मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
विश्वजित्खण्डः - दशमोऽध्यायः
यादवगणानां करूषदेशगमनम् -
श्रीनारद उवाच -
मनुतीर्थे ततः स्नात्वा प्रद्युम्नो यदुभिः सह ॥
प्रययौ कौङ्कणान्देशान्दुन्दुभीन्नादयन्मुहुः ॥१॥
कौङ्कणस्थोऽथ मेधावी गदायुद्धविशारदः ॥
एकाकी मल्लयुद्धेन परीक्षन्नाययौ बलम् ॥२॥
प्रद्युम्नं सबलं प्राह शृणु मे यादवेश्वर ॥
गदायुद्धं देहि मह्यं मद्बलं नाशय प्रभो ॥३॥
प्रद्युम्न उवाच -
एकतो ह्येकतो वीरा बलवन्तो महीतले ॥
मानं मा कुरु हे मल्ल विष्णुमायातिदुर्गमा ॥४॥
वयं तु बहवो वीरास्त्वमेकाकी समागतः ॥
अधमोऽयं महामल्ल दृश्यते याहि साम्प्रतम् ॥५॥
मल्ल उवाच -
यदा युद्धं न कुरुत भवन्तो बलशालिनः ॥
मत्पादोऽधोऽत्र निर्यान्तु तदा यास्यामि साम्प्रतम् ॥६॥
श्रीनारद उवाच -
एवं वदति मल्ले वै सर्वे यादवपुङ्गवाः ॥
बभूवुः क्रोधसंयुक्ताः पश्यतस्तस्य मैथिल ॥७॥
गदो गदां समादाय बलदेवानुजो बली ॥
तस्थौ सोऽपि गदां नीत्वा सर्वेषां पश्यतां नृप ॥८॥
गदां वरिष्ठां चिक्षेप गदाय स महाबलः ॥
गदोपरि गदां नीत्वा स्वगदां प्राक्षिपद्गदः ॥९॥
गदस्य गदया सोऽपि ताडितः पतितो भुवि ॥
मृधेच्छां न चकाराशु ह्युद्वमन् रुधिरं मुखात् ॥१०॥
कोङ्कणस्थोऽथ मेधावी नत्वा प्राह हरेः सुतम् ॥
परीक्षार्थं च भवतामेतत्कार्यं मया कृतम् ॥११॥
त्वमेव भगवान्साक्षात्कुतोऽहं प्राकृतो जनः ॥
क्षमस्व मेऽपराधं भो त्वामहं शरणं गतः ॥१२॥
श्रीनारद उवाच -
इत्युक्त्वाथ बलिं दत्वा नमस्कृत्य हरेः सुतम् ॥
कोङ्कणस्थः पुरीं प्रागान्मेधावी क्षत्रियोत्तमः ॥१३॥
कुटकाधिपतिं मौलिं मृगयायां विनिर्गतम् ॥
जग्राह स महाबाहुः साम्बो जाम्बवतीसुतः ॥१४॥
कार्ष्णिस्तस्माद्बलिं नीत्वा दण्डकाख्यं वनं ययौ ॥
मुनीनामाश्रमान्पश्यन्स्वसैन्यपरिवारितः ॥१५॥
निर्विन्ध्यां च पयोष्णीं च तापीं स्नात्वा हरेः सुतः ॥
शूर्पारकं महाक्षेत्रमार्यां द्वैपायनीं ततः ॥१६॥
ऋष्यमूकं ततः पश्यन्प्रवर्षणगिरिं गतः ॥
पर्जन्यो भगवान्साक्षान्नित्यदा यत्र वर्षति ॥१७॥
गोकर्णाख्यं शिवक्षेत्रं दृष्ट्वा कार्ष्णिः स्वसैन्यकैः ॥
त्रिगर्तान्केरलान् देशान् ययौ जेतुं महाबलः ॥१८॥
अम्बष्ठः केरलाधीशः श्रुत्वा वार्तां तु मन्मुखात् ॥
ददौ तस्मै बलिं शीघ्रं प्रद्युम्नाय महात्मने ॥१९॥
कृष्णां वेणीं तदोत्तीर्य तैलङ्गान् विषयान् ययौ ॥
सैन्यपादरजोवृन्दैरन्धीकुर्वन्नभःस्थलम् ॥२०॥
तैलङ्गस्याधिपो राजा विशालाक्षः प्रकीर्तितः ॥
पुरस्योपवने रेमे सुन्दरीगणसंवृतः ॥२१॥
मृदङ्गाद्यैश्च वादित्रैर्मधुरध्वनिसङ्कुलैः ॥
परैरप्सरसां रागैर्गीयमानो द्युराडिव ॥२२॥
तं प्राह सुन्दरी रामा राज्ञी मन्दारमालिनी ॥
रजोव्याप्तं नभो वीक्ष्य शुष्यद्बिम्बाधरा परा ॥२३॥
मन्दारमालिन्युवाच -
राजन्न जानासि सदा विहारा-
दहर्निशं कामविशाललोलः ॥
अहं न जानामि कदापि दुःखं
मुखालकालिभ्रमरास्तवेषा ॥२४॥
द्वारावतीशाध्वरनागवल्ली-
चयं समुत्थाप्य दिशो जयार्थम् ॥
विजित्य सर्वान्नृप चेदिपान्स
समागतोऽसौ यदुराजराजः ॥२५॥
धुङ्कारशब्दं नृणु दुन्दुभीनां
चित्कारफूत्कारयुतं द्विपानाम् ॥
कोदण्डटङ्कारमयं पराणां
कल्पान्तसारस्वतनादकारम् ॥२६॥
त्वरं बलिं प्रेषय शम्बरारये
प्रधावतीः पश्य नरेन्द्र सुन्दरीः ॥
च्यूतप्रसूनाः श्रमवारिवर्षणी-
र्वनप्रवेशास्फुटकेशमण्डनाः ॥२७॥
पत्नीवाक्यं ततः श्रुत्वा विशालाक्षोऽतिहर्षितः ॥
प्रद्युम्नसम्मुखे सोऽपि बलिं नीत्वा समाययौ ॥२८॥
तेन सम्पूजितः साक्षात्प्रद्युम्नो धन्विनां वरः ॥
स्नात्वा पम्पासरस्तीर्थे महाराष्ट्रं ततो ययौ ॥२९॥
महाराष्ट्राधिपो राजा विमलो नाम वैष्णवः ॥
भक्त्या परमया कार्ष्णिं पूजयामास सर्वतः ॥३०॥
तथा हि कर्णाटपतिः सहस्रजि-
त्स्वतः समानीय बलिं महात्मने ॥
सम्पूजयामास शुभार्थहेतवे
श्रीशम्बरारिं जगतः प्रभुं परम् ॥३१॥
प्रद्युम्नो भगवान्साक्षाद्यादवैः सह मैथिल ॥
करूषान् विषयान्प्रागाज्जेतुं योगीव देहजान् ॥३२॥
महारङ्गपुरे तत्र वृद्धशर्मा महामतिः ॥
भर्ताथ श्रुतदेवाया वसुदेवस्वसुर्नृप ॥३३॥
तस्य पुत्रो दन्तवक्त्रः कृष्णशत्रुः प्रकीर्तितः ॥
शिशुपाल इव क्रुद्धो योद्धुं चक्रे मनः स्वयम् ॥३४॥
मात्रा पित्रा वारितोऽपि दैत्यो दैत्याननुव्रतः ॥
यादवान् घातयिष्यामि कोऽयमित्थं चकार ह ॥३५॥
आदाय स गदां गुर्वीं लक्षभारविनिर्मिताम् ॥
एकाकी प्रययौ योद्धुं प्रद्युम्नबलसम्मुखे ॥३६॥
दन्तवक्त्रः कृष्णवर्णं कज्जलाद्रिसमप्रभम् ॥
ललज्जिह्वं घोररूपं तालवृक्षदशोच्छ्रितम् ॥३७॥
किरीटकुण्डलधरं हेमवर्णविभूषितम् ॥
किङ्किणीजालसंयुक्तं चलच्चरणनूपुरम् ॥३८॥
कम्पयन्तं भुवं वेगात्पातयन्तं गिरीन्द्रुमान् ॥
घातयन्तं स्वगदया कृतान्तमिव दुर्जनान् ॥३९॥
तं दृष्ट्वा यादवाः सर्वे भयं प्रापुर्मृधाङ्गणे ॥
आगते दन्तवक्त्रे च महान्कोलाहलो ह्यभूत् ॥४०॥
प्रद्युम्नः प्रेषयामास तस्योपरि महद्बलम् ॥
अष्टादशाक्षौहिणीनां धनुष्टङ्कारयन् मुहुः ॥४१॥
बाणैः परश्वधैः राजञ्छतघ्नीभीर्भृशुण्डिभिः ॥
तं तेडुर्यादवाः सर्वे सर्वतोऽद्रिं यथा गजाः ॥४२॥
दन्तवक्रः स्वगदया करीन्द्रानुत्कटान्बहून् ॥
पातयामास राजेन्द्र भिन्नकुम्भस्थलान् मृधे ॥४३॥
कांश्चित्पादेषु चोन्नीय किङ्किणीजालनादितान् ॥
सशृङ्खलान्सनीडांस्ताँल्लोलघण्टारणत्स्वनान् ॥४४॥
वातस्तूलमिवाकाशे चिक्षेप शतयोजनम् ॥
शूण्डादण्डेषु कांश्चिद्वै गृहीत्वा दैत्यपुङ्गवः ॥४५॥
भ्रामयित्वा गजान्दिक्षु नदतः प्राक्षिपद्रुषा ॥
कांश्चिद्गजान्वंशयोश्च कक्षयोरुभयोरपि ॥४६॥
पद्भ्यामाक्रम्य शुशुभे दैत्यः कालाग्निरुद्रवत् ॥
रथान्ससूतान्साश्वांश्च सध्वजान्समहारथान् ॥
चिक्षेप गगने वीरः पद्मानीव प्रभञ्जनः ॥४७॥
तुरगांश्च पदातीश्च प्राक्षिपद्गगने बलात् ॥
अधोमुखा ऊर्ध्वमुखा राजपुत्रा महाबलाः ॥४८॥
सशत्रा रत्नकेयुरसंयुक्तास्तारका इव ॥
आकाशात्प्रपतन्तस्ते वमन्तो रुधिरं मुखात् ॥४९॥
बलं विलोडयामास गदया दैत्यपुङ्गवः ॥
दंष्ट्रया प्रलयाब्धिं श्रीवराह इव मैथिल ॥५०॥
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कोङ्कणकुटकत्रिगर्तकेरलतैलङ्गमहाराष्ट्रकर्णाटविजये कारूषदेशगमनं नाम दशमोऽध्यायः ॥१०॥
GO TOP