मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - पञ्चदशोऽध्यायः
केकयविजयम् -

श्रीनारद उवाच -
दिग्जयस्य मिषेणासौ भूभारं हारयन्मुहुः ॥
प्रद्युम्नो भगवान्साक्षादङ्गदेशं ततो ययौ ॥१॥
अङ्गेशोऽन्तःपुराधीशो गृहीतो यादवैर्वने ॥
सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥२॥
उड्डीशडामराधीशो बृहद्‌बाहुर्महाबलः ॥
न ददौ स बलिं तस्मै प्रद्युम्नाय मदोत्कटः ॥३॥
प्रद्युम्नप्रेषितो वीरः साम्बो जाम्बवतीसुतः ॥
एकाकी प्रययौ धन्वी रथेनादित्यवर्चसा ॥४॥
छादयामास बाणौघैर्डामरं नगरं नृप ॥
गिरिं तुषारपटलैर्जीमूत इव सर्वतः ॥५॥
तदा तु डामराधीशो धर्षितः सन्कृताञ्जलिः ॥
बलिं ददौ नमस्कृत्य प्रद्युम्नाय महात्मने ॥६॥
वङ्गदेशाधिपो वीरो वीरधन्वा मदोत्कटः ॥
आययौ सम्मुखे योद्धुमक्षौहिण्याऽऽवृतो बलि ॥७॥
चन्द्रभानुर्हरेः पुत्रः प्रद्युम्नस्य प्रपश्यतः ॥
बिभेद तद्‌बलं बाणैः कुवाक्यैर्मित्रतामिव ॥८॥
करिणां बाणभिन्नानां शिरसो मौक्तिकानि च ॥
प्रस्फुरन्ति निपेतुः कौ रात्रौ तारागणा इव ॥९॥
निपेतू रथिनोऽनेका गजाश्वाश्च पदातयः ॥
तद्‌बाणैश्छिन्नशिरसः कूष्माण्डशकला इव ॥१०॥
क्षणमात्रेण तत्सैन्यक्षतजानां नदी ह्यभूत् ॥
मनस्विनां हर्षकरी त्रस्तानां भयकारिणी ॥११॥
मुण्डैः कबन्धैर्धावद्‌भिर्हरिकेयुरकुण्डलैः ॥
किरीटैः कङ्कणैः शस्त्रैर्महामारीव भूर्बभौ ॥१२॥
कूष्माण्डोन्मादवेताला भैरवा ब्रह्मराक्षसाः ॥
शिरांसि जगृहुर्वेगाद्धरमालार्थहेतवे ॥१३॥
इत्थं निपातिते सैन्ये वीरधन्वा समागतः ॥
चन्द्रभानुं तताडाशु गदया वज्रकल्पया ॥१४॥
तद्‌गदातिप्रहारेण न चचाल हरेः सुतः ॥
चन्द्रभानुर्गदां नीत्वा तं तताड भुजान्तरे ॥१५॥
गदाप्रहारव्यथितो मूर्छितो धरणीतले ॥
पपात पादप इव प्रोद्वमन् रुधिरं मुखात् ॥१६॥
लब्धसञ्ज्ञो मुहूर्तेन वङ्गदेशाधिपो नृपः ॥
प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥१७॥
याते दत्तबलौ राजन्नगरं वीरधन्वनि ॥
ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोऽमितविक्रमः ॥१८॥
आशीमाधिपतिं बिम्बं गृहीत्वा यादवेश्वरः ॥
बलिमादाय यदुभिः कामरूपं समाययौ ॥१९॥
कामरुपेश्वरः पुण्ड्र ऐन्द्रजालविशारदः ॥
निर्गतः सेनया सार्द्धं योद्धुं प्रद्युम्नसम्मुखे ॥ २०॥
आशीमानां यदूनां च घोरं युद्धं बभूव ह ॥
बाणैः कुठारैः परिघैः शूलैः खड्गर्ष्टिशक्तिभिः ॥२१॥
पुण्ड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः ॥
ततो गुह्यकगन्धर्वाः सर्वतो मैथिलेश्वर ॥२२॥
प्रधावन्तो रणे राजन्पिशाचाः पिशिताशनाः ॥
कोटिशः कोटिशोंऽगारान् क्षेपयन्तो मुहुर्मुहुः ॥२३॥
क्षणमात्रेण तत्सैन्यं वमन्तो गरलं मुखात् ॥
फूत्कारमपि कुर्वन्तो दन्दशूकाः समागताः ॥२४॥
खरारूढा दन्तवक्रा ललज्जिह्वाभयङ्कराः ॥
चर्वयन्तो नरान् युद्धे धावन्तो राक्षसास्ततः ॥२५॥
यक्षाश्च सिंहवदना तुरङ्गवदना नृप ॥
छिन्धि भिन्धीति गर्जन्तः शूलहस्ता इतस्ततः ॥२६॥
क्षणमात्रेण मेघानां समूहैश्छादितं नभः ॥
अन्धकारो ह्यभूद्राजन् रजसा वातवेगतः ॥२७॥
भोजवृष्ण्यन्धकमधुशूरसेनदशार्हकाः ॥
भयं प्रापुर्महायुद्धे न्यस्तशस्त्रा यदूत्तमाः ॥२८॥
कृष्णदत्तं धनुः कार्ष्णिरादाय प्रतिकारवित् ॥
सत्त्वात्मिकां महाविद्यां बाणैः प्रायुङ्क्त मैथिल ॥२९॥
बाणैः पिशाचानुरगान् सयक्षान्
रक्षांसि गन्धर्वघनान्धकारान् ॥
बिभेद दिव्यैः प्रभवैर्यथा हि
नीहारमेघान् किरणैर्विवस्वान् ॥३०॥
बाणैश्च पुण्ड्रं सरथं सवाहनं
तं भ्रामयित्वा घटिकाद्वयं खे ॥
निपातयामास रणे सपत्नं
पद्मं पृथिव्यामिव मारुतः किल ।३१॥
बुद्धस्तदा तं शरणं समेत्य
प्रधर्षितः सद्य उपायनानि ॥
लक्षैर्हयानामयुतैर्गजानां
युतानि दत्त्वा प्रणनाम कार्ष्णिम् ॥३२॥
विपाशां स तदोत्तीर्य सैन्यैः शोणनदं नृप ॥
कैकयानाययौ धन्वी प्रद्युम्नो यदुनन्दनः ॥३३॥
कैकयस्याधिपो राजा धृतकेतुर्महाबलः ॥
वसुदेवस्वसुः साक्षाच्छ्रुतकीर्तेः पतिर्महान् ॥३४॥
प्रद्युम्नमर्हयामास धृतकेतुः स यादवम् ॥
भक्त्या परमया राजञ्छ्रीकृष्णस्य प्रभाववित् ॥३५॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कैकयविजयो नाम पञ्चदशोऽध्यायः ॥१५॥

GO TOP