मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - सप्तमोऽध्यायः
मथुरा-लीला वर्णनम् -

प्राड्‌विपाक उवाच -
अथ मथुरायां रामकृष्णौ यानि चरित्राणि
कृतवन्तौ तानि सङ्क्षेपेण युवराज शृणुतात् ॥
अथ कालनेमिसुतेन कंसेन प्रयुक्तोऽक्रूरो
रामकृष्णौ समानेतुं व्रजमण्डलमागतवान् ॥१॥
तत्र गन्तुमभ्युद्यितं नन्दराजसूनुं वीक्ष्य गोपीगणा विरहातुरा बभूवुः ॥
पृथक् पृथक् तानाश्वास्य भगवान् रथमारुह्य सबलोऽक्रूरेण यदुपुरीं
गच्छन्मार्गे यमुनाजलेषु श्वाफल्काय स्वधाम दर्शयामास ॥२॥
अथ पूर्वाह्णे मथुरोपवने स्थित्वापराह्णे मथुरापुरीं सर्वतो ददर्श ॥
अथ रामकृष्णौ देवौ पुराणौ पुरुषौ लीलया नटवरवेषधरौ दिदृक्षवः
पौराश्च पुरन्ध्र्यः कर्माणि त्यक्त्वा व्यधावन्नापगा उदधिमिव तौ
कोटिकन्दर्पहरं सौन्दर्यं स्वं सन्दर्शयन्तौ चेतो हरन्तौ विचेरतुः स्म ॥३॥
अथ भगवान् राजमार्गे तद्याचितवस्त्राण्यदास्यन्तं
रजकं रङ्गकारं कराग्रेण सर्वेषां पश्यतां निर्जघान
तथा वस्त्रवेषं कुर्वते वायकाय स्वसारूप्यं प्रदात् ॥४॥
ततः सैरन्ध्रीं कुब्जां त्रिवक्रां चन्दनादानमिषेणर्ज्वीं
त्रिलोकसुन्दरीं कृत्वा ततो वैश्यजनान्समाभाष्य मथुरार्भकैः
सहितो धनुःस्थले विवेश ॥ अथ हेमचित्रं सप्ततालकं सहस्रशः
पुरुषैर्नेतुमशक्यं बृहद्‌भारं चाष्टधातुमयलक्षभारसमं
यज्ञमण्डपधृतं कंसाय भार्गवेण दत्तं साक्षाच्छेषमिव
कुण्डलीभूतं कोदण्डं वैष्णवं वीक्ष्य प्रसह्याददे ॥५॥
तदैव पश्यतां लोकानां सज्यं कृत्वा लीलयाऽऽकृष्य कर्णपर्यन्तं
दोर्दण्डाभ्यां यथेक्षुदण्डं वेतण्डः शुडादण्डेन कोदण्डं मध्यतो बभञ्ज ॥६॥
भज्यमानधनुषष्टङ्कारेण सप्तलोकबिलैः सह सर्वं ब्रह्माण्डं ननाद ॥
ततस्तारा दिग्गजाश्च विचेलुः ॥ सर्वं भूखण्डमण्डलं
स्थालीव घटिकाद्वयमात्रं प्रचकम्पे ॥७॥
अथापराह्णे रङ्गभूमिद्वारि द्विपं कुवलयापीडं समेत्य क्षणं
बाललीलया युद्धं कृत्वा शुण्डादण्डे सङ्गृहीत्वा त्वितस्ततो
भ्रामयित्वा बालकः कमण्डलुमिव भूपृष्ठे तं पातयामास ॥८॥
तमित्थं निहत्य रङ्गभूमौ कंससभायां जनतायै यथाभावं
दर्शनं दत्वा मल्लयुद्धं कृत्वा चाणूरमुष्टिककूटशलतोशलकान्
कंसस्याग्रे सर्वेषां पश्यतां भूपृष्ठे रामकृष्णौ पातयामासतुः ॥९॥
अथ तत्कर्म वीक्ष्य दुर्वचनानि विकत्थमानस्य कंसस्य
मधुसूदनः सहसोत्पत्य मञ्चं महोन्नतं समारुरोह ॥१०॥
ततः सत्वरं मृत्युमिवागतं वीक्ष्य मञ्चादुत्थाय तं
निर्भर्त्सयन्नुन्मना द्रुतं कंसः खड्गचर्मणी जगृहे ॥
हरिः सहसा चर्मासिसंयुक्तं कंसं सविषं फणीन्द्रमिव
तुण्डविभागाभ्यां विराडिव दोर्दण्डाभ्यां बलात्समग्रहीत् ॥११॥
अथ तार्क्ष्यतुण्डात्फणीव कंसो भुजबन्धाद्बलाद्विनिर्गत्य
पतत्खड्गचर्मा पुनरुद्यतोऽभूत्पुनर्मञ्चे बलिनौ
वेगान्मर्दयन्तौ शैले सिंहाविव शुशुभाते ॥१२॥
ततो बलादुत्पतन्तं कंसं शतहस्तमम्बरे कृष्ण उत्पतन्
श्येनं श्येन इव तं समग्रहीत् ॥ पुनर्गच्छन्तं दैत्यपुङ्गवं
प्रचण्ण्डभुजदण्डाभ्यां गृहीतत्रैलोक्याधार इतस्ततो
भ्रामयित्वा महाम्बरान्मञ्चोपरि पातयामास ॥१३॥
ततस्तडित्पाताद्द्रुमखण्ड इव भग्नदण्डो मञ्चो बभूव ॥
स वज्राङ्गः पतितोऽपि किञ्चिद्व्याकुलः सहसोत्थाय
महात्मना पुनर्युयुधे ॥ पुनस्तं भुजदण्डाभ्यां भगवान्
गृहीत्वा मञ्चे क्षिप्त्वा हृदयमारुह्य तन्मौलिं गृहीत्वा सद्यः
केशेषु गृह्य मञ्चाद्‌रङ्गोपरि पातयित्वा शैलाद्गण्डशिलामिव
तस्योपरिष्टात्सनातनः सर्वाधारोऽनन्तविक्रमो वेगात्स्वयं निपपात ॥
तयोर्निपातेन निम्नीभूतं भूखण्डमण्डलं स्थालीव दण्डत्रयं सहसा चकम्पे ॥१४॥
अथ सम्परेतं भोजराजं यदुराजो भूमिगतं नागेन्द्रं मृगेन्द्र इव
सर्वेषां पश्यतां विचकर्ष ॥ तदैव भूभुजां हाहाकार असीदहो वैरभावेन
यं भजन्कंसोऽपि तस्य सारुप्यं भृङ्गिणः कीटक इव जगाम ॥१५॥
ततः कंसं मृतं सहसा वीक्ष्य समागतांस्तस्यानुजान्
खड्गचर्मधरान् दृष्ट्वा बलभद्रो मुद्गरं नीत्वा
सर्वतोऽभिजघान॥ तदा देवदुन्दुभयो नेदुर्जयध्वनिश्चाभूद्देवाः
पुष्पैर्ववृषुर्विद्याधर्यो ननृतुर्विद्याधरगन्धर्वकिन्नरा जगुः ॥१६॥
अथ सर्वानाश्वास्य पितरौ विमोक्ष्योग्रसेनाय राज्यं दत्वोपवीतं
प्राप्य सन्दीपनाद्विद्या अधित्य तस्मै मृतं सुतं दक्षिणां दत्वा
शङ्खं हत्वा मथुरामेत्य वसन् व्रजशान्त्यै चोद्धवं प्रेषयित्वा
पुनः स्वयं व्रजं गत्वा राधायै गोपीभ्यश्च दर्शनं दत्वा
रासमध्ये ऋभुमोक्षं कृत्वा पुनर्मथुरायां माथुरेशो रराज ॥
रामोऽपि कोलवधं कृत्वा तस्यां विरराजेति
तयोर्मथुरायां सहस्रशः पवित्राणि चरित्राणि बभूवुः ॥१७॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे
मथुरालीलावर्णनं नाम सप्तमोऽध्यायः ॥७॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP