मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - पञ्चाशत्तमोऽध्यायः
उग्रसेनस्य राजसूयमहोत्सवम् -

श्रीनारद उवाच -
अर्थसिद्धेरिव द्वारे रैवताद्रिसमुद्रयोः ॥
मध्ये पिण्डारके क्षेत्रे यज्ञारम्भो बभूव ह ॥१॥
पञ्चयोजनविस्तीर्णः कुण्डोऽभूद्यस्य चाध्वरे ॥
योजनं ब्रह्मकुण्डस्तु गव्यूतिः पञ्च कुण्डकाः ॥२॥
मेखलागर्त्तविस्तारवेदीभिनिर्मिताः शुभाः ॥
सहस्रहस्तमुच्चाङ्गो यज्ञस्तम्भो बभौ महान् ॥३॥
पञ्चयोजनविस्तीर्णः सौवर्णो यज्ञमण्डपः ॥
वितानतोरणे रेजे कदलीखण्डमण्डितः ॥४॥
भोजवृष्ण्यन्धकमधुशूरसेनदशार्हकैः ॥
देवैश्च सहितो राजा बभौ शक्र इवाध्वरे ॥५॥
यज्ञावतारः श्रीकृष्णः परिपूर्णतमोऽध्वरे ॥
बभौ पुत्रैश्च पौत्रैश्च परमात्मेव भूतिभिः ॥६॥
महासम्भृतसम्भारे राजसूयेऽध्वरे वरे ॥
गर्गाचार्यं गुरुं कृत्वा यदुराजो हि दीक्षितः ॥७॥
होतारो दश लक्षाणि दश लक्षाणि दीक्षिताः॥
अध्वर्य्यवः पञ्चलक्ष-मुद्‌गातारस्तथापरे ॥८॥
हस्तिशुण्डासमा धारा भुक्त्वाऽऽज्यस्य हुताशनः ॥
अजीर्णं प्राप्य तद्यज्ञे चित्रं विबुध मैथिल ॥९॥
केऽपि जीवास्त्रिलोक्यां तु न बभूवुर्बुभुक्षिताः ॥
सर्वे देवास्तु सोमेन ह्यजीर्णत्वमुपागताः ॥१०॥
रुचिमत्या धर्मपत्न्योग्रसेनो यदुराड् बली ॥
अध्वरावभृथस्नानं तीर्थे पिण्डारकेऽकरोत् ॥११॥
व्यासाद्यैर्मुनिभिः स्नातो विधिवद्‌वेदसूक्तिभिः ॥
यथा दक्षिणया यज्ञो रुचिमत्या बभौ नृप ॥१२॥
देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥
उग्रसेनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥१३॥
गजानां हेमभाराणां नियुतानि चतुर्दश ॥
शतार्बुदं हयानां तु यज्ञान्ते दक्षिणां पराम् ॥१४॥
कोटिशो नवरत्नानां महाहाराम्बरैः सह ॥
गर्गाचार्याय मुनये गृहोपस्करसंयुताम् ॥१५॥
उग्रसेनो ददौ राजा यादवेन्द्रो महामनाः ॥
गजानां तत्र साहस्रं हयानामयुतं तथा ॥१६॥
विंशद्‌भारं सुवर्णानां ब्राह्मणे ब्राह्मणे ददौ ॥
मरुत्तस्य महायज्ञे त्यक्तपात्रा यथा द्विजाः ॥१७॥
तथोग्रसेनस्य क्रतौ सन्तुष्टा हर्षिता गताः ॥
सन्तुष्टा देवताः सर्वाः प्राप्तभागा दिवं गताः ॥१८॥
भूरिद्रव्या वन्दिनश्च जयरावा गृहं गताः ॥
रक्षोदैत्या वानराश्च दंष्ट्रिणः पक्षिणस्तथा ॥१९॥
नागाः सन्तुष्टमनसः सर्वे स्वं स्वं गृहं ययुः ॥
गावाः शैला वृक्षसङ्घा नद्यस्तीर्थाश्च सिन्धवः ॥२०॥
सन्तुष्टाः प्राप्तभागा ये ते सर्वे स्वं गृहं ययुः ॥
राजानो ये समाहूताः पारिबर्हेण भूयसा ॥२१॥
पूजिता दानमानाभ्यां तेऽपि स्वं स्वं गृहं गताः ॥
नन्दाद्या गोपमुख्या ये श्रीकृष्णेन प्रपूजिताः ॥२२॥
हर्षिताः प्रेमदानाभ्यां तेऽपि सर्वे व्रजं ययुः ॥
एतत्ते कथितं राजन्महायज्ञस्य मण्डलम् ॥२३॥
यत्र श्रीकृष्णचन्द्रोऽस्ति तत्र किं सफलं न हि ॥
ये शृण्वन्ति कथामेतां पठन्ति सततं नराः ॥२४॥
धर्मश्चार्थश्च कामश्च मोक्षस्तेषां प्रजायते ॥२५॥
पूर्णः परेशः परमेश्वरः प्रभुः
पुनातु वो यः पुरुषः पुराणः ॥
शृण्वन्ति ये तस्य कथां विचित्रां
कुर्वन्ति तीर्थं स्वकुलं नरास्ते ॥२६॥
छलेन यज्ञस्य हरिः परेश्वरो
भारं विदेहेश भुवोऽवतारयत् ॥
योऽभूच्चतुर्व्यूहधरो यदोः कुले
तस्मै नमोऽनन्तगुणाय भूभृते ॥२७॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
राजसूय-यज्ञोत्सववर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

GO TOP