मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
माधुर्यखण्डः - एकोनविंशोऽध्यायः
यमुनासहस्रनामम् -
मान्धातोवाच -
नाम्नां सहस्रं कृष्णायाः सर्वसिद्धिकरं परम् ।
वद मां मुनिशार्दूल त्वं सर्वज्ञो निरामयः ॥ १ ॥
सौभरिरुवाच -
नाम्ना सहस्रं कालिन्द्या मान्धातस्ते वदाम्यहम् ।
सर्वसिद्धिकरं दिव्यं श्रीकृष्णवशकारकम् ॥ २ ॥
ॐअस्य श्रीकालिन्दीसहस्रनामस्तोत्रमन्त्रस्य
सौभरिऋषिः श्रीयमुना देवताः अनुष्टुप् छन्दः
मायाबीजमिति कीलकम् रमाबीजमिति शक्तिः
श्रीकलिन्दनन्दिनी प्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानम् ।
श्यामामम्भोजनेत्रां सघनघनरुचिं
रत्नमञ्जीरकूजत्
काञ्जीकेयुरयुक्तां कनकमणीमये
बिभ्रतीं कुण्डले द्वे ।
भ्राजच्छ्रीनीलवस्त्र स्फुरदमलचल-
द्धारभारां मनोज्ञां
ध्यायेन्मार्तण्डपुत्रीं तनुकिरणचयो-
द्दीप्तपाभिरामाम् ॥ ३ ॥
इति ध्यानम् ।
ॐकालिन्दी यमुना कृष्णा कृष्णरूपा सनातनी ।
कृष्णवामांससम्भूता परमानदरुपिणी ॥ ४ ॥
गोलोकवासिनी श्यामा वृन्दावनविनोदिनी ।
राधासखी रासलीला रासमण्डलमण्डनी ॥ ५ ॥
निकुञ्जमाधवीवल्ली रङ्गवल्ली मनोहरा ।
श्रीरासमण्डलीभूता यूथीभूता हरिप्रिया ॥ ६ ॥
गोलोकतटिनी दिव्या निकुञ्जतलवासिनी ।
दीर्घोर्मिवेग गम्भीरा पुष्पपल्लववाहिनी ॥ ७ ॥
घनश्यामा मेघमाला बलाका पद्ममालिनी ।
परिपूर्णतमा पूर्णा पूर्णब्रह्मप्रिया परा ॥ ८ ॥
महावेगवती साक्षान्निकुञ्जद्वारनिर्गता ।
महानदी मन्दगतिर्विरजा वेगभेदनी ॥ ९ ॥
अनेकब्रह्माण्डगता ब्रह्मद्रवसमाकुला ।
गङ्गामिश्रा निर्जलाभा निर्मला सरितां वरा ॥ १० ॥
रत्नबद्धोभयतटी हंसपद्मादिसङ्कुला ।
नदी निर्मलपानीया सर्वब्रह्माण्डपावनी ॥ ११ ॥
वैकुण्ठपरिखीभूता परिखा पापहारिणी ।
ब्रह्मलोकगता ब्राह्मी स्वर्गा स्वर्गनिवासिनी ॥ १२ ॥
उल्लसन्ती प्रोत्पतन्ती मेरुमाला महोज्ज्वला ।
श्रीगङ्गाम्भःशिखरिणी गण्डशैलविभेदिनी ॥ १३ ॥
देशान्पुनन्ती गच्छन्ती वहन्ती भूमिमध्यगा ।
मार्तण्डतनुजा पुण्या कलिन्दगिरिनन्दिनी ॥ १४ ॥
यमस्वसा मन्दहासा सुद्विजा रचिताम्बरा ।
नीलाम्बरा पद्ममुखी चरन्ती चारुदर्शना ॥ १५ ॥
रम्भोरूः पद्मनयना माधवी प्रमदोत्तमा ।
तपश्चरन्ती सुश्रोणी कूजन्नूपुरमेखला ॥ १६ ॥
जलस्थिता श्यामलाङ्गी खाण्डवाभा विहारिणी ।
गाण्डीविभाषिणी वन्या श्रीकृष्णं वरमिच्छती ॥ १७ ॥
द्वारकागमना राज्ञी पट्टराज्ञी परङ्गता ।
महाराज्ञी रत्नभूषा गोमतीतीरचारिणी ॥ १८ ॥
स्वकीया च सुखा स्वार्था स्वभक्तकार्यसाधिनी ।
नवलाङ्गाबला मुग्धा वराङ्गा वामलोचना ॥ १९ ॥
अज्ञातयौवना दीना प्रभाकान्तिर्द्युतिश्छविः ।
सुशोभा परमा कीर्तिः कुशलाऽज्ञातयौवना ॥ २० ॥
नवोढा मध्यगा मध्या प्रौढिः प्रौढा प्रगल्भका ।
धीराऽधीरा धैर्यधरा जेष्ठा श्रेष्ठा कुलाङ्गना ॥ २१ ॥
क्षणप्रभा चञ्चलार्चा विद्युत्सौदामिनी तडित् ।
स्वाधीनपतिका लक्ष्मीः पुष्टा स्वाधीनभर्तृका ॥ २२ ॥
कलहान्तरिता भीरुरिच्छाप्रोत्कण्ठिताकुला ।
कशिपुस्था दिव्यशय्या गोविन्दहृतमानसा ॥ २३ ॥
खण्डिताखण्डशोभाढ्या विप्रलब्धाभिसारिका ।
विरहार्ता विरहिणी नारी प्रोषितभर्तृका ॥ २४ ॥
मानिनी मानदा प्राज्ञा मन्दारवनवासिनी ।
झङ्कारिणी झणत्कारी रणन्मञ्जीरनूपुरा ॥ २५ ॥
मेखलाऽमेखला काञ्ची काञ्चीनी काञ्चनामयी ।
कञ्चुकी कञ्चुकमणिः श्रीकण्ठाढ्या महामणिः ॥ २६ ॥
श्रीहारिणी पद्महारा मुक्ता मुक्तफलार्चिता ।
रत्नकङ्कणकेयूरा स्फुरदङ्गुलिभूषणा ॥ २७ ॥
दर्पणा दर्पणीभूता दुष्टदर्पविनाशिनी ।
कम्बुग्रीवा कम्बुधरा ग्रैवेयकविराजिता ॥ २८ ॥
ताटङ्किनी दन्तधरा हेमकुण्डलमण्डिता ।
शिखाभूषा भालपुष्पा नासामौक्तिकशोभिता ॥ २९ ॥
मणिभूमिगता देवी रैवताद्रिविहारिणी ।
वृन्दावनगता वृन्दा वृन्दारण्यनिवासिनी ॥ ३० ॥
वृन्दावनलता माध्वी वृन्दारण्यविभूषणा ।
सौन्दर्यलहरी लक्ष्मीर्मथुरातीर्थवासिनी ॥ ३१ ॥
विश्रान्तवासिनी काम्या रम्या गोकुलवासिनी ।
रमणस्थलशोभाढ्या महावनमहानदी ॥ ३२ ॥
प्रणता प्रोन्नता पुष्टा भारती भरतार्चिता ।
तीर्थराजगतिर्गोत्रा गङ्गासागरसङ्गमा ॥ ३३ ॥
सप्ताब्धिभेदिनी लोला सप्तद्वीपगता बलात् ।
लुठन्ती शैलान् भिद्यन्ती स्फुरन्ती वेगवत्तरा ॥ ३४ ॥
काञ्चनी कञ्चनीभूमिः काञ्चनीभूमिभाविता ।
लोकदृष्टिर्लोकलीला लोकालोकाचलार्चिता ॥ ३५ ॥
शैलोद्गता स्वर्गगता स्वर्गर्चा स्वर्गपूजिता ।
वृन्दावनी वनाध्यक्षा रक्षा कक्षा तटीपटी ॥ ३६ ॥
असिकुण्डगता कच्छा स्वच्छन्दोच्छलितादिजा ।
कुहरस्था रथप्रस्था प्रस्था शान्ततराऽऽतुरा ॥ ३७ ॥
अम्बुच्छटा शीकराभा दर्दुरा दार्दुरीधरा ।
पापाङ्कुशा पापसिंही पापद्रुमकुठारिणी ॥ ३८ ॥
पुण्यसङ्घा पुण्यकीर्तिः पुण्यदा पुण्यवर्द्धिनी ।
मधोर्वननदी मुख्या अतुला तालवनस्थिता ॥ ३९ ॥
कुमुद्वननदी कुब्जा कुमुदाम्भोजवर्द्धिनी ।
प्लवरूपा वेगवती सिंहसर्पादिवाहिनी ॥ ४० ॥
बहुली बहुदा बह्वी बहुला वनवन्दिता ।
राधाकुण्डकलाराध्या कृष्णकुण्डजलाश्रिता ॥ ४१ ॥
ललिताकुण्डगा घण्टा विशाखाकुण्डमण्डिता ।
गोविन्दकुण्डनिलया गोपकुण्डतरङ्गिणी ॥ ४२ ॥
श्रीगङ्गा मानसी गङ्गा कुसुमाम्बरभाविनी ।
गोवर्धिनी गोधनाढ्या मयूरी वरवर्णिनी ॥ ४३ ॥
सारसी नीलकण्ठाभा कूजत्कोकिलपोतकी ।
गिरिराजप्रसूर्भूरिरातपत्राऽऽतपत्रिणी ॥ ४४ ॥
गोवर्धनाङ्का गोदन्ती दिव्यौषधिनिधिः सृतिः ।
पारदी पारदमयी नारदी शारदी भृतिः ॥ ४५ ॥
श्रीकृष्णचरणाङ्कस्था कामा कामवनाञ्चिता ।
कामाटवी नन्दिनी च नन्दग्राममहीधरा ॥ ४६ ॥
बृहत्सानुद्युतिः प्रोता नन्दीश्वरसमन्विता ।
काकली कोकिलमयी भाण्डीरकुशकौशला ॥ ४७ ॥
लोहार्गलप्रदा कारा काश्मीरवसनावृता ।
बर्हिषदी शोणपुरी शूरक्षेत्रपुराधिका ॥ ४८ ॥
नानाऽऽभरणशोभाढ्या नानावर्णसमन्विता ।
नानानारीकन्दबाढ्या रङ्गा रङ्गमहीरुहा ॥ ४९ ॥
नानालोकगताभ्यर्चिः नानाजलसमन्विता ।
स्त्रीरत्नं रत्ननिलया ललनारत्नरञ्जिनी ॥ ५० ॥
रङ्गिणी रङ्गभूमाढ्या रङ्गा रङ्गमहीरुहा ।
राजविद्या राजगुह्या जगत्कीर्तिर्घनाऽघना ॥ ५१ ॥
विलोलघण्टा कृष्णाङ्गा कृष्णदेहसमुद्भवा ।
नीलपङ्कजवर्णाभा नीलपङ्कजहारिणी ॥ ५२ ॥
निलाभा नीलपद्माढ्या नीलाम्भोरुहवासिनी ।
नागवल्ली नागपुरी नागवल्लीदलार्चिता ॥ ५३ ॥
ताम्बूलचर्चिता चर्चा मकरन्दमनोहरा ।
सकेसरा केसरिणी केशपाशाभिशोभिता ॥ ५४ ॥
कज्जलाभा कज्जलाक्ता कज्जली कलिताञ्जना ।
अलक्तचरणा ताम्रा लाला ताम्रीकृताम्बरा ॥ ५५ ॥
सिन्दूरिताऽलिप्तवाणी सुश्रीः श्रीखण्डमण्डिता ।
पाटीरपङ्कवसना जटामांसीरुचाम्बरा ॥ ५६ ॥
आगर्य्यगुरुगन्धाक्ता तगराश्रितमारुता ।
सुगन्धितैलरुचिरा कुन्तलालिः सकुन्तला ॥ ५७ ॥
शकुन्तलाऽपांसुला च पातिव्रत्यपरायणा ।
सूर्यप्रभा सूर्यकन्या सूर्यदेहसमुद्भवा ॥ ५८ ॥
कोटिसूर्यप्रतीकाशा सूर्यजा सूर्यनन्दिनी ।
सञ्ज्ञा सञ्ज्ञासुता स्वेच्छा सञ्ज्ञामोदप्रदायिनी ॥ ५९ ॥
सञ्ज्ञापुत्री स्फुरच्छाया तपती तापकारिणी ।
सावर्ण्यानुभवा वेदी वडवा सौख्यदायिनी ॥ ६० ॥
शनैश्चरानुजा कीला चन्द्रवंशविवर्द्धिनी ।
चन्द्रवंशवधूश्चद्रा चन्द्रावलिसहायिनी ॥ ६१ ॥
चन्द्रावती चन्द्रलेखा चन्द्रकान्तानुगांशुका ।
भैरवी पिङ्गलाशङ्की लीलावत्यागरीमयी ॥ ६२ ॥
धनश्रीर्देवगान्धारी स्वर्मणिर्गुणवर्द्धिनी ।
व्रजमल्ला बन्धकारी विचित्रा जयकारिणी ॥ ६३ ॥
गान्धारी मञ्जरी टोडी गुर्ज्जर्य्यासावरी जया ।
कर्णाटी रागिणी गौरी वैराटी गौरवाटिका ॥ ६४ ॥
चतुश्चन्द्रा कला हेरी तैलङ्गी विजयावती ।
ताली तलस्वरा गाना क्रियामात्रप्रकाशिनी ॥ ६५ ॥
वैशाखी चाचला चारुर्माचारी घूघटी घटा ।
वैहागरी सोरठीशा कैदारी जलधारिका ॥ ६६ ॥
कामाकरश्रीः कल्याणी गौडकल्याणमिश्रिता ।
राजसञ्जीविनी हेला मन्दारी कामरूपिणी ॥ ६७ ॥
सारङ्गी मारुती होढा सागरी कामवादिनी ।
वैभासी मङ्गला चान्द्री रासमण्डलमण्डना ॥ ६८ ॥
कामधेनुः कामलता कामदा कमनीयका ।
कल्पवृक्षस्थली स्थूला सुधासौधनिवासिनी ॥ ६९ ॥
गोलोकवासिनी सुभ्रूः यष्टिभृद्द्वारपालिका ।
शृङ्गारप्रकरा शृङ्गा स्वच्छा शय्योपकारिका ॥ ७० ॥
पार्षदा सुसखीसेव्या श्रीवृन्दावनपालिका ।
निकुञभृत्कुञ्जपुञ्जा गुञ्जाभरणभूषिता ॥ ७१ ॥
निकुञ्जवासिनी प्रोष्या गोवर्धनतटीभवा ।
विशाखा ललिता रामा नीरुजा मधुमाधवी ॥ ७२ ॥
एका नैकसखी शुक्ला सखीमध्या महामनाः ।
श्रुतिरूपा ऋषिरूपा मैथिलाः कौशलाः स्त्रियः ॥ ७३ ॥
अयोध्यापुरवासिन्यो यज्ञसीताः पुलिन्दकाः ।
रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ॥ ७४ ॥
ऊर्ध्ववैकुण्ठवासिन्यो द्विव्याऽजितपदाश्रिताः ।
श्रीलोकचलवासिन्यः श्रीसख्यः सागरोद्भवाः ॥ ७५ ॥
दिव्या अदिव्या दिव्याङ्गा व्याप्तास्त्रिगुणवृत्तयः ।
भूमिगोप्यो देवनार्यो लता ओषधिवीरूधः ॥ ७६ ॥
जालन्धर्य्यः सिन्धुसुताः पृथुबर्हिष्मतीभवाः ।
दिव्याम्बरा अप्सरसः सौतला नागकन्यकाः ॥ ७७ ॥
परं धाम परं ब्रह्म पौरुषा प्रकृतिः परा ।
तटस्था गुणभूर्गीता गुणागुणमयी गुणा ॥ ७८ ॥
चिद्घना सदसन्माला दृष्टिर्दृश्या गुणाकरी ।
महत्तत्वमहङ्कारो मनो बुद्धिः प्रचेतना ॥ ७९ ॥
चेतो वृत्तिः स्वान्तरात्मा चतुर्थी चतुरक्षरा ।
चतुर्व्यूहा चतुर्मूर्तिः व्योमवायुरदो जलम् ॥ ८० ॥
मही शब्दो रसो गन्धः स्पर्शो रूपमनेकधा ।
कर्मेन्द्रियं कर्ममयी ज्ञानं ज्ञानेन्द्रियं द्विधा ॥ ८१ ॥
त्रिधाधिभूतमध्यात्ममधिदैवमधिस्थितम् ।
ज्ञानशक्तिः क्रियाशक्तिः सर्वदेवाधिदेवता ॥ ८२ ॥
तत्वसङ्घा विराण्मूर्तिः धारणा धारणामयी ।
श्रुतिः स्मृतिर्वेदमूर्तिः संहिता गर्गसंहिता ॥ ८३ ॥
पाराशरी सैव सृष्टिः पारहंसी विधातृका ।
याज्ञवल्की भागवती श्रीमद्भागवतार्चिता ॥ ८४ ॥
रामायणमयी रम्या पुराणपुरुषप्रिया ।
पुराणमूर्तिः पुण्याङ्गा शास्त्रमूर्तिर्महोन्नता ॥ ८५ ॥
मनीषा धिषणा बुद्धिर्वाणी धीः शेमुषी मतिः ।
गायत्री वेदसावित्री ब्रह्माणी ब्रह्मलक्षणा ॥ ८६ ॥
दुर्गाऽपर्णा सती सत्या पार्वती चण्डिकाम्बिका ।
आर्या दाक्षायणी दाक्षी दक्षयज्ञविघातिनी ॥ ८७ ॥
पुलोजमा शचीन्द्राणी देवी देववरार्पिता ।
वायुना धारिणी धन्या वायवी वायुवेगगा ॥ ८८ ॥
यमानुजा संयमनी सञ्ज्ञा छाया स्फुरद्द्युतिः ।
रत्नदेवी रत्नवृन्दा तारा तरणिमण्डला ॥ ८९ ॥
रुचिः शान्तिः क्षमा शोभा दया दक्षा द्युतिस्त्रपा ।
तलतुष्टिर्विभा पुष्टिः सन्तुष्टिः पुष्टभावना ॥ ९० ॥
चतुर्भुजा चारुनेत्रा द्विभुजाऽष्टभुजाऽबला ।
शङ्खहस्ता पद्महस्ता चक्रहस्ता गदाधरा ॥ ९१ ॥
निषङ्गधारिणी चर्मखड्गपाणिर्धनुर्द्धरा ।
धनुष्टङ्कारणी योध्री दैत्योद्भटविनाशिनी ॥ ९२ ॥
रथस्था गरुडारूढा श्रीकृष्णहृदयस्थिता ।
वंशीधरा कृष्णवेषा स्रग्विणी वनमालिनी ॥ ९३ ॥
किरीटधारिणी याना मन्दमन्दगतिर्गतिः ।
चन्द्रकोटिप्रतीकाशा तन्वी कोमलविग्रहा ॥ ९४ ॥
भैष्मी भीष्मसुता भीमा रुक्मिणी रूक्मरूपिणी ।
सत्यभामा जाम्बवती सत्या भद्रा सुदक्षिणा ॥ ९५ ॥
मित्रविन्दा सखीवृन्दा वृन्दारण्यध्वजोर्ध्वगा ।
शृङ्गारकारिणी शृङ्गा शृङ्गभूः शृङ्गदा खगा ॥ ९६ ॥
तितिक्षेक्षा स्मृतिःस्पर्धा स्पृहा श्रद्धा स्वनिर्वृतिः ।
ईशा तृष्णा भिदा प्रीतिः हिंसायाच्ञाक्लमा कृषिः ॥ ९७ ॥
आशा निद्रा योगनिद्रा योगिनी योगदाऽयुगा ।
निष्ठा प्रतिष्ठा शमितिः सत्वप्रकृतिरुत्तमा ॥ ९८ ॥
तमःप्रकृतिदुर्मर्षी रजःप्रकृतिरानतिः ।
क्रियाऽक्रिया कृतिर्ग्लानिः सात्विक्याध्यात्मिकी वृषा ॥ ९९ ॥
सेवाशिखामणिर्वृद्धिराहूतिः पिङ्गलोद्भवा ।
नागभाषा नागभूषा नागरी नगरी नगा ॥ १०० ॥
नौर्नौङ्का भवनौर्भाव्या भवसागरसेतुका ।
मनोमयी दारुमयी सैकती सिकतामयी ॥ १०१ ॥
लेख्या लेप्या मणिमयी प्रतिहेमविनिर्मिता ।
शैली शैलभवा शीला शीकराभा चलाऽचला ॥ १०२ ॥
अस्थिता सुस्थिता तूली वैदकी तान्त्रिकी विधिः ।
सन्ध्या सन्ध्याभ्रवसना वेदसन्धिः सुधामयी ॥ १०३ ॥
सायन्तनी शिखा वेध्या सूक्ष्मा जीवकलाकृतिः ।
आत्मभूता भाविताऽण्वी प्रह्वी कमलकर्णिका ॥ १०४ ॥
नीराजनी महाविद्या कन्दली कार्यसाधनी ।
पूजा प्रतिष्ठा विपुला पुनन्ती पारलौकिकी ॥ १०५ ॥
शुक्लशुक्तिर्मौक्तिकी च प्रतीतिः परमेश्वरी ।
विरजोष्णिग्विराड्वेणी वेणुका वेणुनादिनी ॥ १०६ ॥
आवर्तिनी वार्तिकदा वार्ता वृत्तिर्विमानगा ।
रासाढ्या रासिनी रासा रासमण्डलवर्तिनी ॥ १०७ ॥
गोपगोपीश्वरी गोपी गोपीगोपालवन्दिता ।
गोचारिणी गोपनदी गोपानन्दप्रदायिनी ॥ १०८ ॥
पशव्यदा गोपसेव्या कोटिशो गोगणावृता ।
गोपानुगा गोपवती गोविन्दपदपादुका ॥ १०९ ॥
वृषभानुसुता राधा श्रीकृष्णवशकारिणी ।
कृष्णप्राणाधिका शश्वद्रसिका रसिकेश्वरी ॥ ११० ॥
अवटोदा ताम्रपर्णी कृतमाला विहायसी ।
कृष्णा वेणी भीमरथी तापी रेवा महापगा ॥ १११ ॥
वैयासकी च कावेरी तुङ्गभद्रा सरस्वती ।
चन्द्रभागा वेत्रवती ऋषिकुल्या ककुद्मिनी ॥ ११२ ॥
गौतमी कौशिकी सिन्धुः बाणगङ्गाऽतिसिद्धिदा ।
गोदावरी रत्नमाला गङ्गा मन्दाकिनी बला ॥ ११३ ॥
स्वर्णदी जाह्नवी वेला वैष्णवी मङ्गलालया ।
बाला विष्णुपदी प्रोक्ता सिन्धुसागरसङ्गता ॥ ११४ ॥
गङ्गासागरशोभाढ्या सामुद्री रत्नदा धुनी ।
भागीरथी स्वर्धुनी भूः श्रीवामनपदच्युता ॥ ११५ ॥
लक्ष्मी रमा रमणीया भार्गवी विष्णुवल्लभा ।
सीताऽर्चिर्जानकी माता कलङ्करहिता कला ॥ ११६ ॥
कृष्णपादाब्जसम्भूता सर्वा त्रिपथगामिनी ।
धरा विश्वम्भराऽनन्ता भूमिर्धात्री क्षमामयी ॥ ११७ ॥
स्थिरा धरित्री धरणी उर्वी शेषफणस्थिता ।
अयोध्या राघवपुरी कौशिकी रघुवंशजा ॥ ११८ ॥
मथुरा माथुरी पन्था यादवी ध्रुवपूजिता ।
मयायुर्बिल्वनीलोदा गङ्गाद्वारविनिर्गता ॥ ११९ ॥
कुशावर्तमयी ध्रौव्या ध्रुवमण्डलमध्यगा ।
काशी शिवपुरी शेषा विन्ध्या वाराणसी शिवा ॥ १२० ॥
अवन्तिका देवपुरी प्रोज्ज्वलोज्जयिनी जिता ।
द्वारावती द्वारकामा कुशभूता कुशस्थली ॥ १२१ ॥
महापुरी सप्तपुरी नन्दिग्रामस्थलस्थिता ।
शालग्रामशिलादित्या शम्भलग्राममध्यगा ॥ १२२ ॥
वंशगोपालिनी क्षिप्ता हरिमन्दिरवर्तिनी ।
बर्हिष्मती हस्तिपुरी शक्रप्रस्थनिवासिनी ॥ १२३ ॥
दाडिमी सैन्धवी जम्बूः पौष्करी पुष्करप्रसूः ।
उत्पलावर्तगमना नैमिषी नैमिषावृता ॥ १२४ ॥
कुरुजाङ्गलभूः काली हैमवत्यर्बुदी बुधा ।
शूकरक्षेत्रविदिता श्वेतवाराहधारिता ॥ १२५ ॥
सर्वतीर्थमयी तीर्था तीर्थानां तीर्थकारिणी ।
हारिणी सर्वदोषाणां दायिनी सर्वसम्पदाम् ॥ १२६ ॥
वर्द्धिनी तेजसां साक्षाद्गर्भवासनिकृन्तनी ।
गोलोकधामधनिनी निकुञ्जनिजमञ्जरी ॥ १२७ ॥
सर्वोत्तमा सर्वपुण्या सर्वसौन्दर्यशृङ्खला ।
सर्वतीर्थोपरिगता सर्वतीर्थाधिदेवता ॥ १२८ ॥
श्रीदा श्रीशा श्रीनिवासा श्रीनिधिः श्रीविभावना ।
स्वक्षा स्वङ्गा शतानन्दा नन्दा ज्योतिर्गणेश्वरी ॥ १२९ ॥
नाम्नां सहस्रं कालिन्द्याः कीर्तिदं कामदं परम् ।
महापापहरं पुण्यं आयुर्वर्द्धनमुत्तमम् ॥ १३० ॥
एकवारं पठेद्रात्रौ चौरेभ्यो न भयं भवेत् ।
द्विवारं प्रपठेन्मार्गे दस्युभ्यो न भयं क्वचित् ॥ १३१ ॥
द्वितीयां तु समारभ्य पठेत्पूर्णावधिं द्विजः ।
दशवारमिदं भक्त्या ध्यात्वा देवीं कलिन्दजाम् ॥ १३२ ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ।
गुर्विणी जनयेत्पुत्रं विद्यार्थी पण्डितो भवेत् ॥ १३३ ॥
मोहनं स्तम्भनं शश्वद्वशीकरणमेव च ।
उच्चाटनं घातनं च शोषणं दीपनं तथा ॥ १३४ ॥
उन्मादनं तापनं च निधिदर्शनमेव च ।
यद्यद्वाञ्च्छति चित्तेन तत्तत्प्राप्नोति मानवः ॥ १३५ ॥
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः ।
वैश्यो निधिपतिर्भूयाच्छूद्रः श्रुत्वा तु निर्मलः ॥ १३६ ॥
पूजाकाले तु यो नित्यं पठते भक्तिभावतः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १३७ ॥
शतवारं पठेन्नित्यं वर्षावधिमतः परम् ।
पटलं पद्धतिं कृत्वा स्तवं च कवचं तथा ॥ १३८ ॥
सप्तद्वीपमहीराज्यं प्राप्नुयान्नात्र संशयः ॥ १३९ ॥
निष्कारणं पठेद्यस्तु यमुनाभक्तिसंयुतः ।
त्रैवर्ग्यमेत्य सुकृती जीवन्मुक्तो भवेदिह ॥ १४० ॥
निकुञ्जलीलाललितं मनोहरं
कलिन्दजाकूललताकदम्बकम् ।
वृन्दावनोन्मत्तमिलिन्दशब्दितं
व्रजेत्स गोलोकमिदं पठेच्च यः ॥ १४१ ॥
इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमान्धातृसंवादे श्रीयमुनासहस्रनामकथनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP