मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - त्रयस्त्रिंशोऽध्यायः
भूतसन्तापनदैत्यवधम् -

श्रीनारद उवाच -
हृष्टं निपतितं श्रुत्वा शकुनिः क्रोधमुर्छितः ॥
भ्रातॄन्सम्प्रेषयामास देवानां भयकारकान् ॥१॥
भूतसन्तापनो नाम गजमारुह्य निर्गतः ॥
वृकः खरं समारुह्य कालनाभोऽथ सूकरम् ॥२॥
महानाभो मत्तपुष्टं हरिश्मश्रुस्तिमिङ्गिलम् ॥
वैजयन्तं रथं जैत्रं मयदैत्यविनिर्मितम् ॥३॥
पञ्चयोजनविस्तीर्णं सहस्राश्वनियोजितम् ॥
मायामयं कामगं च पताकाशतसंवृतम् ॥४॥
सहस्रकलशाढ्यं च मुक्तादामविलम्बितम् ॥
रत्नभूषणभूषाढ्यं शतचन्द्रसमोज्ज्वलम् ॥५॥
सहस्रचक्रसंयुक्तम् घण्टाकारविभूषणम् ॥
आरुह्य शकुनिः पश्चाद्योद्धुकामो विनिर्ययौ ॥६॥
अक्षौहिणीभिर्द्वादशभिर्दैत्यानां मैथिलेश्वर ॥
धनुःस्वनैर्वीरशब्दैरश्वहेषारथस्वनैः ॥७॥
चीत्कारैर्हस्तिनामाशामण्डलं तु जगर्ज ह ॥
दैत्यसेनाप्रयाणेन चकम्पे मण्डलं भुवः ॥८॥
निपेतुर्गिरयोऽनेका विचेलुः सिन्धवो नृप ॥
निपातितार्गला देवैर्बभूवाश्वमरावती ॥९॥
तत्सैन्यं भीषणं दृष्ट्वा प्रद्युम्नो धन्विनां वरः ॥
बली धैर्यधरः कार्ष्णिः प्राहेदं यदुपुङ्गवान् ॥१०॥
प्रद्युम्न उवाच -
इदं शरिरं भुवि पाञ्चभौतिकं
फेनोपमं कर्मगुणादिनिर्मितम् ॥
गतागतं कालवशं कदापि
बुधा न शोचन्ति यथार्भकैः कृतम् ॥११॥
गच्छन्ति चोर्ध्वं किल सात्विका जना
मध्ये च तिष्ठन्ति हि राजसा नराः ॥
अधः प्रगच्छन्ति हि तामसाः परे
मुहुर्मुहुस्ते विचरन्ति कर्मभिः ॥१२॥
बिभेत्ययं वा किल सर्वतो यथा
नेत्रभ्रमेणाचलतीव भूर्वृथा ॥
तथा च सर्वं मनसा कृतं जग-
त्काचेऽर्भकं ह्यभर्क आवृतो यथा ॥१३॥
यथा सुखं मण्डलवर्तिनां चलं
तथास्ति पातालनिवासिनामपि ॥
तथामराणां क्रतुभिः कृतं स्मरे-
त्सर्वं त्यजेत्ततृणवत्परो जनाः ॥१४॥
ऋतोर्गुणा देहगुणाः स्वभावा
अहर्दिनं यान्ति यथा तथा जनः ॥
दृश्यं च यद्यन्न हि किञ्चिदस्ति
यथा व्रजे गच्छति पान्थसङ्गमम् ॥१५॥
दृष्टं यथा वस्तु यदोल्कया तथा
परे गते किं ह्युभयप्रयोजनम् ॥
विधाय मार्गं विचरेच्छिवस्य
पश्यन्हि सर्वत्र हरिं परेश्वरम् ॥१६॥
यथेन्दुरेको जलपात्रवृन्दगो
यथाग्निरेको विदितः समिच्चये ॥
तथा परात्मा भगवाननेकव-
त्सोऽन्तर्बहिः स्यात्सुकृतेषु देहिषु ॥१७॥
यो ज्ञाननिष्ठोऽतिविरागमाश्रितः
श्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः ॥
तपोवनं वापि गृहं गृहं वनं
स्पृशन्ति तं ते त्रिगुणा न सर्वतः ॥१८॥
ततो यतिस्त्वध्यगमत्परात्परं
सुखी सदाऽऽनन्दमयस्तु बालवत् ॥
देहेन पश्यत्युत सर्वकारणं
धृतं च वासो मदिरामदान्धवत् ॥१९॥
सूर्योदये सर्वतमो विलियते
प्रदृश्यते वस्तु गृहे यथा जनैः ॥
ज्ञानोदयेऽज्ञानतमः प्रलीयते
सम्भ्राजते ब्रह्म परं तनौ तथा ॥२०॥
यथेन्द्रियाणां च पृथक् च वर्त्मभि-
र्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः ॥
एकं ह्यनन्तस्य परस्य धाम त-
त्तथा मुनीनां किल शास्त्रवर्त्मिभिः ॥२१॥
परं पदं केऽपि वदन्ति वैष्णवं
के वापि वैकुण्ठपरं परेशम् ॥
शान्तिं च यत्केऽपि तमःपरं बृह-
त्कैवल्यमेके प्रवदन्ति धामके ॥२२॥
यदक्षरं केऽपि दिशं वदन्ति के
गोलोकमाद्यं प्रवदन्त्यथापरे ॥
केचिन्निकुञ्जं निजलीलयाऽऽवृतं
प्राप्नोति कृष्णस्य पदं च तन्मुनिः ॥२३॥
श्रीनारद उवाच -
इति कार्ष्णेर्वचः श्रुत्वा सर्वे यादवपुङ्गवाः ॥
शस्त्राणि जगृहुर्हृष्टा तज्ज्ञाने धैर्यवर्द्धने ॥२४॥
बभूव तुमुलं युद्धं दैत्यानां यदुभिः सह ॥
सीतागङ्गातटे चाब्धौ रक्षसां कपिभिर्यथा ॥२५॥
रथिनो रथिभिस्तत्र पत्तिभिः पत्तयो नृप ॥
अश्ववाहैरश्ववाहा युयुधुश्च गजा गजैः ॥२६॥
केचित्करीन्द्रा उन्मत्ता महामात्यैः प्रणोदिताः ॥
गिरीन्द्रा इव दृश्यन्ते मुक्तानां मेघडम्बरैः ॥२७॥
शुण्डादण्डैश्च फूत्कारैः सचीत्कारैः सशृङ्खलैः ॥
पातयन्तो रथानश्वान् वीरान् राजन् रणाङ्गणे ॥२८॥
शुण्डादण्डैः सङ्गृहीत्वा रथान्साश्वान्ससारथीन् ॥
निपात्य भूमावुत्थाप्य चिक्षिपुश्चाम्बरे बलात् ॥२९॥
कांश्चिन्ममर्दुः पादाभ्यां संविदार्य करैर्दृढैः ॥
सक्षताश्च गजा राजन्प्रधावन्तो रणाङ्गणे ॥३०॥
सपक्षतुरगा राजन्नश्ववाहप्रणोदिताः ॥
उल्लङ्घयन्तोऽथ रथान् गजकुम्भान्तरे गताः ॥३१॥
केचिदश्वैर्महावीराः शक्तिहस्ता मदोत्कटाः ॥
जघ्नुर्गजस्थान्नृपतीन्मृगेन्द्रा इव यूथपान् ॥३२॥
अश्वारूढाः केऽपि सेनां संविदार्य विनिर्गताः ॥
खड्गवेगैः पद्मवनं लीलाभिर्वायवो यथा ॥३३॥
केचित्परस्परं साश्वैरुत्पतन्तो रणाङ्गणे ॥
खड्गैर्जघ्नुर्यथा क्रव्ये चञ्चुभिः पक्षिणोऽम्बरे ॥३४॥
केचित्खड्गैः परशुभिः केचिच्चक्रैः पदातयः ॥
चिच्छिदुर्निशितैर्भल्लैर्फलानीव शिरांसि च ॥३५॥
सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणो विजित् ॥
जयः सुभद्रो वामश्च सत्यकोऽश्वयुरेव हि ॥३६॥
भद्रायाश्च सुता ह्येते श्रीकृष्णस्यौरसाः शुभाः ॥
सर्वेषामग्रतः प्राप्ता युयुधुर्दैत्यपुङ्गवैः ॥३७॥
भूतसन्तापनो नाम गजारूढो महासुरः ॥
यदुसैन्ये महाराज चक्रे नाराचदुर्दिनम् ॥३८॥
बाणान्धकारे च कृते भूतसन्तापनेन वै ॥
सङ्ग्रामजित्तदा प्राप्तः श्रीकृष्णस्य सुतो बली ॥३९॥
विव्याध बाणशतकैर्भूतसन्तापनो बली ॥
प्रलयार्णवसङ्घोष-भीमसङ्घट्टनादिनीम् ॥४०॥
धनुर्ज्यां तस्य चिच्छेद भूतसन्तापनो बली ॥
सङ्ग्रामजिद्धनुश्चान्यद्‌-गृहीत्वा स्वं तडित्प्रभम् ॥४१॥
सज्जं कृत्वा विधानेन शतं बाणान्समादधे ॥
ते बाणास्तद्धनुर्ज्यां च कवचं लोहनिर्मितम् ॥४२॥
भित्वा छित्वा तनुं तस्य गजं भित्वावनिं गताः ॥
बाणप्रहारव्यथितः किञ्चिद्व्याकुलमानसः ॥४३॥
गजं स्वं नोदयामास भूतसन्तापनो बली ॥
कालान्तकसमं नागं दृष्ट्वा सङ्ग्रामजिद्‌बली ॥४४॥
गृहीत्वा स्वमसिं दिव्यं सञ्जघान रणाङ्गणे ॥
तस्य खड्गप्रहारेण शूण्डादण्डो द्विधाभवत् ॥४५॥
चीत्कारमुत्कटं कुर्वन् मदं संस्रावयन्कटात् ॥
भूतसन्तापनं त्यक्त्वा भुवनं कम्पयन् गजः ॥४६॥
निपातयन्महावीरान्घण्टानादैर्नदन्मुहुः ॥
न बलात्स्तम्भितो दैत्यैः पुरीं चन्द्रावतीं ययौ ॥४७॥
कोलाहलो महानासीद्व्रजन्नेवं गजे च्युते ॥
भूतसन्तापनश्चक्रं श्रीकृष्णस्य सुताय वै ॥४८॥
चिक्षेप निशितं शीघ्रं ग्रीष्ममार्तण्डवत्स्फुरत् ॥
तदागतं भ्रमद्दृष्ट्वा चक्रं भद्रात्मजो बली ॥४९॥
स्वचक्रेण महाराज लीलया शतधाच्छिनत् ॥
जठरस्य गिरेः शृङ्गं समुत्पाट्य महासुरः ॥५०॥
चिक्षेप कृष्णपुत्राय नादयन् व्योममण्डलम् ॥
सङ्ग्रामजिच्च तच्छृङ्गं गृहीत्वा भुजयोर्बलात् ॥५१॥
तताड तेन राजेन्द्र भूतसन्तापनं रणे ॥
भूतसन्तापनो दैत्यः सम्पूर्णं जठरं गिरिम् ॥५२॥
गृहीत्वा सङ्गरे तस्थावुद्‌भटो दैत्यपुङ्गवः ॥
अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात् ॥५३॥
देवकूटं समुत्पाट्य गिरिं च श्रीहरेः सुतः ॥
अनेन घातयिष्यामि त्वां रणे प्रवदन्मुखात् ॥५४॥
तस्थौ तत्सम्मुखे राजंस्तदद्‌भुतमिवामवत् ॥
क्षिपन्तं पर्वतं दैत्यं भूतसन्तापनं नृप ॥५५॥
तताड गिरिणा स्वेन रणे सङ्ग्रामजिद्‌बली ॥
जठरो देवकूटश्च द्वौ गिरी दैत्यमस्तके ॥५६॥
पतितौ भूरिभाराढ्यौ वज्रसङ्घर्षनादिनौ ॥५७॥
भूतसन्तापनस्ताभ्यां पतितः पञ्चतां गतः ॥
तज्ज्योतिः सङ्ग्रामजिति लीनं जातं विदेहराट् ॥ ५८॥
श्रीसङ्ग्रामजितः सैन्ये नेदुर्दुन्दुभयस्तदा ॥
भद्रात्मजोपरी सुराः पुष्पवर्षं प्रचक्रिरे ॥५९॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
भूतसन्तापनदैत्यवधो नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

GO TOP