मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
मथुराखण्डः - त्रयोदशोऽध्यायः
व्रजे उद्धवागमनम् -
बहुलाश्व उवाच -
अग्रे चकार किं कार्यं मथुरायां यदूत्तमः ।
निवासयित्वा स्वज्ञातीन् वदैतन्मुनिसत्तम ॥ १ ॥
श्रीनारद उवाच -
परिपूर्णतमः साक्षाद् भगवान् भक्तवत्सलः ।
सस्मार गोकुलं दीनं गोपगोपालसङ्कुलम् ॥ २ ॥
एकदाऽऽहूय रहसि सखायं भक्तमुद्धवम् ।
उवाच भगवान्देवः प्रेमगद्गदया गिरा ॥ ३ ॥
श्रीभगवानुवाच -
गच्छ शीघ्रं व्रजं हे सखे सुन्दरं
श्रीलताकुञ्जपुञ्जादिभिर्मण्डितम् ।
शैलकृष्णप्रभाचारुवृदावनं
गोपगोपीगणैर्गोकुलं सङ्कुलम् ॥ ४ ॥
एकपत्रं तु नन्दाय वै दीयतां वा
द्वितीयं यशोदाकरे चैव भोः ।
वा तृतीयं त्विदं राधिकायै सखे
तत्र गत्वा हि तन्मन्दिरं सुन्दरम् ॥ ५ ॥
वा चतुर्थं सखिभ्यः शिशुभ्यः शुभं कौशलं
दीयतां पत्रमेवं पृथक् भोः सखे ।
गोपिकानां शतेभ्यश्च यूथेभ्य
उन्मोहितानां च देयानि पत्राणी च ॥ ६ ॥
मे पिता नन्दराजो घृणी मन्मना मे च
माता यशोदा स्मरत्याशु माम् ।
वाक्यवृन्दैः शुभैर्नीतिवित्वं तयोर्मे
परां प्रीतिमाराद्द्वयोरावह ॥ ७ ॥
मत्प्रिया राधिका मद्वियोगातुरा
मन्यते मां विना खं जगन्मोहतः ।
मद्वियोगाधिमस्या मदुक्तैः पदैर्मोचय
त्वं भवान् दक्षिणो वाक्पथे ॥ ८ ॥
गोपबालाः सुदामादयो मत्प्रिया मां
सखायं विना तेऽपि मोहातुराः ।
देहि तेषां सुखं मित्रवच्छ्रीव्रजे
स्वल्पकालेन तत्रागमिष्याम्यहम् ॥ ९ ॥
गोपिका मद्वियोगाधिवेगातुरा
मन्मनस्काश्च मत्प्राप्तदेहासवः ।
या मदर्थे च सन्त्यक्तलोकाबलास्ताः
कथं नात्र मन्त्रिन् बिभर्मि स्वतः ॥ १० ॥
ता असून् त्यक्तुमत्रोद्यता उद्धव
याभिरद्यापि कृच्छ्रैर्धृताश्चासवः ।
मद्वियोगाधिमासां मदुक्तः पदैर्मोचय
त्वं भवान्दक्षिणो वाक्पथे ॥ ११ ॥
येन पूर्वं व्रजादागतोऽहं सखे तं
रथं साश्वसूतं रणद्घण्टिकं वै ।
मे च सारूप्यमद्यैव पीताम्बरं
वैजयन्तीसहस्रच्छदं पङ्कजम् ॥ १२ ॥
कुण्डले दिव्यरत्नप्रभामण्डिते
कोटिबालार्कदीप्तं मणिं कौस्तुभम् ।
मे महानादिनीं चारुवंशीं शुभां
पुष्पयुक्तां च यष्टिं जगन्मोहिनीम् ॥ १३ ॥
चन्दनं सुन्दरं दिव्यगन्धावृतं
बर्हमल्लादिवेषं क्वणन्नूपुरम् ।
मौलिमेवं गृहाणाङ्गदे उद्धव
गच्छ गच्छाशु चाद्यैव मद्वाक्यतः ॥ १४ ॥
श्रीनारद उवाच -
इत्युक्त उद्धवः शीघ्रं नमस्कृत्य कृताञ्जलिः ।
कृष्णं प्रदक्षिणीकृत्य रथारुढो व्रजं ययौ ॥ १५ ॥
कोटिशः कोटिशो गावो यत्र यत्र मनोहराः ।
श्वेतपर्वतसङ्काशा दिव्यभूषणभूषिताः ॥ १६ ॥
पयस्विन्यस्तरुण्यश्च शीलरूपगुणैर्युताः ।
सवत्साः पीतपुच्छाश्च व्रजन्त्यो भव्यमूर्तिकाः ॥ १७ ॥
घण्टामञ्जीरझङ्काराः किङ्किणीजालमण्डिताः ।
हेमतुल्या हेमशृङ्ग्यो हारमालाः स्फुरत्प्रभाः ॥ १८ ॥
पाटला हरितास्ताम्राः पीताः श्यामा विचित्रिताः ।
धूम्राः कोकिलवर्णाश्च यत्र गावस्त्वनेकधा ॥ १९ ॥
समुद्रवद्दुग्धदाश्च तरुणीकरचित्रिताः ।
कुरङ्गवद्विलङ्घद्भिर्गोवत्सैर्मण्डिताः शुभाः ॥ २० ॥
इतस्ततश्चलन्तश्च गोगणेषु महावृषाः ।
दीर्घकन्धरशृङ्गाढ्या यत्र धर्मधुरन्धराः ॥ २१ ॥
गोपाला वेत्रहस्ताश्च श्यामवंशीधराः पराः ।
कृष्णलीलाः प्रगायन्तो रागैर्मदनमोहनैः ॥ २२ ॥
दूरात्तमागतं वीक्ष्य ज्ञात्वा कृष्णं व्रजार्भकाः ।
उचुः परस्परं ते वै कृष्णदर्शनलालसाः ॥ २३ ॥
गोपा उचुः -
नन्दसूनूः किलायाति सखा योऽयं न संशयः ।
मेघश्यामः पीतवासाः स्रग्वी कुण्डलमण्डितः ॥ २४ ॥
कौस्तुभि कुण्डली बिभ्रत्सत्सहस्रदलपङ्कजम् ।
तदेव मुकुटं बिभ्रत्कोटिमार्तण्डसन्निभम् ॥ २५ ॥
त एवाश्वा रथः सोऽयं किङ्किणीजालमण्डितः ।
बलो नास्ति रथे चास्मिन्नेकाकी नन्दनन्दनः ॥ २६ ॥
श्रीनारद उवाच -
एवं वदन्तो गोपालाः श्रीदामाद्या विदेहराट् ।
कृष्णाकृतिं कृष्णसखमाययुः सर्वतो रथम् ॥ २७ ॥
कृष्णो नास्तीति वदतः कोऽयं साक्षात्तदाकृतिः ।
तान्नमस्कृत्यौपगविः परिरभ्यावदत्पथि ॥ २८ ॥
उद्धव उवाच -
गृहाण पत्रं श्रीदामन् कृष्णदत्तं न संशयः ।
शोकं मा कुरु गोपालैः कुशल्यास्ते हरिः स्वयम् ॥ २९ ॥
यादवानां महत्कार्यं कृत्वाऽथ सबलः प्रभुः ।
ह्रस्वकालेन चात्रापि भगवानागमिष्यति ॥ ३० ॥
श्रीनारद उवाच -
पठित्वा तद्धस्तपत्रं श्रीदामाद्या व्रजार्भकाः ।
भृशमश्रूणि मुञ्चन्तः प्राहुर्गद्गदया गिरा ॥ ३१ ॥
गोपा उचुः -
पान्थेति निर्मोहिनि नन्दसूनौ
तनुर्विभूतिश्च धनं बलं च ।
सर्वा धियः कृष्णमृते व्रजे नः
शून्यं प्रजातं हि जगत्समस्तम् ॥ ३२ ॥
क्षणो युगत्वं च घटी महामते
प्रयाति मन्वन्तरतां व्रजौकसाम् ।
यामश्च कल्पं च दिनं विना हरिं
वियोगदुःखैर्द्विपरार्धतां गतम् ॥ ३३ ॥
अहर्निशं तं न हि विस्मरामहे
दुष्टा घटी सा प्रययौ यया हि सः ।
मनो हरन्नुद्धव नो वनौकसां
वयस्यभावेन सदा कृतागसाम् ॥ ३४ ॥
इति श्रीगर्गसंहितायां मथुराखण्डे श्रीनारदबहुलाश्वसंवादे
उद्धवागमनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP