मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - सप्तचत्वारिंऽशोध्यायः
शक्रसखासहितं प्रद्युम्नस्य युद्धम् -
श्रीनारद उवाच -
प्रद्युम्नोऽथ महावीरो नादयन् जयदुन्दुभिम् ॥
यदुभिः सैनिकैः सार्द्धं मधुधारातटं ययौ ॥१॥
सुवर्णाद्रितटीभूते वने वैश्रवसे शुभे ॥
सुवर्णवर्णहंसाढ्ये काञ्चनीलतिकावृते ॥२॥
हेमावतीषु द्रोणीषु देवदुर्गासु मैथिल ॥
दानवानामगम्यासु गङ्गावेत्रवतीषु च ॥३॥
दानवेभ्यः प्रभीतानां क्वचित्स्वर्गात्पलायिनाम् ॥
अष्टानां लोकपालानां निधयो यत्र सन्ति हि ॥४॥
तत्र शक्रसखो देव आधिपत्याभिरक्षकः ॥
श्रुत्वाऽऽगतं च प्रद्युम्नं युद्धं कर्तुं मनो दधे ॥५॥
प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥
पप्रच्छ दृष्टमार्गैश्च जनैस्तस्य पुरं ययौ ॥६॥
नत्वा देवं शक्रसखं सभायामुद्धवः प्रभुः ॥
प्रद्युम्नकथितं प्राह विस्तरान्मन्त्रिणां वरः ॥७॥
उद्धव उवाच -
उग्रसेनो यादवेन्द्रो द्वारकेशो नृपेश्वरः ॥
जम्बूद्वीपनृपान् जित्वा राजसूयं करिष्यति ॥८॥
तेन प्रणोदितो जेतुं रुक्मिणीनन्दनो बली ॥
जित्वा स भारतादीनि खण्डानि स्वस्य तेजसा ॥९॥
अद्यैवेलावृतं प्राप्तो जेतुं कार्ष्णिर्महाबलः ॥
तस्मै यच्छ बलिं शीघ्रं कुलकौशलहेतवे ॥
न चेद्युद्धं हि भवता राजन्सर्वविदां वर ॥१०॥
शक्रसख उवाच -
शृणु दूत सदा देवैः पूजितोऽहं नरैः किमु ॥
सिद्धोऽहं वै महावीरो नागलक्षसमो बले ॥११॥
अष्टानां लोकपालानामाधिपत्याभिरक्षकः ॥
कुबेर इव कोशाढ्यः पुरन्दर इवोद्भटः ॥१२॥
उग्रसेनेन दातव्यं मह्यं चोपायनं परम् ॥
पुरा तस्मै न दास्यामि यदुराजाय भूभृते ॥१३॥
उद्धव उवाच -
यथा तिरस्कृतिं प्राप्तः कुबेरो यदुतेजसा ॥
यथा शृङ्गारतिलकश्चैत्रदेशाधिपो बली ॥१४॥
शुभाङ्गो हरिवर्षेश उत्तरेशो गुणाकरः ॥
यथा दैत्यसखो राजा लङ्केशो राक्षसेश्वरः ।१५॥
संवत्सरः केतुमालः शकुन्याद्या महासुराः ॥
तथाभूतस्त्वं हि राजन् बलिं तस्मै प्रदास्यसि ॥१६॥
श्रीनारद उवाच -
इत्युद्धववचः श्रुत्वा क्रुद्धः शक्रसखो बली ॥
उद्धवं प्रत्युवाचाथ शृणु भागवतोत्तम ॥१७॥
यावद्बलिं प्रदस्यामि तावत्त्वं संस्थितो भव ॥
अन्यथा ते गतिर्नास्ति सत्यं सत्यं महामते ॥१८॥
उद्धव उवाच -
वयं तु मन्त्रिप्रवराः पूर्णज्ञानप्रदा वराः ॥
मच्छिक्षणं न मन्यन्ते तेषां नो मङ्गलं भवेत् ॥१९॥
श्रीनारद उवाच -
एवं स दृष्टरोधेन रोधयामास चोद्धवम् ॥
उद्धवं नागतं राजन् यदूनामनुशोचताम् ॥२०॥
दिनानि कतिचित्तत्र व्यतीयुस्तमपश्यताम् ॥
मन्मुखात्तदुपाकर्ण्य प्रद्युम्नो भगवान्हरिः ॥२१॥
जेतुं शक्रसखं प्रागात्त्रिपुरं त्र्यम्बको यथा ॥
यदुभिर्भ्रातृभिः सार्द्धं स सैन्यपरिवारितः ॥२२॥
सुवर्णाद्रिगुहाद्वारात्सम्प्राप्तो मकरध्वजः ॥
वीरकोदण्डटङ्कारैर्दुन्दुभिध्वनिमिश्रितैः ॥२३॥
अश्वहेषैर्हस्तिनादैर्विनेदुश्च दिशो दश ॥
सैन्यपादरजोभिश्च युयुधे यादवैः सह ॥२४॥
बभूव तुमुलं युद्धं छादितं व्योममण्डलम् ॥
वीक्ष्य सर्वे मेरुदेवा भयं प्रापुर्नृपेश्वर ॥२५॥
अथ शक्रसखः क्रुद्धो रथारूढो महाबलः ॥
अक्षौहिणीभिर्दशभिर्युयुधे यादवैः सह ॥२६॥
बभूव तुमुलं युद्धं देवानां यदुभिः सह ॥
प्राकृतप्रलये राजन्नुदधीनां ध्वनिर्यथा ॥२७॥
शस्त्रान्धकारे सञ्जाते सारणो रोहिणीसुतः ॥
बलदेवानुजो वीरो दंशितो गजसंस्थितः ॥२८॥
सर्वेषामग्रतः प्राप्तो धनुष्टङ्कारयन्मुहुः ॥
तद्बलं पोथयामास बाणैः कोदण्डनिर्गतैः ॥२९॥
श्रीसारणस्य बाणौघैः केचिद्वीरा द्विधाकृताः ॥
तिर्यग्भूता रथा युद्धे निपेतुः पादपा इव ॥३०॥
गजानां भिन्नकुम्भानां मौक्तिकान्यपतंस्तदा ।
बाणान्धकारे सञ्जाते रात्रौ तारागणा इव ॥३१॥
सञ्छिद्यमानैरश्वैश्च वीरैर्नागै रणाङ्गणम् ॥
बभौ भूतगणैर्युक्तं यथाऽऽक्रीडमुमापतेः ॥३२॥
सारणस्य बलं दृष्ट्वा सर्वे देवाः पलायिताः ॥
सञ्छिन्नभिन्नकोदण्डा अभितः शीर्णकञ्चुकाः ॥३३॥
पलायमानं स्वबलं दृष्ट्वा शक्रसखो बली ॥
धनुष्टङ्कारयन्प्राप्तो जगर्ज घनवद्बलात् ॥३४॥
अर्जुनं दशभिर्बाणैर्विंशत्या भानुमेव च ॥
साम्बं बाणशतैर्युद्धेऽनिरुद्धं च शतैः शरैः ॥३५॥
द्विशतैश्च गदं वीरं सहस्रैः सारणं तथा ॥
तताड समरे वीरो धन्वी शक्रसखो बली ॥३६॥
तद्बाणैः सरथा वीरा बभ्रमुर्घटिकाद्वयम् ॥
चक्रवत्कुम्भकारस्य तदद्भूतमिवाभवत् ॥३७॥
हयाश्च पञ्चतां प्राप्ताः श्लथद्बन्धा रथा भ्रमात् ॥
रथिनः खिन्नमनसः सूत मूर्च्छां गता मृधे ॥३८॥
स चान्यं रथमारुह्य धनुष्टङ्कारयन्बलात् ॥
धनुः शक्रसखस्यापि चिच्छेद दशभीः शरैः ॥३९॥
द्वाभ्यां सूतं शतैरश्वान्सहस्रैस्तद्रथं शरैः ॥
चूर्णयामास राजेन्द्र साम्बो जाम्बवतीसुतः ॥४०॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
नागेन्द्रं मत्तमारुह्य शूलं जग्राह रोषतः ॥४१॥
विव्याध साम्बं शूलेन हृदि शक्रसखो बली ॥
तेन घातेन साम्बोऽपि किञ्चिद्व्याकुलमानसः ॥४२॥
योजने पादविक्षेपं कज्जलाद्रिसमप्रभम् ॥
चतुर्योजनमुच्चाङ्गं योजनार्द्धरदद्वयम् ॥४३॥
महच्चीत्कारं कुर्वन्तं त्रिशूण्डादण्डमण्डलैः ॥
श्रृङ्खले पातयन्तं तं चतुर्योजनविस्तृतैः ॥४४॥
गजान् वीरान्मर्दयन्तं रथानश्वानितस्ततः ॥
दन्तैः पादैर्घातयन्तं कालान्तकयमोपमम् ॥४५॥
आगतं वीक्ष्य नागेन्द्रं शत्रुणा नोदितं परम् ॥
विचरन्तं मृधाद्भीता यदुसेना विदुद्रुवुः ॥४६॥
गदो गदां समादाय बलदेवानुजो बली ॥
जघान तद्गजं कुम्भे गदया वज्रकल्पया ॥४७॥
तद्घातभिन्नकुम्भो हि गजो युद्धे पपात ह ॥
छिन्नपक्षो यथा शैलस्तदद्भुतमिवाभवत् ॥४८॥
अथ शक्रसखो यावद्गदां जग्राह रोषतः ॥
तावत्तताड गदया गदः शक्रसखं हृदि ॥४९॥
तेन घातेन सगजो पतितो मूर्छितोऽभवत् ॥
पुनरुत्थाय स गदं भुजाभ्यां जगृहे मृधे ॥५०॥
गदशक्रसखौ युद्धे युयुधाते परस्परम् ॥
रङ्गे मल्लाविव वन्ये वन्यौ तौ वारणाविव ।५१॥
भुजाभ्यां तं समुत्थाप्य बलदेवानुजो बली ॥
चिक्षेप तत्पुरे वीरं बलात्तं शतयोजनम् ॥५२॥
तदा जयजयारावो यदुसैन्ये बभूव ह ॥
जयदुन्दुभयो नेदुः प्रशशंसुर्मुहुर्जनाः ॥५३॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
शक्रसखयुद्धं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
GO TOP