मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
बलभद्रखण्डः - द्वितीयोऽध्यायः
सङ्कर्षणस्य अवतारमन्त्रणा -

प्राड्‌विपाक उवाच -
इत्युक्तः सहस्रवदनो गन्तुमभ्युदितः स्वसभायां स्थितोऽभूत् ॥
तदैव सिद्धचारणगन्धर्वाः सर्वतस्तं नतकन्धरा बभूवुः ॥१॥
अथ सुमतिः सारथिर्दिव्यं रथं तालाङ्कं
साश्वं समानीय सम्मुखं स्थितोऽभूत् ॥२॥
परसैन्यविदारणं मुसलं दैत्यदमनं हलं ते तूर्णं
पुरस्तादुपतस्थतुः ब्रह्ममयं नाम वर्म चोपतस्थे ॥३॥
अथ तत्र श्रीबलभद्रसभायां सर्वेषां पश्यतां रमावैकुण्ठा-
त्समागतः पाणीनिपतञ्जल्यादिभिर्मुनिभिः स्तूयमानः
सहस्रफणमौलिविराजमानः सिद्धचारणचामरसंसेव्यमानः
शेषस्तमनन्तं सङ्कर्षणं स्तुत्वा तद्विग्रहे संलीनोऽभूत् ॥४॥
अथाजितवैकुण्ठात्समागतोऽजैकपादहिर्बुध्न्यबहुरूपमहदादिभिः
संवेष्टितो घोरैः प्रेतविनायकैः संवेष्टितः शेषः सहस्रवदनः
समागत्य स सभायामनन्तं स्तुत्वा तस्मिन् संलीनोऽभूत् ॥५॥
अथ श्वेतद्वीपात्समागतः कुमुदकुमुदाक्षादिभिः
पार्षदप्रवरैः ससेव्यमानः सहस्रफणमौलिविराजमानः
सिताचलाभो नीलाम्बरो नीलकुन्तलाभो भीमाभः
सर्वेषां पश्यतामनन्तविग्रहे सोऽपि संलीनोऽभूत् ॥६॥
अथ तदैवेलावृतखण्डात्समागतस्त्रीगणार्बुदसहस्रैर्भवानीनाथैः
समावृत्तः शेषः सहस्रवदनमौलिमण्डलमण्डितः
प्रस्फुरत्किरीटकटकाङ्गदः सभामेत्यानन्तविग्रहे सम्प्रलीनोऽभूत् ॥७॥
अथ पातालस्याधस्ताद्द्वात्रिंशद्योजनसहस्रान्तरात्समागतो
भगवतस्तामसीकलः साक्षात्सहस्रवदनकिरीटमार्तण्डमण्डल-
मण्डितो वेदव्यासपराशरसनकसनन्दनसनातनसनत्कुमार-
नारदसाङ्ख्यायनपुलस्त्यबृहस्पतिमैत्रेयादिमहर्षिभिः
संशोभितो वासुकिमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रकुहक-
कालियतक्षककम्बलाश्वतरदेवदत्तादिभिर्नागेन्द्रैश्चामरपाणिभिः
संसेव्यमानो मृगमदागरुकुङ्कुमचन्दनपङ्कावलिप्यमानाभि-
र्नागकन्याभिः सिद्धचारणगन्धर्वविद्याधरगणैरुपगीयमानो
हाटकेश्वरत्रिपुरबलकालकेयकलिनिवातकवचैरनुयायिभिः
पुरःसरै रुद्रैकादशव्यूहैर्नाभिकामधेनुवरुणैः पश्चात्प्रयायिभि-
र्वीणावेणुमृदङ्गतालदुन्दुभिध्वनिशब्दायमानः फणीन्द्रो नागेन्द्र
इव तूर्णगतिर्विराजते यस्यैकफणे चेदं क्षितिमण्डलं सिद्धार्थ
इव लक्षते सोऽप्यागत्य महानन्तविग्रहे संलीनोऽभूत् ॥८॥
तच्चित्रं दृष्ट्वा तत्सभापार्षदाः सर्वे तं
परिपूर्णतमं ज्ञात्वावनता विस्मिता बभूवुः ॥९॥
अथानन्तवदनो महानन्तः सङ्कर्षणो भगवान् पार्षदान् सिद्धानुवाच ॥१०॥
अहं भूमिभारहरणार्थं भुवि गमिष्यामि तस्माद्‌यूयं यादवेषु भविष्यथ ॥११॥
भोः प्रबलोद्‌भटसुमते सारथे भवतात्रैव स्थीयतां शोकं
मा कुरुतात् यदा युद्धार्थी त्वत्स्मरणं करिष्यामि तदा तं
दिव्यं तालाङ्कं रथं नीत्वा मत्समीपमागमिष्यसि ॥१२॥
हे हलमुसले यदा यदा युवयोः स्मरणं करिष्यामि
तदा तदा मत्पुर आविर्भूते भवतम् ॥१३॥
भो वर्म त्वमपि चाविर्भव । हे मुनयः पाणिन्यादयो हे
कोटिशो रुद्रा हे भवानीनाथ हे एकादश रुद्रा हे गन्धर्वा ॥
हे वासुक्यादिनागेन्द्रा हे निवातकवचा हे वरुण
हे कामधेनो भूम्यां भरतखण्डे यदुकुलेऽवतरन्तं मां
यूयं सर्वे सर्वदा एत्य मम दर्शनं कुरुत ॥१४॥
प्राड्‌विपाक उवाच -
इत्याज्ञप्ताः सर्वे स्वं स्वं धाम समाजग्मुस्तेषु
गतेषु नागकन्यायूथान् भगवाननन्तः प्राह -
युष्माकमभिप्रायो मया ज्ञातस्तपसा गोपालानां
गृहेषु जन्मानि प्राप्य मद्दर्शनं कुरुत ॥१५॥
कदाचित्कलिन्दनन्दिनीकूले विहारमाधुर्य्यमूले
युष्माभिः सह रासमण्डलं करिष्यामि युष्माकं
मनोरथः सफलो भविष्यति ॥१६॥
अथ निवातकवचानां राजा कलिः स्वामिपादकृत-
मस्तकाञ्जलिः प्रदत्तपुष्पावलिः श्रीभगवन्तं प्रत्युवाच ॥१७॥
अहं हि करिष्यामि मय्याज्ञां कुरु ॥ भगवन्
यत्र त्वं गमिष्यामि तत्राप्यहं गमिष्यामि ह
वाव त्वद्वियोगेन महान् खेदो भविष्यति सहैव
मां नय त्वं भक्तवत्सलोऽसि ॥१८॥
एवं सम्प्रार्थितो भगवाननन्तः कलिं राजानं
स्वभक्तं प्रसन्नः प्रत्युवाच - सुखेन त्वं
मत्सहेहागच्छ भरतखण्डे कौरवेन्द्राणां कुले
धृतराष्ट्रस्य पुत्रो भूत्वा दुर्योधनो नाम
चक्रवर्ती भविष्यसि त्वत्सहायमहं
करिष्यामि गदाशिक्षां च दास्यामि ॥१९॥
इत्युक्तः कलिस्तं नमस्कृत्य स्वधाम गतवान् सैष
कलिस्त्वं जातोऽसि विष्णुमायया स्वात्मानं न स्मरसि ॥२०॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
सङ्कर्षणगमनमन्त्रो नाम द्वितीयोऽध्यायः ॥२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP