मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
गोलोकखण्डम् - अष्टदशोऽध्यायः
ब्रह्माण्डदर्शनम् -
श्रीनारद उवाच -
गोपीगृहेषु विचरन् नवनीचौरः
श्यामो मनोहरवपुर्नवकञ्जनेत्रः ।
श्रीबालचन्द्र इव वृद्धिगतो नराणां
चित्तं हरन्निव चकार व्रजे च शोभाम् ॥ १ ॥
श्रीनन्दनन्दनमतीव चलं गृहीत्वा
गेहं निधाय मुमुहुर्नवनन्दगोपाः ।
सत्कन्दुकैश्च सततं परिपालयन्ते
गायन्त ऊर्जितसुखा न जगत्स्मरन्तः ॥ २ ॥
राजोवाच -
नवोपनन्दनामानि वद देवऋषे मम ।
अहोभाग्यं तु येषां वै ते पूर्वं क इहागताः ॥ ३ ॥
तथा षड्वृषभानूनां कर्माणि मङ्गलानि च ।
श्रीनारद उवाच -
गयश्च विमलः श्रीशः श्रीधरो मङ्गलायनः ॥ ४ ॥
मङ्गलो रङ्गवल्लीशो रङ्गोजिर्देवनायकः ।
नवनन्दाश्च कथिता बभूवुर्गोकुले व्रजे ॥ ५ ॥
वीतिहोत्रोऽग्निभुक् साम्बः श्रीकरो गोपतिः श्रुतः ।
व्रजेशः पावनः शान्त उपनन्दाः प्रकीर्तिताः ॥ ६ ॥
नीतिविन्मार्गदः शुक्लः पतङ्गो दिव्यवाहनः ।
गोपेष्टश्च व्रजे राजञ्जाताः षड्वृषभानवः ॥ ७ ॥
गोलोके कृष्णचन्द्रस्य निकुञ्जद्वारमाश्रिताः ।
वेत्रहस्ताः श्यामलाङ्गा नवनन्दाश्च ते स्मृताः ॥ ८ ॥
निकुञ्जे कोटिशो गावस्तासां पालनतत्पराः ।
वंशीमयूरपक्षाढ्या उपनन्दाश्च ते स्मृताः ॥ ९ ॥
निकुञ्जदुर्गरक्षायां दण्डपाशधराः स्थिताः ।
षड्द्वारमास्थिताः षड् वै कथिता वृषभानवः ॥ १० ॥
श्रीकृष्णस्येच्छया सर्वे गोलोकादागता भुवि ।
तेषां प्रभावं वक्तुं हि न समर्थश्चतुर्मुखः ॥ ११ ॥
अहं किमु वदिष्यामि तेषां भाग्यं महोदयम् ।
येषामारोहमास्थाय बालकेलिर्बभौ हरिः ॥ १२ ॥
एकदा यमुनातीरे मृत्कृष्णेनावलीढिता ।
यशोदां बालकाः प्राहुरत्ति बालो मृदं तव ॥ १३ ॥
बलभद्रे च वदति तदा सा नन्दगेहिनी ।
करे गृहीत्वा स्वसुतं भीरुनेत्रमुवाच ह ॥ १४ ॥
श्रीयशोदा उवाच -
कस्मान्मृदं भक्षितवान् महाज्ञ
भवान्वयस्याश्च वदन्ति साक्षात् ।
ज्यायान्बलोऽयं वदति प्रसिद्धं
मा एवमर्थं न जहाति नेष्टम् ॥ १५ ॥
श्रीभगवानुवाच -
सर्वे मृषावादरथा व्रजार्भका
मातर्मया क्वापि न मृत्प्रभक्षिता ।
यदा समीचीनमनेन वाक्पथं
तदा मुखं पश्य मदीयमञ्जसा ॥ १६ ॥
श्रीनारद उवाच -
अथ गोपी बालकस्य पश्यन्ती सुन्दरं मुखम् ।
प्रसारितं च ददृशे ब्रह्माण्डं रचितं गुणैः ॥ १७ ॥
सप्तद्वीपान्सप्त सिन्धून्सखण्डान्सगिरीन्दृढान् ।
आब्रह्मलोकाँल्लोकाँस्त्रीन्स्वात्मभिः सव्रजैः सह ॥ १८ ॥
दृष्ट्वा निमीलिताक्षी सा भूत्वा श्रीयमुनातटे ।
बालोऽयं मे हरिः साक्षादिति ज्ञानमयी ह्यभूत् ॥ १९ ॥
तदा जहास श्रीकृष्णो मोहयन्निव मायया ।
यशोदा वैभवं दृष्टं न सस्मार गतस्मृतिः ॥ २० ॥
इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
ब्रह्माण्डदर्शनं नाम अष्टादशोऽध्यायः ॥ १८ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP