मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - षट्चत्वारिंशोऽध्यायः
बलरामकृतं वसन्तमालतीपुरीकर्षणम् -
अथ कृष्णे भगवति पुरीं द्वारावतीं गते ॥
प्रद्युम्नः सैनिकैः सार्द्धं नदं कामदुघं ययौ ॥१॥
शतयोजनविस्तीर्णा गन्धर्वाणां मनोहरा ॥
वसन्तमालति नाम्ना हेमरत्नमयी पुरी ॥२॥
लवङ्गलतिकाजालै-रेलाकाश्मीरदेशकैः ॥
जातीफलादिजावित्री-श्रीखण्डपारिजातकैः ॥३॥
मत्तालिनादिता भृङ्गैः शब्दिता चित्रपक्षिभिः ॥
गन्धर्वै राजिता भव्यैर्नागैर्भोगवती यथा ॥४॥
पतङ्गो नाम तत्रैव गन्धर्वेशो महाबलः ॥
करोति राज्यं सुकृती शक्रवद्बलपौरुषम् ॥५॥
श्रुत्वा प्रद्युम्नमायातं दिग्जयार्थं विनिर्गतम् ॥
गन्धर्वैरुद्भटैर्युक्तो युद्धं कर्तुं मनो दधे ॥६॥
रथाश्वगजवीरैश्च गन्धर्वैर्दशकोटिभिः ॥
पतङ्ग आगतो योद्धुं प्रद्युम्नस्यापि सम्मुखे ॥७॥
गन्धर्वैर्यदुभिः सार्द्धं घोरं युद्धं बभूव ह ॥
भल्लैर्गदाभिः परिघैर्मुद्गरैस्तोमरर्ष्टिभिः ॥८॥
बाणान्धकारे सञ्जाते पतङ्गोऽतिरथो बली ॥
धनुष्टङ्कारयन् प्राप्तो जगर्ज घनवद्बली ॥९॥
गदो गदां समादाय बलदेवानुजो बली ॥
तद्बलं पोथयामास वज्रेणेन्द्रो यथा गिरिन् ॥१०॥
गदस्य गदया केचिद्गन्धर्वाः पतिता रणे ॥
रथाश्चूर्णीकृताः सर्वे मातङ्गा भिन्नमस्तकाः ॥११॥
अश्वारूढाः केऽपि वीराः पतिता रणमूर्द्धनि ॥
अधोमुखा ऊर्ध्वमुखा गन्धर्वाश्छिन्नबाहवः ॥१२॥
क्षणमात्रेण तत्सैन्ये रुधिराणां नदी ह्यभूत् ॥
प्रमथा हरमालार्थं शिरांसि जगृहुर्मृधे ॥१३॥
सिंहारूढा भद्रकाली डाकिनी शतसंवृता ॥
कपालेनापि रुधिरं पिबन्ति दृश्यते मृधे ॥१४॥
एवं युद्धे गदकृते गन्धर्वाणां पलायताम् ॥
गन्धर्वेशस्तदा प्राप्तो हस्तिलक्षबलान्वितः ॥१५॥
गदं तताड गदया पतङ्गो हृदि मैथिल ॥
गदोऽपि तं स्वगदया पतङ्गं हृदि चौजसा ॥१६॥
तयोश्च गदया युद्धं बभूव घटिकाद्वयम् ॥
विस्फुलिङ्गान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥१७॥
लक्षभारमयीं गुर्वीं गदामादाय सत्वरम् ॥
गदं तताड शिरसि पतङ्गो रणदुर्मदः ॥१८॥
गदाप्रहारेण गदः क्षणं मूर्छामवाप ह ॥
एवं कृते घोरमृधे पतङ्गेन महात्मना ॥१९॥
तदैव द्वारकापुर्य्यास्तेजः सङ्घट्टमागतम् ॥
ददृशुर्यादवाः सर्वे कोटिमार्तण्डसन्निभम् ॥२०॥
तस्मिंस्तेजसि गौराङ्गो बलदेवो महाबलः ॥
आविर्बभूव सहसा भगवान् भक्तवत्सलः ॥२१॥
गन्धर्वाणां बलं सर्वं समाकृष्य हलेन वै ॥
तताड मुसलं क्रुद्धो बलो नीलाम्बरो बली ॥२२॥
रथान् गजांस्तुरङ्गांश्च वीराः शस्त्रभृतां वराः ॥
निपेतुर्युगपत्सर्वे चूर्णिताश्चोपला इव ॥२३॥
पतङ्गो विरथस्तस्माद्भीतभीतः पुरीं ययौ ॥
पुनर्योद्धुं यादवैश्च सेनाव्यूहं चकार ह ॥२४॥
शतयोजनविस्तीर्णां गन्धर्वाणां महापुरीम् ॥
वसन्तमालतीं सर्वामुद्विदार्य हलेन वै ॥२५॥
विचकर्ष बलः क्रुद्धो नदे कामदुघे नृप ॥
हाहाकारस्तदैवासीन्नगर्यां पतित्तैर्गृहे ॥२६॥
तिर्यक्पोतमिवाघूर्णां नगरी वीक्ष्य सत्वरम् ॥
पतङ्गः सर्वगन्धर्वैर्हषितः सन्कृताञ्जलिः ॥२७॥
खचिद्धेमसुवर्णानां मुक्तातोरणशालिनाम् ॥
दशयोजनविस्तीर्णीकृतानां विश्वकर्मणा ॥२८॥
कामगानां पताकाभिर्युतानां कुम्भकोटिभिः ॥
सहस्रार्कप्रकाशानां विमानानां द्विलक्षकम् ॥२९॥
चतुर्लक्षं गवां चैव तुरङ्गाणां दशार्बुदम् ॥
एलालवङ्गकाश्मीरजातीफलफलैः सह ॥३०॥
सुधाफलानां दिव्यानां कोटिशो भाजनानि च ॥
नीत्वा बलिं समादाय दत्वा नत्वा प्रधर्षितः ॥३१॥
कृताञ्जलिः प्राह बलं बलभद्रप्रसादवित् ॥
पतङ्ग उवाच -
राम राम महावीर्य न जाने तव विक्रमम् ॥
यस्यैकमूर्ध्नि तिलकं दृश्यते भूमिमण्डलम् ॥३२॥
देवाधिदेव भगवन् कामपाल नमोऽस्तु ते ॥
नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः ॥३३॥
जयजयाच्युत देव परात्पर
स्वयमनन्तदिगन्तगतश्रुते ॥
सुरमुनीन्द्रफणीन्द्रवराय ते
मुसलिने बलिनै हलिने नमः ॥३४॥
श्रीनारद उवाच -
एवं स्तुतः पतङ्गेन बलभद्रो महाबलः ॥
प्रसन्नचेता गन्धर्वं मा भैष्टेत्यभयं ददौ ॥३५॥
स्थापयित्वा बले कार्ष्णिं प्रणतं यादवेश्वरः ॥
यादवैः प्रस्तुतः शीघ्रं पुरीं द्वारावतीं ययौ ॥३६॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
वसन्तमालतीकर्षणं नाम षट्चत्वारिंशोऽध्यायः ॥४६॥
GO TOP