत्त वसुसङ्ख्याञ्छिलीमुखान् ॥
चतुर्भिस्तुरगान्वीरो वृकस्य ह्यनयत्क्षयम् ॥४॥
एकेन ध्वजमत्युग्रं चिच्छेद तरसा हसन् ॥
एकेन सारथेः कायाच्छिरो भूमावपातयत् ॥५॥
एकेन सगुणं चापमच्छिनत्प्रधने रुषा ॥
एकेन हृदि विव्याध वृकस्य वेगवान्नृप ॥६॥
तस्य कर्माद्‌भुतं दृष्ट्वा वीरा विस्मयमागताः ॥
वृकस्तदैव सहसा दैत्यं शक्त्या जघान ह ॥७॥
सा शक्तिस्तत्तनुं भित्त्वा खरं भित्त्वा विनिर्गता ॥
विवेश भूतले राजन्विवरं पन्नगो यथा ॥८॥
खरो मृत्युं गतस्तत्र दैत्यः शीघ्रं पपात ह ॥
जगर्ज पुनरुत्थाय सिंहः सिंह इव स्फुटम् ॥९॥
गृहीत्वा विशिखं शूलं चिक्षेप स वृकोपरि ॥
तमापतन्तं जग्राह वृको वामकरेण वै ॥१०॥
तेनैव शत्रुं निजघान राज-
न्कृष्णस्य पुत्रो बहुरोषयुक्तः ॥
निर्भिन्नदेहो निपपात भूमौ
हाहा प्रकुर्वन्स जगाम मृत्युम् ॥११॥
हाहाकारस्तदैवासीद्दानवानां रणाङ्गणे ॥
पुष्पवर्षं सुराश्चक्रुः जयारावं यदूत्तमाः ॥१२॥
तदा कुशाम्बः सङ्क्रुद्धो साम्बादीन् यादवान्मृधे ॥
रथस्थः शीघ्रमागत्य सर्वान्विव्याध सायकैः ॥१३॥
तस्य बाणैश्च बहवः पेतुश्छिन्ना महागजाः ॥
तिर्यग्भूता रथा युद्धे तुरगाश्छिन्नकन्धराः ॥१४॥
तथा पदातयस्तत्र शिरोहीना विबाहवः ॥
इत्थं स मारयन्‌राजन्ननेकान्विचचार ह ॥१५॥
एवं पराक्रमं दृष्ट्वा साम्बो जाम्बवतीसुतः ॥
कुशाम्बं चाह्वयामास युद्धार्थे युद्धकोविदः ॥१६॥
साम्ब उवाच -
आगच्छ वीर सहसा मया सह रणं कुरु ॥
किमन्यैस्त्रासितैर्दीनैर्निहतैः कोटिभिर्नरैः ॥१७॥
इत्युक्तवन्तमालोक्य कुशाम्बः प्रहसन्बली ॥
जघान हृदये तस्य वसुसङ्ख्याञ्छिलीमुखान् ॥१८॥
तदमृष्यन्हरेः पुत्रः स्वकोदण्डे दधञ्छरान् ॥
तताड सप्तभिः शत्रुं दानवं वक्षसोऽन्तरे ॥१९॥
उभौ समरसंरब्धावुभावपि जयैषिणौ ॥
रेजाते तौ हि सङ्ग्रामे यथा षण्मुखतारकौ ॥२०॥
साम्बः कुशाम्बं प्रधने कुशाम्बः साम्बमेव च ॥
अन्योन्यं सर्पसदृशैर्बाणैरपि ववर्षतुः ॥२१॥
बाणान्धनुषि सन्धाय शतसङ्ख्यान्स्फुरत्प्रभान् ॥
अकरोद्विरथं तैश्च साम्बं छिन्नशरासनम् ॥२२॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
आरुरोह रथं चान्यं कुपितश्चापसंयुतः ॥२३॥
साम्ब उवाच -
कुत्र यास्यसि त्वं दैत्य कृत्वा दीर्घं पराक्रमम् ॥
क्षणमात्रं रणे स्थित्वा पश्य मे विक्रमं परम् ॥२४॥
इत्युक्त्वा सायकं चोग्रं स्वकोदण्डे निधाय च ॥
मन्त्रयित्वा च मन्त्रेण तद्‌रथे निचखान ह ॥२५॥
अलातचक्रवद्भूमौ तेन बाणेन तद्‌रथः ॥
बभ्राम योजने शीघ्रं ससूतः सतुरङ्गमः ॥२६॥
भ्रमन्तं सरथं दैत्यं दृष्ट्वा प्राह हसन्मुखः ॥
साम्बो जाम्बवतीपुत्रो बाणं कृत्वा शरासने ॥२७॥
साम्ब उवाच -
त्वादृशाश्च महावीराः स्वर्गयोग्या भवन्ति हि ॥
न राजन्ते महीमध्ये शक्रतुल्यपराक्रमाः ॥२८॥
तस्माच्च मम बाणेन द्वितीयेन दिवं व्रज ॥
सरथस्त्वं सदेहश्च मत्कृपातोऽसुरेश्वर ॥२९॥
गगनप्रापकं चास्त्रमित्युक्त्वा विमुमोच सः ॥
शरेण तेन सरथो विभ्रमन्भूतलान्नृप ॥३०॥
लोकान्बहूनतिक्रम्य जगाम रविमण्डलम् ॥
सहयः सूतसहितस्तत्र सूर्यस्य ज्वालया ॥३१॥
दग्धोऽभूत्तद्‌रथः सद्यो दैत्यो दग्धकलेवरः ॥
पपात भूतले पुर्यां बल्वलस्य च सन्निधौ ॥३२॥
तस्मिन्निपतिते पापे गते मृत्युं च दानवे ॥
हाहाकारं ततश्चक्रुर्दैत्याः सर्वे भयान्विताः ॥३३॥
यादवानां ततः सैन्ये नेदुर्दुन्दुभयो मुहुः ॥
पुष्पवर्षं मुदा चक्रुः साम्बस्योपरि निर्जराः ॥३४॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
सिंहकुशाम्बोवधो नामैकत्रिंशोऽध्यायः ॥३१॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP