मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - चतुर्विंशोऽध्यायः
यक्ष-युद्धम् -

श्रीनारद उवाच -
शस्त्रान्धकारे सञ्जाते मणिग्रीवो महाबलः ॥
बिभेदारिबलं बाणैः कुवाक्यैर्मित्रतामिव ॥१॥
मणिग्रीवस्य बाणौघैर्गजाश्वरथपत्तयः ॥
निपेतुः सक्षता भूमौ वृक्षा वातहता इव ॥२॥
चन्द्रभानुर्हरेः पुत्रो सत्यभामाऽऽत्मजो बली ॥
मणिग्रीवस्य कोदण्डं पञ्चबाणैस्तदाच्छिनत् ॥३॥
दशभीस्तद्‌रथं भित्वा जगर्ज घनवद्‌बली ॥
मणिग्रीवोऽपि चिक्षेप शक्तिं स्वां चन्द्रभानवे ॥४॥
भासयन्ती दिशः शश्वन्महोल्कामिव मैथिल ॥
अग्रहीच्चन्द्रभानुस्तां वामहस्तेन लीलया ॥५॥
तया जघान समरे मणिग्रीवं महाबलम् ॥
पुनर्जगर्ज समरे चन्द्रभानुर्महाबलः ॥ ६॥
तत्प्रहारेण पतिते मणिग्रीवे प्रमूर्छिते ॥
चन्द्रभानुं बाणजालैर्नलकूबरनोदिताः ॥७॥
छादयामासुरसुरा वर्षादित्यं यथाम्बुदाः ॥
दीप्तिमान्कृष्णपुत्रस्तु खड्गमुद्यम्य वेगवान् ॥८॥
विवेश यक्षसेनासु नीहारेषु यथा रविः ॥
तस्य खड्गप्रहारेण केचिद्यक्षा द्विधाभवन् ॥९॥
केचिद्वै छिन्नशिरसश्छिन्नपादांसबाहवः ॥
भिन्नहस्ताश्छिन्नकर्णाश्छिन्नोष्ठाः पेतुराहवे ॥१०॥
तेषां शिरोभिर्बीभत्सैः सकिरीटैः सकुण्डलैः ॥
सशिरस्त्रैः स्रवद्‌रक्तैर्महामारीव भूर्बभौ ॥११॥
शेषा विदुद्रुवुर्यक्षाः सक्षता भयविह्वलाः ॥
हाहाकारस्तदा जातो यक्षसेनासु मैथिल ॥१२॥
धनुष्टङ्कारयन्प्राप्तो दंशितो नलकूबरः ॥
रथेनातिपताकेन मा भैष्टेत्यभयं ददौ ॥१३॥
पञ्चभिः कृतवर्माणमर्जुनं दशभिः शरैः ॥
दीप्तिमन्तं च विंशत्या तताड नलकूबरः ॥१४॥
कृतवर्मा महाबाहुर्जघान नलकूबरम् ॥
पञ्चभिर्विशिखै राजन्नादयन्मण्डलं दिशाम् ॥१५॥
ते बाणाः कवचं भित्वा तनुं भित्वा धरातलम् ॥
विविशुः पश्यतां तेषां वल्मीके फणिनो यथा ॥१६॥
वीक्ष्य तद्‌बाणभिन्नाङ्गं मूर्च्छितं नलकूबरं ॥
अपोवाह रणात्सूतो हेममालीति नामभाक् ॥१७॥
घण्टानादः पार्श्वमौलिः कुबेरस्य च मन्त्रिणौ ॥
जघ्नतुर्बाणपटलैर्यदूनामुद्‌भटं बलम् ॥१८॥
स्वर्णपुङ्खैस्तीक्ष्णमुखैर्गृध्रपक्षैर्मनोजवैः ॥
द्योतयद्‌भिर्दिशः सर्वा मार्तण्डकिरणैरिव ॥१९॥
ततोऽर्जुनो महावीरः प्रतिबाणान्समादधे ॥
बाणसङ्घर्षजा युद्धे विस्फुलिङ्गा सहस्रशः ॥२०॥
विरेजुर्नृप खद्योतचञ्चलालातचक्रवत् ॥
सर्वं तद्‌बाणपटलं क्षणमात्रेण चाच्छिनत् ॥२१॥
गाण्डीवमुक्तविशिखैर्गाण्डीवी रणदुर्मदः ॥
योजनद्वयमात्रेण तद्‌रथो सध्वजो बलात् ॥२२॥
अर्जुनो बाणपटलैश्चकार शरपञ्जरे ॥
हताविमाविति ज्ञात्वा सर्वे पुण्यजनास्त्वरम् ॥२३॥
दुद्रुवुः स्वं रणं त्यक्त्वा परं हाहेति वादिनः ॥
तदा तु भूतावलयः कोटिशश्चाययुर्मृधे ॥२४॥
डाकिन्यः कोटिशो राजंश्चिक्षिपुर्वारणान्मृधे ॥
भक्षयन्त्यो नरानश्वाँश्चर्वयन्त्यो रथान्पृथक् ॥२५॥
नरे नरे पृथग्भूता धावन्तो दशभिर्दश ॥
प्रमथाः पातयामासुः खट्वाङ्गेन जनान्मुहुः ॥२६॥
यातुधानाश्चर्वयन्तः शिरांसि रणमण्डले ॥
वेतालाश्च कपालेन पिबन्तो रुधिरं बहु ॥२७॥
विनायकाश्च नृत्यन्तः प्रेता गायन्त एव हि ॥
कूष्माण्डाश्च तथोन्मादाः शिरांसि जगृहुर्मृधे ॥२८॥
शिवस्य मुण्डमालार्थं वीराणां स्वर्गगामिनाम् ॥
तथा मातृगणा ब्रह्मराक्षसा भैरवा मृधे ॥२९॥
शिरांसि कन्दुकानीव क्षेपयन्तो मुहुर्मुहुः ॥
हसन्तः प्रहसन्तश्च साट्टहासं समाकुलाः ॥३०॥
पिशाचा विकलास्याश्च कूर्दन्तः केऽपि कुत्सितम् ॥
पिशाच्यः क्षतजं तूष्णं पाययन्त्यः शिशून्मृधे ॥३१॥
मा रोदीरिति वादिन्यो नेत्राण्यपि ददाम उत् ॥
इत्थं गणबलं दृष्ट्वा बलदेवानुजो बली ॥३२॥
गदो गदां समादाय जगर्ज घनवद्‌बली ॥
लक्षभारभृता मौर्व्या गदया तद्‌बलं महत् ॥३३॥
पोथयामास हि गदो वज्रेणेन्द्रो यथा गिरीन् ॥
कूष्माण्डोन्मादवेतालाः पिशाचा ब्रह्मराक्षसाः ॥३४॥
निपेतुर्मूर्छिता भूमौ तद्‌गदाभिन्नमस्तकाः ॥
डाकिनीभिन्नदन्ताश्च प्रमथाभिन्नकन्धराः ॥३५॥
यातुधानांश्छिन्नमुखांश्चकार समरे गदः ॥
गदया मर्दिताः प्रेता दुद्रुवुस्ते दिशो दश ॥३६॥
वाराहदंष्ट्रया भग्ना लये दैत्या यथा नृप ॥
पलायिते भूतगणे वीरभद्रः समागतः ॥३७॥
गदं तताड गदया बलदेवानुजं बली ॥
गदोपरि गदां नीत्वा गदः स्वां प्राहीणोद्‌गदाम् ॥३८॥
तयोर्युद्धमभूद्‌घोरं गदाभ्यां मैथिलेश्वर ॥
विस्फुलिङ्गान् क्षरन्त्यो द्वे गदे चूर्णिबभूवतुः ॥३९॥
मल्लयुद्धं तयोरासीन्नोदयन्तं परस्परम् ॥
भुजैश्च जानुभिः पादैः पातयन्तो गिरीन् बहून् ॥४०॥
करवीरं समुत्पाट्य वीरभद्रो गिरिं बलात् ॥
अट्टहासं तदा कुर्वन् गदोपरि समक्षिपत् ॥४१॥
गदो गिरिं सङ्गृहीत्वा तस्योपरि समाक्षिपत् ॥
गृहीत्वाथ गदं वीरं वीरभद्रो बलाद्‌बली ॥४२॥
चिक्षेप चौजसा राजन्नाकाशे लक्षयोजनम् ॥
गदोऽपि पतितो भूमौ किञ्चिद्व्याकुलमानसः ॥४३॥
गृहीत्वा वीरभद्राख्यं भ्रामयित्वा महाबलः ॥
ओजसा प्राक्षिपच्छीघ्रमाकाशे लक्षयोजनम् ॥४४॥
वीरभद्रस्तु पतितः कैलासशिखरोपरि ॥
गदाप्रहारव्यथितो मूर्छितो घटिकाद्वयम् ॥४५॥
कार्तिकेयस्तदा प्राप्तः शक्तिमुद्यम्य वेगवान् ॥
अनिरुद्धाय साम्बाय शक्तिं चिक्षेप सत्वरम् ॥४६॥
अनिरुद्धरथं भित्वा साम्बं साम्बरथं पुनः ॥
गजान् रथान्सहस्रं च वीरलक्षं मृधाङ्गणे ॥४७॥
भित्वा नदन्ती स्फूर्जन्ती चपलेव दीशो दश ॥
विवेश भूमौ फूत्कारं कुर्वती पन्नगीव सा ॥४८॥
तदा क्रुद्धो महाबाहुः साम्बो जाम्बवतीसुतः ॥
कृत्वाथ सिञ्जिनीघोषं निषङ्गाद्‌बाणमाददे ॥४९॥
एकोऽपि सद्बहिस्तूणाद्दशरूपी बभूव ह ॥
चापे शतं कर्षणे च सहस्रं रूपमादधे ॥५०॥
मोक्षणे लक्षरूपाणि कोटिरूपाणि कोटिषु ॥
अनेकरूपी विशिखः शिखिनं शिखिवाहनम् ॥५१॥
भित्वा बिभेद वीराणां कोटिशः कोटिशो रणे ॥
कार्तिकेये च भिन्नाङ्गे किञ्चिद्व्याकुलमानसे ॥
गणेश्वरस्तदा प्राप्तो मूषकस्थो गजाननः ॥५२॥
गोमूत्रपत्रमृगनाभिविचित्रकुम्भं
श्रीकुङ्कुमाकलितसुन्दरवक्रतुण्डम् ॥
सिन्दूरपूरितकपोलमनोहराभं
कर्पूरधूलिधवलीकृतकर्णवर्णम् ॥५३॥
व्यालोलकर्णहतमत्तमधुव्रतैस्तैः
श्रीगण्डजातमदिरामदविह्वलाङ्गै ॥
सङ्गीततालकुसुमाकरगीतरागैः
संसेवितं गणपतिं कृतभालचन्द्रम् ॥५४॥
बालार्कवर्णममलाङ्गदहेमहार-
ग्रैवेयमौलिकिरणैः परितः स्फुरन्तम् ॥
आखुस्थमेकदशनं गजभव्यमूर्तिं
पाशाङ्कुशाम्बुजकुठारचयं दधानम् ॥५५॥
प्रांशुं चतुर्भुजमतीव मृधे प्रवृत्तं
कांश्चित्प्रगृह्य च करेण धृताङ्कुशेन ॥
सम्मर्दयन्तमुरुधारपरश्वधेन
श्रीभार्गवेन्द्रमिव शस्त्रभृतः समस्तान् ॥५६॥
वीरेभवाजिरथसङ्घबलं निपात्य
साम्बं प्रगृह्य सरथं प्रधनात्क्षिपन्तम् ॥
तं वीक्ष्य विस्मितमनाः सगणोऽथ कार्ष्णिः
पुत्रं सुबुद्धिमनिरुद्धमुवाच सम्यक् ॥५७॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
यक्षयुद्धवर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥

GO TOP