मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - द्विचत्वारिंशोऽध्यायः
भद्राश्वखण्डविजयम् -
श्रीनारद उवाच -
पलायितेषु शेषेषु दैत्येषु रणमण्डलात् ॥
वीणावेणुमृदङ्गादीन्नादयन्दुन्दुभीन्हरिः ॥१॥
गीयमानो यादवेन्द्रः सूतमागधवन्दिभिः ॥
स्वपुत्रैर्यादवैः सार्द्धं स्वसैन्यपरिवारितः ॥२॥
शङ्खचक्रगदापद्म-शार्ङ्गचापविराजितः ॥
प्रविवेश सुरैः सार्द्धं पुरीं चन्द्रावतीं प्रभुः ॥३॥
दुःखार्ता भर्तरि मृते रुदन्ती करुणं बहु ॥
अङ्के गृहीत्वा शकुनेः सुतं राज्ञी मदालसा ॥४॥
श्रीकृष्णचरणे बालं निधायाशु कृताञ्जलिः ॥
अश्रुपूर्णमुखी दीना हरिं नत्वा जगाद ह ॥५॥
मदालसोवाच -
भारावताराय भुवि प्रभो त्वं
जातो यदूनां कुल अदिदेव ॥
ग्रसिष्यसे यानि भवं निधाय
गुणैर्न लिप्तोऽसि नमामि तुभ्यम् ॥६॥
मदात्मजं पालय भीतभीत-
ममुष्य हस्तं कुरु शीर्ष्णि देव ॥
भर्त्रा कृतं मे किल तेऽपराधं
क्षमस्व देवेश जगन्निवास ॥७॥
श्रीनारद उवाच -
इत्युक्त्वो भगवांस्तस्य मूर्ध्नि कृत्वा करद्वयम् ॥
सर्वं चन्द्रावतीराज्यं ददौ तस्मै महामुनिः ॥८॥
दत्वा कल्पान्तमायुष्यं भक्तिज्ञानं विरक्तिमत् ॥
शकुनेः शिशवे कृष्णः स्वमालां प्रददौ शुभाम् ॥९॥
उच्चैःश्रवो हयो रत्नं कामधेनुः सुरद्रुमः ॥
आहृता ये शकुनिना पुरा युद्धे पुरन्दरात् ॥१०॥
पुरन्दराय तान्प्रादात्प्रयत्नाच्छ्रीजनार्दनः ॥
गोविप्रसुरसाधूनां छन्दसां पालकः स्वयम् ॥११॥
बहुलाश्व उवाच -
केऽमी दैत्याः पूर्वकाले शकुन्याद्या महाबलाः ॥
देवर्षे मे परं चित्रं कस्मान्मोक्षमुपागताः ॥१२॥
श्रीनारद उवाच -
ब्रह्मकल्पे पुरा राजन् गन्धर्वेशः पुरावसुः ॥
आसीत्तस्य शुभाः पुत्रा बभूवुर्नुव चौरसाः ॥१३॥
कन्दर्पसमलावण्या दिव्यभूषणभूषिताः ॥
नित्यं जगुर्ब्रह्मलोके गीतवाद्यविशारदाः ॥१४॥
मन्दारो मन्दरो मन्दो मन्दहासो महाबलः ॥
सुदेवः सुधनः सौधः श्रीभानुरिति विश्रुताः ॥१५॥
एकदा मोहतः पुत्रीं वाग्देवीं वीक्ष्य वेधसः ॥
जहसुस्ते स्वमनसि पुरावसुसुताश्च ये ॥१६॥
सुरज्येष्ठापराधेन गता योनिं च तामसीम् ॥
वाराहेऽथ हिरण्याक्षपत्न्यां ते जज्ञिरे नव ॥१७॥
शकुनिः शम्बरो हृष्टो भूतसन्तापनो वृकः ॥
कालनाभो महानाभो हरिश्मश्रुस्तथोत्कचः ॥१८॥
एकदा गृहमायान्तमपान्तरतमं मुनिम् ॥
नत्वा सम्पूज्य विधिवत्पप्रच्छुरिदमादरात् ॥१९॥
दैत्या ऊचुः
शृणु त्वं स्वमुखाद्ब्रह्मन् कैवल्येशो हरिः स्वयम् ॥
ददाति मोक्षं भगवान् भक्तानां भक्तवत्सलः ॥२०॥
अस्माभिर्न कृता भक्तिरासुरीं योनिमास्थितैः ॥
दुःसङ्गनिरतैर्दुष्टैः कथं मोक्षो भवेदिह ॥२१॥
उपायं वद नो ब्रह्मन्कल्याणस्य परस्य च ॥
कल्याणार्थं विचरसि दीनानां जगति प्रभो ॥२२॥
अपान्तरतमा उवाच -
गुणानामपृथग्भावैर्ये भजन्ति हरिं परम् ॥
ते ते प्रापुः परं दैत्या निर्गुणं मोक्षनायकम् ॥२३॥
ऐक्यं च सौहृदं स्नेहं भयं क्रोधं स्मयं तथा ॥
विधाय पूर्वं सततं श्रीकृष्णे लीनतां गताः ॥२४॥
पृश्निगर्भस्य सम्बन्धात्प्रजानां पतयो यथा ॥
कायाधवः सौहृदाच्च स्नेहाच्च सुतपा मुनिः ॥२५॥
भयाद्धिरण्यकशिपुः क्रोधाद्वश्च पितासुरः ॥
स्मयाच्च श्रुतयः प्रापुर्योगिनां दुर्लभं परम् ॥२६॥
येन केनापि भावेन श्रीकृष्णे धारयेन्मनः ॥
भक्तियोगेन तद्धाम यदेभिः प्राप्यते सुराः ॥२७॥
श्रीनारद उवाच -
इत्युक्त्वान्तर्हिते राजन्नपान्तरतमे मुनौ ॥
चक्रुर्वैरं शकुन्याद्याः परिपूर्णतमे हरौ ॥२८॥
ते प्रापुर्वैरभावेन श्रीकृष्णं परमेश्वरम् ॥
न चित्रं विद्धि राजेन्द्र कीटः पेशस्कृतं यथा ॥२९॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
शकुन्यादिदैत्यानां पूर्वजन्मपरिचयो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥
GO TOP