मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - तृतीयोऽध्यायः
ज्योतिष्मती उपाख्यानम् -

प्राड्‌विपाक उवाच -
अथागता कोटिशरच्चन्द्रमण्डलप्रतीकाशा नागलक्ष्मीर्महारथस्था
सखी कोटिमण्डलमण्डिता सङ्कर्षणं महानन्तं भर्तारं सभायां प्राह ॥१॥
अहमपि त्वया सहैव भगवन् भुवमागमिष्यामि
त्वद्वियोगातुरा प्राणान्न धारयामि ॥२॥
इति बाष्पकण्ठीं प्रियां सम्प्रेक्ष भगवाननन्तः
सर्वभक्तदुःखनिवारणो महेन्द्रवारण इव
भोगावारण इति होवाच ॥३॥
रम्भोरु त्वं रेवतीविग्रहे संलीना भूत्वा
भूलोकं भजतान्मा शोकं कुरुतात् ॥४॥
तच्छ्रुत्वा नागलक्ष्मीः प्रत्युवाच रेवती का कस्य
सुता क्व वर्तमाना नितरां वदैतत्तच्छ्रुत्वा
भगवाननन्तः सस्मितः स्वप्रियां प्रत्युवाच ॥५॥
आदिसर्गे कश्यपस्य कद्रुसुतो ह्यहं जातः
श्रीकृष्णाज्ञया त्वखण्डभूखण्डमण्डलं गजराडिव चैकफणे
कमण्डलुमिव धृत्वा सर्वतोऽधस्ताद्विराजमानोऽहं बभूव ॥६॥
अथ मयि स्थिते चक्षुषः पुत्रोऽतिबलश्चाक्षुषो नाम मनुः
सप्तद्वीपभूखण्डमण्डलेषु मण्डलपतिभिर्घृष्टपादपुण्डरीकः
पुरन्दरादिभिर्लङ्घितचण्डशासनः प्रचण्डदोर्दण्डाविखण्डितारिदोर्दण्डः
सर्वगुणमण्डितः सम्राड्बभूव ॥७॥
तस्य मनोः सुद्युम्नाद्याः पुत्रा बभूवुः ॥
तस्य यज्ञकुण्डसमुद्‌भवा कन्या ज्योतिष्मती जाता ॥८॥
एकदा स्नेहाच्चाक्षुषः पुत्रीं पप्रच्छ कीदृशं वरमिच्छसीति वद ॥
सा तदोवाच यः सर्वेषां बलवान्स मे वरो भूयात् ॥९॥
तच्छ्रुत्वा राजा शक्रं बलवन्तं ज्ञात्वा तमाजुहाव ॥ तदैव सद्यः
समागतं वज्रिणं पुरःस्थितं सादरेणासनं दत्वा मनुः प्राह ॥१०॥
त्वत्तः कोऽपि बलवान् वर्तते न वा तत्सत्यं वद
न चेत्स्मृतिः “न हि सत्यात्परो धर्म इति होवाच भूरियम् ॥
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्” ॥११॥
इन्द्र उवाच -
अहं बलवान्नास्मि मत्तो बलवान् वायुरस्ति
तेन सहायेन कार्य करोमीत्युक्त्वा गते
शक्रे राजा वायुमाजुहावाह च त्वत्तः कोऽपि
बलवान् वर्तते सत्यं वदतात् ॥१२॥
वायुरुवाच -
मत्तो बलवन्तः पर्वताः सन्ति मद्वेगेन नोड्डीयमाना
इत्युक्त्वा गते वायौ राजा पर्वतानाजुहावाह च
भवद्‌भ्यः कोऽपि कौ बलवान् वर्तते तत्सत्यं वदत ॥१३॥
पर्वताः प्राहुरस्मद्धारणाद्भूखण्डं बलवद्वर्तते यत्र वयं स्थिताः
स्मः ॥ पर्वतेषु गतेषु भूखण्डमण्डलं समाहूय राजा प्राह
त्वत्तः कोऽपि बलवान् वर्तते न वा सत्यं वद ॥१४॥
तच्छ्रुत्वा भूखण्ड उवाच -
मत्तो बलवान्सङ्कर्षणो भगवान् वर्तते ॥
सोऽयं सदाऽनन्तोऽनन्तगुणार्णव आदिदेवो
वासुदेवः सहस्रवदनो नागेन्द्र इव भव्यवपुः
कैलास इव शुक्लप्रकाशः कोटिसूर्यप्रतिभासः
कोटिकन्दर्पहारिलावण्येन विभ्राजमानः कमलपत्राक्षः
कमलकर्णिकादिव्यविमलमालानिर्मलपरिलोभित-
मधुकरनिकरसङ्गीयमानः सिद्धचारणगन्धर्व-
विद्याधरवरगणैरुपगीयमानः सुरासुरोरगमुनिगणैः
सन्ध्यायमानः सर्वोपरि विराजमान आस्ते ॥१५॥
यस्यैकस्मिन्मूर्ध्नि सगिरिसरित्समुद्रवनजीवकोटिमण्डितं-
भूखण्डमण्डलमहं दृशे ॥ यन्नामानुकीर्तनात्त्रिलोक्यां
त्रैलोक्यघात्यपि कैवल्यं प्राप्नोति ॥१६॥
एवम्प्रभावो भगवान् सर्वतो बलवान्सर्वकारणकारणः
सर्वेश्वरो दुरन्तवीर्य्यो मूले रसायाः
स्थितस्तस्मात्परः कोऽपि नास्ति ॥१७॥
महानन्त उवाच -
इत्युक्त्वा गते भूखण्डे चाक्षुषः कन्या ज्योतिष्मती
मम माधुर्यप्रभावं विज्ञाय पित्राज्ञां गृहीत्वा विन्ध्याचले
मत्प्राप्त्यर्थं वर्षाणां लक्षाणि ब्रह्मतपस्तेपे ॥१८॥
ग्रीष्मे पञ्चाग्नितप्ता वर्षासु सर्वासारधारिणी शिशिर
आकण्ठमग्ना शीतोदके भूत्वा स्थण्डीलशायिनी बभूव ॥१९॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे
ज्योतिष्मत्युपाख्यानं नाम तृतीयोऽध्यायः ॥३॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP