मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - दशमोऽध्यायः
बलरामपूजापद्धतिः -
दुर्योधन उवाच -
भगवन् गर्गाचार्येण गोपीयूथाय कथं दत्तं
बलभद्रपञ्चाङ्गं तत्कृपया वदतात् ॥ त्वं सर्वज्ञोऽसि ॥१॥
प्राड्विपाक उवाच -
कौरवेन्द्र एकदा गर्गाचार्यः कलिन्दनन्दिनीं
स्नातुं गर्गाचलाद्व्रजमण्डलं चाजगाम ॥
तत्रैकान्ते मरुल्लीलैजल्ललितलतातरुपल्लवपुष्पगन्धमत्तमिलिन्दपुञ्जे
कालिन्दीकूलकलितनिकुञ्जे श्रीरामकृष्णध्यानतत्परं
गर्गाचार्यं प्रणम्य नागेन्द्रकन्याः स्म इति जातिस्मरा
गोपकन्याः श्रीमद्बलभद्रप्राप्त्यर्थं सेवनं पप्रच्छुस्तासां
परमां भक्तिं वीक्ष्य पद्धतिपटलस्तोत्रकवचसहस्रनामानि
गोपीयूथाय स प्रददौ ॥ किं भूयस्त्वं
तद्ग्रहणं कर्तुमिच्छसि वदतात् ॥२॥
दुर्योधन उवाच -
रामस्य पद्धतिं ब्रूहि यथा सिद्धिं व्रजाम्यहम् ॥
त्वं भक्तवत्सलो ब्रह्मन् गुरुदेव नमोस्तु ते ॥३॥
प्राड्विपाक उवाच -
राममार्गस्य नियमं शृणु पार्थिवसत्तम ॥
येन प्रसन्नो भवति बलभद्रो महाप्रभुः ॥४॥
सहस्रवदनो देवो भगवान् भुवनेश्वरः ॥
न दानैर्न च तीर्थैश्च भक्त्या लभ्यस्त्वनन्यया ॥५॥
सत्सङ्गमेत्याशु शिक्षेद्भक्तिं वै श्रीहरेर्गुरोः ॥
स सिद्धः कथितो जातं यस्य वै प्रेमलक्षणम् ॥६॥
ब्राह्मे मुहूर्ते चोत्थाय रामकृष्णेति च ब्रुवन् ॥
नत्वा गुरुं भुवं चैव ततो भूम्यां पदं न्यसेत् ॥७॥
वार्य्युपस्पृश्य रहसि स्थितो भूत्वा कुशासने ॥
हस्तावुत्सङ्ग आधाय स्वनासाग्रनिरीक्षणः ॥८॥
ध्यायेत्परं हरिं देवं बलभद्रं सनातनम् ॥
गौरं नीलाम्बरं हृद्यं वनमालाविभूषितम् ॥९॥
एवं ध्यानपरो नित्यं प्रीत्यर्थं हलिनः प्रभोः ॥
त्रिकालसन्ध्याकृच्छुद्धो मौनी क्रोधविवर्जितः ॥१०॥
अकामी गतलोभश्च निर्मोहः सत्यवाग्भवेत् ॥
द्विवारं जलपानार्थी एकभुक्तो जितेन्द्रियः ॥११॥
क्षौमाम्बरो भूमिशायी भूत्वा पायसभोजनः ॥
एवं निर्जितषड्वर्गो भवेदेकाग्रमानसः ॥१२॥
तस्य प्रसन्नो भवति सदा सङ्कर्षणो हरिः ॥
परिपूर्णतमः साक्षात्सर्वकारणकारणः ॥१३॥
इत्थं श्रीबलभद्रस्य कथिता पद्धतिर्मया ॥
कौरवेन्द्र महाबाहो किं भूयः श्रोतुमिच्छसि ॥१४॥
दुर्योधन उवाच -
मुनीन्द्र देवदेवस्य पटलं ब्रूहि मे प्रभोः ॥
येन सेवां करिष्यामि तत्पदाम्बुजयोः सदा ॥१५॥
प्राड्विपाक उवाच -
बलस्य पटलं गुह्यं विद्धि सिद्धिप्रदायकम् ॥
एकान्ते ब्रह्मणा दत्तं नारदाय महात्मने ॥१६॥
प्रणवं पूर्वमुद्धृत्य कामबीजं ततः परम् ॥
कालिन्दीभेदनपदं सङ्कर्षणमतः परम् ॥१७॥
चतुर्थ्यन्तं द्वयं कृत्वा स्वाहां पश्चाद्विधाय च ॥
मन्त्रराजमिमं राजन् ब्रह्मोक्तं षोडशाक्षरम् ॥१८॥
जपेल्लक्षं व्रती भूत्वा सहस्राणि च षोडश ॥
इहामुत्र परां सिद्धिं सम्प्राप्नोति न संशयः ॥१९॥
अथ जप्तस्य मन्त्रस्य महापूजां समाचरेत् ॥
द्वात्रिंशत्पत्रसंयुक्तं कर्णिकाकेसरोज्ज्वलम् ॥२०॥
भव्यं कञ्जं पञ्चवर्णं लिखित्वा स्थण्डिले शुभे ॥
तस्योपरि न्यसेद्राजन् हेमसिहासनं शुभम् ॥
तस्मिन् श्रीबलदेवस्य परमर्चां प्रपूजयेत् ॥२१॥
ॐ नमो भगवते पुरुषोत्तमाय वासुदेवाय सङ्कर्षणाय
सहस्रवदनाय महानन्ताय स्वाहा ॥ अनेन
मन्त्रेण शिखाबन्धनं कृत्वा सर्वतस्तं प्रणम्य
तत्सम्मुखो भूत्वा स्वयं नतो भवेत् ॥
ॐ जयजयानन्त बलभद्र कामपाल तालाङ्क
कालिन्दीभञ्जन आविराविर्भूय मम सम्मुखो भवेति ॥
अनेन मन्त्रेणावाहनं कुर्यात् ॥ ॐनमस्तेऽस्तु सीरपाणे
हलमुसलधर रौहिणेय नीलाम्बर राम रेवतीरमण
नमस्तेऽस्तु ॥ अनेन मन्त्रेणासनपाद्यार्घ्यस्नानमधुपर्क-
धूपदीपयज्ञोपवित-नैवेद्यवस्त्रभूषणगन्धपुष्पाक्षतपुष्पाञ्जलि-
नीराजनादीनुपचारान् प्रकल्पयेत् ॥ ॐविष्णवे मधुसूदनाय
वामनाय त्रिविक्रमाय श्रीधराय हृषिकेशाय पद्मनाभाय
दामोदराय सङ्कर्षणाय वासुदेवाय प्रद्युम्नायानिरुद्धाय
अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥
इति पादगुल्फजानूरुकट्युदरपार्श्वपृष्ठिभुजाकन्धरनेत्रशिरांसि
पृथक् पृथक् पूजयामीति मन्त्रेण सर्वाङ्गपूजां कुर्यात् ॥
अथ शङ्खचक्रगदापद्मासिधनुर्बाणहलमुसलकौस्तुभ-
वनमालाश्रीवत्सपीताम्बरनीलाम्बरवंशीवेत्रगरुडाङ्कतालाङ्क-
रथदारुकसुमतिकुमुदकुमुदाक्षश्रीदामादीन् प्रणवपूर्वेण
चतुर्थ्यन्तेन नमः संयुक्तेन नाममन्त्रेण पृथक् पृथक्
सम्पूज्य ॥ तथा विष्वक्सेनवेदव्यासदुर्गाविनायक-
दिक्पालग्रहादीन् कमले सर्वतः स्वे स्वे स्थाने सम्पूजयेत् ॥
पुनः परिसमूहनादिस्थालीपाकविधानेन वैश्वानरं सम्पूज्य
पूर्वोक्तेन मूलमन्त्रेण पञ्चविंशतिसहस्राण्याहुतीर्जुहुयात् ॥
तथाष्टौ सहस्राणि द्वादशाक्षरेण तथाष्टौ सहस्राणि
चतुर्व्यूहमन्त्रेणाहुतीर्जुहुयात् ॥ ततोऽग्निं प्रदक्षिणीकृत्य
नमस्कृत्याचार्यं महार्हवस्त्रसुवर्णाभरणताम्रपात्रसवत्सगो-
सुवर्णदक्षिणाभिः सम्पूज्य तथा ब्राह्मणान्भोजनाद्यैः सम्पूज्य
नगरजनेभ्यो भोजनं दत्वाऽऽचार्यान्प्रणमेत् ॥ इत्थं बलस्य
पटलानुसारेण योऽनुस्मरति इहामुत्र सिद्धिसमृद्धिभिः
संवृतो भवति ॥ श्रीरामपटलं गुह्यं मया ते ह्यनुवर्णितम् ॥
सर्वसिद्धिप्रदं राजन् किं भूयः श्रोतुमिच्छसि ॥२२॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे
पद्धतिपटलवर्णनं नाम दशमोऽध्यायः ॥१०॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP