मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - चतुर्दशोऽध्यायः
द्रविडदेशजयम् -

श्रीनारद उवाच -
ऋषभाद्रिं ततो दृष्ट्वा श्रीरङ्गाख्यं हरेः सुतः ॥
कामः कार्ष्णिः पुरीं काञ्चीं नदीं प्राचीं सरिद्वराम् ॥॥१॥
कावेरीं च तदोत्तीर्य सह्याद्रिविषयं ययौ ॥
यादवैः सहितः साक्षात्प्रद्युम्नो भगवान्हरिः ॥२॥
शिबिरेषु समायान्तं मुक्तकेशं दिगम्बरम् ॥
अवधूतं प्रधावन्तं पुष्टाङ्गं रजसाऽऽवृतम् ॥३॥
बालास्तमनुधावन्तस्तलशब्दैरितस्ततः ॥
कोलाहलं प्रकुर्वन्तो हसन्तो मैथिलेश्वर ॥४॥
तं दृष्ट्वा चोद्धवं प्राह कर्ष्णिर्बुद्धिमतां वरः ॥५॥
प्रद्युम्न उवाच -
कोऽयं पुष्टवपुर्धावन्बालोन्मत्तपिशाचवत् ॥
तिरस्कृतोऽपि हसति जनैरानन्दवान्महान् ॥६॥
उद्धव उवाच -
अयं परमहंसाख्योऽवधूतो वा हरेः कला ॥
सदानन्दमयः साक्षद्दत्तात्रेयो महामुनिः ॥७॥
यस्य प्रसादात्परमां सिद्धिं प्रापुः परे नृपाः ॥
सहस्रार्जुनमुख्या ये यदुकायाधवादयः ॥८॥
श्रीनारद उवाच -
इति श्रुत्वा शम्बरारिर्नत्वा सम्पूज्य तं मुनिम् ॥
संस्थाप्य चासने दिव्ये पप्रच्छेदं यदूत्तमः ॥९॥
प्रद्युम्न उवाच -
भगवन्मे हृदिस्थं वै सन्देहं नाशय प्रभो ॥
जगतो ब्रह्ममार्गांश्च हेत्वन्तं ब्रूहि तत्वतः ॥१०॥
दत्तात्रेय उवाच -
दृश्यते न वसुर्यावत्तावदुल्काप्रयोजनम् ॥
प्राप्ते वशे महानन्देऽथोल्कायाः किं प्रयोजनम् ॥११॥
तावदास्ते जगत्साधो यावत्तत्वं न वेद्यते ॥
परस्मिन्ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम् ॥१२॥
आस्यबिम्बो यथाऽऽदर्शे पश्यते न परं वपुः ॥
प्रधानार्थे तथा जीवो ज्ञानेनासौ परात्परम् ॥१३॥
यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते ॥
तथा ज्ञानोदये ब्रह्मतत्वं जीवेन सर्वतः ॥१४॥
श्रीनारद उवाच -
इति श्रुत्वाथ तं नत्वा प्रद्युम्नो यादवेश्वरः ॥
वैकुण्ठाद्रिं द्राविडेषु ययौ सेनासमन्वितः ॥१५॥
सत्यवाग्धर्मतत्वज्ञो राजर्षिर्द्राविडेश्वरः ॥
प्रद्युम्नं पूजयामास भक्त्या परमया युतः ॥१६॥
श्रीशैलदर्शनं कृत्वा गिरिशालयमद्‌भुतम् ॥
स्कन्दं वीक्ष्य ततो राजन् ययौ पम्पासरोवरे ॥१७॥
गोदावरीं भीमरथीं गतः श्रीद्वारकेश्वरः ॥
प्रदर्शयन्हरेस्तीर्थं महेन्द्राद्रिं ततो ययौ ॥१८॥
महेन्द्राद्रिस्थितं रामं भार्गवं क्षत्रियान्तकम् ॥
नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरेः सुतः ॥१९॥
रामस्तस्याशिषं दत्वा यादवानां बलाय वै ॥
चतुरङ्गाय राजेन्द्र योगेनार्हणमाचरत् ॥२०॥
भक्तसूपः प्रलेहश्च रुदिका दधिशाकजाः ॥
शिखरिण्यवलेहश्च बलका चक्षुखेरिणी ॥२१॥
त्रिकोणशर्करायुक्तो बटको मधुशीर्षकः ॥
फेणिका चोपरिष्टश्च शतपत्र सछिद्रकः ॥२२॥
चक्राभचिह्नकाश्चेत्थं सुधाकुण्डलिकाः स्मृताः ॥
घृतपूरो वायुपूरस्तथा चन्द्रकला स्मृताः ॥२३॥
दधिस्थलीश्च कर्पूरनाडीस्थं खण्डमण्डलम् ॥
गोधूमपरिखाश्चैव सुफलाढ्यास्तथैव च ॥२४॥
दधिरूपो मोदकश्च शाकसौधान एव च ॥
मण्डकापायसं युक्तं दधि गोघृतमेव च ॥२५॥
हैयङ्गवीनमण्डूरी कुपिका पर्पटस्तथा ॥
शक्तिका लसिका चैव सुवृत्सन्धाय एव ही ॥२६॥
सुफलैश्च सितायुक्तैः फलानि विविधनी च ॥
यथा मोहनभोगैश्च लवणं च तथैव च ॥२७॥
कषायो मधुरस्तिक्तः कटुरम्लस्त्वनेकधा ॥
षट्पञ्चाशत्तमश्चैव ह्येते भोगाः प्रकीर्तिताः ॥२८॥
एतेषां भार्गवः शैलानकार्षीद्योगमास्थितः ॥
सैन्ये सम्भोजिते तत्र हस्तन्यूना न तेऽभवन् ॥२९॥
वैभवं भार्गवस्यापि दृष्ट्वा सर्वेऽतिविस्मिताः ॥
प्रद्युम्नस्तं नमस्कृत्य यादवैः सहितस्तदा ॥३०॥
सर्वेषां शृण्वतां राजन् पप्रच्छेदं हरेः सुतः ॥
प्रद्युम्न उवाच -
भगवन्भवता दत्तं सर्वेभ्यो भोजनं परम् ॥३१॥
समृद्धयः सिद्धयश्च त्वदङ्घ्रावास्थिताः प्रभो ॥
सर्वेषां हरिभक्तानां प्रियो भक्तस्तु को हरेः ॥
एतन्मे ब्रूहि विप्रेन्द्र त्वं परावरवित्तमः ॥३२॥
परशुराम उवाच -
त्वं प्रभो किं न जानासि लोकवत्पृच्छसेऽथ माम् ॥
लोकसङ्ग्रहमेवारात्कुर्वन् विचरसि क्षितौ ॥३३॥
निष्किञ्चनो हरिपदाब्जपरागलुब्धः
श्रीमत्कथाश्रवणकीर्तनतत्परो यः ॥
तद्‌रूपसिन्धुलहरीविनिमग्नचित्तः
श्रीकृष्णचन्द्रदयितः कथितः स भक्तः ॥३४॥
दान्तो महानखिलजङ्गमवत्सलोऽयं
शान्तस्तितिक्षुरतिकारुणिकः सुहृत्सत् ॥
लोकं पुनाति निजपादरजोभिरारा-
च्छ्रीकृष्णचन्द्रदयितः कथितः परेश ॥३५॥
यः पारमेष्ठ्यमखिलं न महेन्द्रधिष्ण्यं
नो सार्वभौममनिशं न रसाधिपत्यम् ॥
नो योगसिद्धिमभितो न पुनर्भवं वा
वाञ्छत्यलं परमपादरजः स भक्तः ॥३६॥
निष्किञ्चनाः स्वकृतकर्मफलैर्विरागा
यत्तत्पदं हरिजना मुनयो महान्तः ॥
भक्ता जुषन्ति हरिपादरजःप्रसक्ता
अन्ये विदन्ति न सुखं किल नैरपेक्ष्यम् ॥३७॥
भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
शम्भुर्विधिर्न च रमा न च रौहिणेयः ॥
भक्ताननुव्रजति भक्तनिबद्धचित्त-
चूडामणिः सकललोकजनस्य कृष्णः ॥३८॥
गच्छन्निजं जनमनु प्रपुनाति लोका-
नावेदयन्हरिजने स्वरुचिं महात्मा ॥
तस्मादतीव भजतां भगवान्मुकुन्दो
मुक्तिं ददाति न कदापि सुभक्तियोगम् ॥३९॥
श्रीनारद उवाच -
इति श्रुत्वा यादवेन्द्रो नत्वा श्रीभार्गवोत्तमम् ॥
प्राच्यां दिशि ययौ राजन् गङ्गासागरसङ्गमम् ॥४०॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
द्राविडदेशविजयो नाम चतुर्दशोऽध्यायः ॥१४॥

GO TOP