मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
द्वारकाखण्डः - प्रथमोऽध्यायः
जरासन्धपराजयम् -
श्रीनारद उवाच -
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ १ ॥
बहुलाश्व उवाच -
श्रुतं तव मुखाद्ब्रह्मन्मथुराखण्डमद्भुतम् ।
वद मां द्वारकाखण्डं श्रीकृष्णचरितामृतम् ॥ २ ॥
विवाहाः कति पुत्राश्च कति पौत्रा रमापतेः ।
सर्वं वद महाबुद्धे द्वारकावासकारणम् ॥ ३ ॥
श्रीनारद उवाच -
अस्तिप्राप्ती महिष्यौ द्वे मृते कंसे महाबले ।
जरासन्धगृहं दुःखाज्जग्मतुर्मैथिलेश्वर ॥ ४ ॥
तन्मुखात्कंसमरणं श्रुत्वा क्रुद्धो जरासुतः ।
अयादवीं महीं कर्तुमुद्यतोऽभून्महाबलः ॥ ५ ॥
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ।
रम्यां मधुपुरीं राजन्नाययौ बलवान्नृपः ॥ ६ ॥
भयातुरां पुरीं वीक्ष्य तत्सेनां सिन्धुनादिनीम् ।
सभायां भगवान्साक्षाद्बलदेवमुवाच ह ॥ ७ ॥
सर्वं चास्य बलं राम हन्तव्यं वै न संशयः ।
मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ ८ ॥
जरासन्धनिमित्तेन भारं वै भूभुजा भुवः ।
सर्वं चात्र हरिष्यामि करिष्यामि प्रियं सताम् ॥ ९ ॥
एवं वदति कृष्णे वै वैकुण्ठाच्च रथो शुभौ ।
अभूतामागतौ राजन् सर्वेषां पश्यतां च तौ ॥ १० ॥
समारुह्य रथौ सद्यो रामकृष्णौ महाबलौ ।
यादवानां बलैः सूक्ष्मैस्त्वरं निर्जग्मतुः पुरात् ॥ ११ ॥
यादवानां मागधानां पश्यद्भिर्दिविजैर्दिवि ।
बभूव तुमुलं युद्धम्मद्भुतं रोमहर्षणम् ॥ १२ ॥
अक्षौहिणीभिर्दशभी रथारूढो महाबलः ।
श्रीकृष्णस्य पुरः पूर्वं युयुधे मागधेश्वरः ॥ १३ ॥
पञ्चभीश्चाक्षौहिणीभिर्धार्तराष्ट्रः सुयोधनः ।
युयोध यादवैः सार्द्धं जरासन्धसहायकृत् ॥ १४ ॥
पञ्चभिश्च तथा राजन् विन्ध्यदेशाधिपो बली ।
तिसृभिश्च महायुद्धे बङ्गनाथो महाबलः ॥ १५ ॥
एवमन्येऽपि राजानो जरासन्धवशानुगाः ।
प्राणैः सहायं कुर्वन्तो जरासन्धस्य मैथिल ॥ १६ ॥
बाणान्धकारे सञ्जाते शत्रुसेनासमाकुले ।
टङ्कारं शार्ङ्गधनुषः शार्ङ्गधन्वा चकार ह ॥ १७ ॥
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ।
विचेलुर्दिग्गजास्तारा एजद्भूखण्डमण्डलम् ॥ १८ ॥
तदैव बधिरीभूतं शत्रूणां सैन्यमण्डलम् ।
उत्पतन्तो हया युद्धाद्गजास्तु विमुखास्ततः ॥ १९ ॥
दुद्राव तद्बलं सर्वं टङ्काराद्भयविह्वलम् ।
प्रतीपमेत्य गव्यूतिः पुनस्तत्राजगाम ह ॥ २० ॥
एवं शार्ङ्ग समुच्चार्य तडीत्पिङ्गस्फुरत्प्रभम् ।
बाणौघैश्छादयामास जरासन्धबलं हरिः ॥ २१ ॥
चूर्णीभूता रथा राजन् बाणौघैः शार्ङ्गधन्वनः ।
चूर्णचक्रा निपेतुः कौ हतसूताश्च नायकाः ॥ २२ ॥
द्विधाभूता गजा बाणैश्चलिता गजिभिः सह ।
साश्ववाहास्तथाऽश्चाश्च बाणैः सञ्छिन्नकन्धराः ॥ २३ ॥
तथा वीरा महायुद्धे भिन्नोरश्छिन्नमस्तकाः ।
विशीर्णकवचाः पेतुर्बाणौघैश्छिन्नसंशया ॥ २४ ॥
अधोमुखा उर्ध्वमुखाश्छिन्नदेहा नृपात्मजाः ।
रेजू रणाङ्गणे राजन् भाण्डव्यूहा इवाहता ॥ २५ ॥
क्षणमात्रेण तद्युद्धे शतक्रोशविलम्बिता ।
आपगाऽभून्महादुर्गा रुधिरस्रावसम्भवा ॥ २६ ॥
द्वीपग्राहा चोष्ट्रखरकबन्धाश्वादिकच्छपा ।
शिशुमाररथा केशशैवाला भुजसर्पिणी ॥ २७ ॥
करमीना मौलिरत्नहारकुण्डलशर्करा ।
शस्त्रशुक्तिश्छ्त्रशङ्खा चामरध्वजसैकता ॥ २८ ॥
रथाङ्गावर्तसंयुक्ता सेनाद्वयतटावृता ।
शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥ २९ ॥
प्रमथा भैरवा भूता वेताला योगिनीगणाः ।
अट्टहासं प्रकुर्वन्तो नृत्यन्तो रणमण्डले ॥ ३० ॥
पिबन्तो रुधिरं शश्वत्कपालेन नृपेश्वर ।
हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥ ३१ ॥
सिंहरूढा भद्रकाली डाकिनीशतसंवृता ।
पिबन्ति रुधिरं चोष्णं साऽट्टहासं चकार ह ॥ ३२ ॥
विद्यधर्यश्च स्वर्गस्था गन्धर्व्योऽप्सरस्तथा ।
क्षात्रधर्मस्थितान्वीरान्वव्रिरे देवरूपिणः ॥ ३३ ॥
गॄहीत्वा तान्कलिरभूत्तासां पत्यर्थमम्बरे ।
ममानुरूपा तेनैव इति तद्गतचेतसाम् ॥ ३४ ॥
केचिद्वीरा धर्मपरा रणरङ्गान्न चालिताः ।
ययुर्विष्णुपदं दिव्य भित्वा मार्तण्डमण्डलम् ॥ ३५ ॥
शेषं बलं समाकृष्य बलदेवो हलेन वै ।
मुशलेनाहनत् क्रुद्धस्त्रैलोक्यबलधारकः ॥ ३६ ॥
एवं सैन्ये क्षयं याते जरासन्धस्य सर्वतः ।
सुयुधनो विन्ध्यनाथो बङ्गनाथस्तथैव च ॥ ३७ ॥
सर्वे विदुद्रुवुर्युद्धाद्भयभीता इतस्ततः ।
जरासन्धो महावीर्यो नागायुतसमो बले ॥ ३८ ॥
रथेनागतवान् राजन् बलदेवस्य सम्मुखे ।
समाकृष्य हलाग्रेण जरासन्धरथं शुभम् ॥ ३९ ॥
चूर्णयामास सहसा मुसलेन यदूत्तमः ।
जरासन्धोऽपि विरथो हताश्वो हतसारथिः ॥ ४० ॥
जग्राह बलिनं दोर्भ्यां सन्त्यक्त्वा शस्त्रसंहतिम् ।
तयोर्युद्धमभूद्घोरं बाहुभ्यां रणमण्डले ॥ ४१ ॥
पश्यतां दिवि देवानां नराणां भुवि मैथिल ।
उरसा शिरसा चैव बाहुभ्यां पादयोः पृथक् ॥ ४२ ॥
युयुधाते मल्लयुद्धे सिंहाविव महाबलौ ।
तयोश्च युद्ध्यतोः सर्वं क्षुण्णं भूखण्डमण्डलम् ॥ ४३ ॥
स्थालीव सहसा राजंश्चकम्पे घटीकाद्वयम् ।
गृहित्वा भुजदण्डाभ्यां जरासन्धं यदूत्तमः ॥ ४४ ॥
भूपृष्ठे पोथयामास कमण्डलुमिवार्भकः ।
रामस्तदुपरि स्थित्वा हन्तुं शत्रुं जरासुतम् ॥ ४५ ॥
जग्राह मुशलं घोरं क्रोधपूरितविग्रहः ।
परिपूर्णतमेनाथ श्रीकृष्णेन महात्मना ॥ ४६ ॥
निवारितस्तदैवाशु तं मुमोच यदूत्तमः ।
तपसे कृतसङ्कल्पो व्रीडितोऽपि जरासुतः ॥ ४७ ॥
निवारितो मन्त्रिमुख्यैर्मागधान्मागधो ययौ ।
इत्थं जित्वा जरासन्धं माधवो मधुसूदनः ॥ ४८ ॥
आयोधनगतं वित्तं सर्वं नीत्वा सुखावहम् ।
यादवानग्रतः कृत्वा बलदेवसमन्वितः ॥ ४९ ॥
उपगीयमानविजयः सूतमागधबन्दिभिः ।
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण भूयसा ॥ ५० ॥
विवेश मथुरां साक्षात्परिपूर्णतमः स्वयम् ॥ ५१ ॥
समचितो मङ्गललाजपुष्पैः
पश्यन्पुरीं मङ्गलकुम्भयुक्ताम् ।
पीताम्बरः श्यामतनुः शुभाङ्गः
स्फुरत्किरीटाङ्गदकुण्डलप्रभः ॥ ५२ ॥
शार्ङ्गादिशस्त्रास्त्रधरो हसन्मुख-
स्तालाङ्कयुक्तो गरुडध्वजः स्वयम् ।
उद्यद्विलोलाश्वरथः सुरार्चितः
समेत्य राजानमसौ बलिं ददौ ॥ ५३ ॥
इति श्रीगर्गसंहितायां द्वारकाखण्डे श्रीनारद बहुलाश्व संवादे
जरासन्धपराजयो नाम प्रथमोऽध्यायः ॥ १ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP