मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
मथुराखण्डः - अष्टमोऽध्यायः
कंसवधम् -

श्रीनारद उवाच -
आर्द्रचित्तं नन्दराजं वनितानां मनोरथम् ।
स्मृत्वा शत्रून् हन्तुकामः चक्रे युद्धं बलाद्धरिः ॥ १ ॥
गृहीत्वा भुजदण्डाभ्यां चाणूरं गगने बलात् ।
चिक्षेप सहसा कृष्णो वातः पद्ममिवोद्धृतम् ॥ २ ॥
आकाशात्पतितः सोऽपि तारकेव ह्यधोमुखः ।
उत्थाय मुष्टिना कृष्णं ताडयामास वेगतः ॥ ३ ॥
तस्य मुष्टिप्रहारेण न चचाल परात्परः ।
सद्यो गृहीत्वा चाणूरं पातयामास भूतले ॥ ४ ॥
भिन्नदन्तस्तु चाणूरः क्रोधयुक्तो मदोत्कटः ।
मुष्टिद्वयेन श्रीकृणं तताड हृदि मैथिल ॥ ५ ॥
गृहीत्वा करयोस्तं वै कराभ्यां भगवान्स्वयम् ।
कंसस्याग्रे भ्रामयित्वा सर्वेषां पश्यतां नृप ॥ ६ ॥
पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ।
श्रीकृष्णस्य प्रहारेण चाणूरो भिन्नमस्तकः ॥ ७ ॥
उद्वमन् रुधिरं राजन्सद्यो वै निधनं गतः ।
तथैव मुष्टिकं मल्लं मुष्टिभिर्युधि दुर्गमम् ॥ ८ ॥
धृत्वाङ्घ्रौ भ्रामयित्वा खे बलदेवो महाबलः ।
पातयामास भूपृष्ठे फणिनं गरुडो यथा ।
मुष्टिको निधनं प्राप प्रोद्वमन् रुधिरं मुखात् ॥ ९ ॥
कूटं समागतं वीक्ष्य बलदेवो महाबलः ।
मुष्टिना पातयामास वज्रेणेन्द्रो यथा गिरिम् ॥ १० ॥
प्राप्तं शलं नन्दसूनुर्लत्तया तं तताड ह ।
तीक्ष्णया तुण्डया राजन्कद्रुजं गरुडो यथा ॥ ११ ॥
गृहीत्वा तोशलं कृष्णो मध्यतः संविदार्य्य च ।
प्राक्षिपत्कंसमञ्चाग्रे विटपं सिन्धुरो यथा ॥ १२ ॥
एते निपातिता रङ्गे सद्यो वै निधनं गताः ।
तेषां ज्योतींषि वैकुण्ठे विविशुः पश्यतां सताम् ॥ १३ ॥
एवं श्रीरामकृष्णाभ्यां मल्लेषु निहतेषु च ।
शेषाः प्रदुद्रुवुर्मल्ला भयार्ता जीवनेच्छया ॥ १४ ॥
श्रीदामादीन् वयस्यांश्च गोपानाकृष्य माधवः ।
तै सार्द्धं युद्धमारेभे सर्वेषां पश्यतां सताम् ॥ १५ ॥
किरीटकुण्डलधरौ रामकृष्णौ सहार्भकैः ।
विहरन्तौ वीक्ष्य रङ्गे विसिस्मुः पुरवासिनः ॥ १६ ॥
कंसं विना सर्वमुखाज्जयशब्दो विनिर्गतः ।
साधु साध्विति वादोऽभून्नेदुर्दुन्दुभयस्ततः ॥ १७ ॥
स्वस्याजयं वीक्ष्य कंसो महाक्रोधसमाकुलः ।
वर्जयित्वा तूर्यघोषं प्राह प्रस्फुरिताधरः ॥ १८ ॥
कंस उवाच -
दुर्बुद्धियुक्तौ वसुदेवनन्दनौ
प्रसह्य निःसारयताशु मत्पुरात् ।
हरन्तु सर्वं व्रजवासिनां धनं
बध्नीत नन्दं सहसाऽतिदुर्मतिम् ॥ १९ ॥
अद्योग्रसेनस्य पितुः कुबुद्धेः
शौरेः शिरश्चाशु हि छिन्धि छिन्धि ।
कौ यत्र तत्रापि तथाऽत्र वृष्णि-
जातान्सुरांशान् किल सूदयध्वम् ॥ २० ॥
श्रीनारद उवाच -
एवं विकत्थमानस्य कंसस्य यदुनन्दनः ।
सहसोत्पत्य तं मञ्चमारुहत्क्रोधपूरितः ॥ २१ ॥
मृत्युं स्मागतं वीक्ष्य मञ्चादुत्थाय सत्वरम् ।
मदोद्धतो भर्त्सयंस्तं जगृहे खड्गचर्म्मणी ॥ २२ ॥
अग्रहीत्सहसा कंसं दोर्भ्यां चर्मासिसंयुतम् ।
यथा तुण्डविभागाभ्यां सविषं फणिनं विराट् ॥ २३ ॥
पतत्खड्गश्चलच्चर्मा भुजबन्धाद्‌बलाद्‌बली ।
विनिर्ययौ तार्क्ष्यतुण्डात्पुण्डरीको यथा फणी ॥ २४ ॥
मञ्चे तौ बलिनौ वेगान्मर्दयन्तौ परस्परम् ।
शैलशृङ्गे यथा सिंहौ शुशुभाते यथातथम् ॥ २५ ॥
उत्पतन्तं बलात्कंसं शतहस्तं महाम्बरे ।
अग्रहिच्चोत्पतन् कृष्णः श्येनं श्येनो यथाम्बरे ॥ २६ ॥
गृहीत्वा भुजदण्डाभ्यां प्रचण्डं दैत्यपुङ्गवम् ।
त्रैलोक्यबलधृग्देवो भ्रामयित्वा त्वितस्ततः ॥ २७ ॥
आकाशात्पातयामास मञ्चोपरि रुषान्वितः ।
भग्नदण्डोऽभवन्मञ्चस्तडित्पाते यथा द्रुमः ॥ २८ ॥
पतितोऽपि स वज्राङ्ग किञ्चिद्‌व्यायाकुलमानसः ।
सहसोत्थाय युयुधे श्रीकृष्णेन महात्मना ॥ २९ ॥
नीत्वा तं भुजदण्डाभ्यां मञ्चे क्षिप्त्वा पुनः प्रभुः ।
आरुह्य हृदयं तस्य मौलिं जग्राह माधव ॥ ३० ॥
सद्यः प्रगृह्य केशेषु रङ्गोपरि हरिः स्वयम् ।
मञ्चात्तं पातयामास शैलाद्गण्डशिलामिव ॥ ३१ ॥
तस्योपरिष्ठाच्छ्रीकृष्णः सर्वाधारः सनातनः ।
निपपात स्वयं वेगादनन्तोऽनन्तविक्रमः ॥ ३२ ॥
इत्थं द्वयोर्निपातेन निम्नं भूखण्डमण्डलम् ।
स्थालीव सहसा राजञ्चकम्पे घटिकाद्वयम् ॥ ३३ ॥
सम्परेतं भोजराजं भूमौ तं विचकर्ष ह ।
यथा मृगेन्द्रो नागेन्द्रं सर्वेषां पश्यतां नृप ॥ ३४ ॥
हाहाकारस्तदैवासीद्धावतां भूभुजां नृप ।
वैरभावेन देवेशं भजन्कंसो महाबलः ॥ ३५ ॥
जगाम तस्य सारूप्यं भृङ्गिणः कीटको यथा ।
कंसं प्रपतितं दृष्ट्वा भ्रातरोऽष्टौ महाबलाः ।
सुनामसृष्टिन्यग्रोधतुष्टिमद्राष्ट्रपालकाः ॥ ३६ ॥
सुहुना कङ्कशङ्कुभ्यां क्रोधप्रस्फुरिताधराः ।
खड्गचर्मधरा योद्धुं कृष्णोपरि समाययुः ॥ ३७ ॥
वीक्ष्य तान्मुद्‌गरं नीत्वा रोहिणीनन्दनो बलः ।
आराच्चकार हुङ्कारं यथा सिंहो मृगान्प्रति ॥ ३८ ॥
हुङ्कारेणैव शस्त्राणि तेषां हस्तेभ्य आभयात् ।
पेतुराम्रफलानीव दण्डघातैश्च मैथिल ॥ ३९ ॥
निःशस्त्रास्ते महावीरा मुष्टिभिः सर्वतो बलम् ।
तेडुः शैलं यथा नागा शुण्डादण्डैरितस्ततः ॥ ४० ॥
सृष्टिं तथा सुनामानं मुद्‌गरेण बलोऽहनत् ।
न्यग्रोधं भुजवेगेन कङ्कं वामकरेण वै ॥ ४१ ॥
शङ्कुं सुहुं तुष्टिमन्तं वामपादेन माधवः ।
राष्ट्रपालं दक्षिणेन पादेनाभिजघान ह ॥ ४२ ॥
अष्टौ निपेतुः सहसा वृक्षा वातहता इव ।
तेषां ज्योतिर्भगवति लीनं जातं विदेहराट् ॥ ४३ ॥
देवदुन्दुभयो नेदुर्जयध्वनिरभूत्तदा ।
सद्यो वै ववृषुर्देवाः पुष्पैर्नन्दनसम्भवैः ॥ ४४ ॥
विद्याधर्यश्च गन्धर्व्यो ननृतुर्हर्षविह्वलाः ।
विद्याधरश्च गन्धर्वाः किन्नरास्तद्‌यशो जगुः ॥ ४५ ॥
ब्रह्माद्या मुनयः सिद्धा विमानैर्द्रष्टुमागताः ।
तुष्टुवू रामकृष्णौ तौ वाग्भिः श्रुतिपरायणाः ॥ ४६ ॥
ताडयन्त्य उरो हस्तैः अस्तिप्राप्त्यादयः स्त्रियः ।
विनिर्गतास्ता रुरुदुर्जातवैधव्यदुःखिताः ॥ ४७ ॥
स्त्रिय उचुः -
हा नाथ हे युद्धपते क्व गतोऽसि महाबल।
त्रैलोक्यविजयी साक्षाद्देवानामपि दुर्जयः ॥ ४८ ॥
जातमात्राः स्वसुः पुत्रा निर्घृणेन त्वया हताः ।
अनिर्दशा निर्दशाश्चापरेऽपि निहता बलात् ॥ ४९ ॥
तेन पापेन घोरेण दशामेतादृशीं गतः ॥ ५० ॥
श्रीनारद उवाच -
एवमश्रुमुखीर्दीना आश्वास्य नृपयोषितः ।
विधाय यमुनातीरे चिताः श्रीखण्डसंयुताः ॥ ५१ ॥
हतानां कारयित्वाऽसौ क्रियां वै पारलौकिकीम् ।
सर्वान्सम्बोधयामास भगवाँल्लोकभावनः ॥ ५२ ॥
इति श्रीगर्गसंहितायां मथुराखण्डे श्रीनारदबहुलाश्वसंवादे
कंसवधो नाम अष्टमोऽध्यायः ॥ ८ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

GO TOP