मागचा अध्याय
पुढचा अध्याय
श्रीगर्गसंहिता
गोलोकखण्डम् - षोडशोऽध्यायः
श्रीकृष्ण-राधिका विवाहवर्णनम् -
श्रीनारद उवाच -
गाश्चारयन् नन्दनमङ्कदेशे
संलालयन् दूरतमं सकाशात् ।
कलिन्दजातीरसमीरकम्पितं
नन्दोऽपि भाण्डीरवनं जगाम ॥ १ ॥
कृष्णेच्छया वेगतरोऽथ वातो
घनैरभून्मेदुरमम्बरं च ।
तमालनीपद्रुमपल्लवैश्च
पतद्भिरेजद्भिरतीव भाः कौ ॥ २ ॥
तदान्धकारे महति प्रजाते
बाले रुदत्यङ्कगतेऽतिभीते ।
नन्दो भयं प्राप शिशुं स बिभ्र-
द्धरिं परेशं शरणं जगाम ॥ ३ ॥
तदैव कोट्यर्कसमूहदीप्ति-
रागच्छतीवाचलती दिशासु ।
बभूव तस्यां वृषभानुपुत्रीं
ददर्श राधां नवनन्दराजः ॥ ४ ॥
कोटीन्दुबिम्बद्युतिमादधानां
नीलाम्बरां सुन्दरमादिवर्णाम् ।
मञ्जीरधीरध्वनिनूपुराणा-
माबिभ्रतीं शब्दमतीव मञ्जुम् ॥ ५ ॥
काञ्चीकलाकङ्कणशब्दमिश्रां
हाराङ्गुलीयाङ्गदविस्फुरन्तीम् ।
श्रीनासिकामौक्तिकहंसिकीभिः
श्रीकण्ठचूडामणिकुण्डलाढ्याम् ॥ ६ ॥
तत्तेजसा धर्षित आशु नन्दो
नत्वाथ तामाह कृताञ्जलिः सन् ।
अयं तु साक्षात्पुरुषोत्तमस्त्वं
प्रियास्य मुख्यासि सदैव राधे ॥ ७ ॥
गुप्तं त्विदं गर्गमुखेन वेद्मि
गृहाण राधे निजनाथमङ्कात् ।
एनं गृहं प्रापय मेघभीतं
वदामि चेत्थं प्रकृतेर्गुणाढ्यम् ॥ ८ ॥
नमामि तुभ्यं भुवि रक्ष मां त्वं
यथेप्सितं सर्वजनैर्दुरापम् ।
श्रीराधोवाव -
अहं प्रसन्ना तव भक्तिभवा-
न्मद्दर्शनं दुर्लभमेव नन्द ॥ ९ ॥
श्रीनन्द उवाच -
यदि प्रसन्नासि तदा भवेन्मे
भक्तिर्दृढा कौ युवयोः पदाब्जे ।
सतां च भक्तिस्तव भक्तिभाजां
सङ्गः सदा मेऽथ युगे युगे च ॥ १० ॥
श्रीनारद उवाच -
तथास्तु चोक्त्वाथ हरिं कराभ्यां
जग्राह राधा निजनाथमङ्कात् ।
गतेऽथ नन्दे प्रणते व्रजेशे
तदा हि भाण्डीरवनं जगाम ॥ ११ ॥
गोलोकलोकाच्च पुरा समागता
भूमिर्निजं स्वं वपुरादधाना ।
या पद्मरागादिखचित्सुवर्णा
बभूव सा तत्क्षणमेव सर्वा ॥ १२ ॥
वृन्दावनं दिव्यवपुर्दधानं
वृक्षैर्वरैः कामदुघैः सहैव ।
कलिन्दपुत्री च सुवर्णसौधैः
श्रीरत्नसोपानमयी बभूव ॥ १३ ॥
गोवर्धनो रत्नशिलामयोऽभू-
त्सुवर्णशृङ्गैः परितः स्फुरद्भिः ।
मत्तालिभिर्निर्झरसुन्दरीभि-
र्दरीभिरुच्चाङ्गकरीव राजन् ॥ १४ ॥
तदा निकुञ्जोऽपि निजं वपुर्दध-
त्सभायुतं प्राङ्गणदिव्यमण्डपम् ।
वसन्तमाधुर्यधरं मधुव्रतै-
र्मयूरपारावतकोकिलध्वनिम् ॥ १५ ॥
सुवर्णरत्नादिखचित्पटैर्वृतं
पतत्पताकावलिभिर्विराजितम् ।
सरः स्फुरद्भिर्भ्रमरावलीढितै-
र्विचर्चितं काञ्चनचारुपङ्कजैः ॥ १६ ॥
तदैव साक्षात्पुरुषोत्तमोत्तमो
बभूव कैशोरवपुर्घनप्रभः ।
पीताम्बरः कौस्तुभरत्नभूषणो
वंशीधरो मन्मथराशिमोहनः ॥ १७ ॥
भुजेन सङ्गृह्य हसन्प्रियां हरि-
र्जगाम मध्ये सुविवाहमण्डपम् ।
विवाहसम्भारयुतः समेखलं
सदर्भमृद्वारिघटादिमण्डितम् ॥ १८ ॥
तत्रैव सिंहासन उद्गते वरे
परस्परं सम्मिलितौ विरेजतुः ।
परं ब्रुवन्तौ मधुरं च दम्पती
स्फुरत्प्रभौ खे च तडिद्घनाविव ॥ १९ ॥
तदाम्बराद्देववरो विधिः प्रभुः
समागतस्तस्य परस्य सम्मुखे ।
नत्वा तदङ्घ्री ह्युशती गिराभिः
कृताञ्जलिश्चारु चतुर्मुखो जगौ ॥ २० ॥
श्रीब्रह्मोवाच -
अनादिमाद्यं पुरुषोत्तमोत्तमं
श्रीकृष्णचन्द्रं निजभक्तवत्सलम् ।
स्वयं त्वसङ्ख्याण्डपतिं परात्परं
राधापतिं त्वां शरणं व्रजाम्यहम् ॥ २१ ॥
गोलोकनाथस्त्वमतीव लीलो
लीलावतीयं निजलोकलीला ।
वैकुण्ठनाथोऽसि यदा त्वमेव
लक्ष्मीस्तदेयं वृषभानुजा हि ॥ २२ ॥
त्वं रामचन्द्रो जनकात्मजेयं
भूमौ हरिस्त्वं कमलालयेयम् ।
यज्ञावतारोऽसि यदा तदेयं
श्रीदक्षिणा स्त्री प्रतिपत्निमुख्या ॥ २३ ॥
त्वं नारसिंहोऽसि रमा तदेयं
नारायणस्त्वं च नरेण युक्तः ।
तदा त्वियं शान्तिरतीव साक्षा-
च्छायेव याता च तवानुरूपा ॥ २४ ॥
त्वं ब्रह्म चेयं प्रकृतिस्तटस्था
कालो यदेमां च विदुः प्रधानाम् ।
महान्यदा त्वं जगदङ्कुरोऽसि
राधा तदेयं सगुणा च माया ॥ २५ ॥
यदान्तरात्मा विदितश्चतुर्भि-
स्तदा त्वियं लक्षणरूपवृत्तिः ।
यदा विराड्देहधरस्त्वमेव
तदाखिलं वा भुवि धारणेयम् ॥ २६ ॥
श्यामं च गौरं विदितं द्विधा मह-
स्तवैव साक्षात्पुरुषोत्तमोत्तम ।
गोलोकधामाधिपतिं परेशं
परात्परं त्वां शरणं व्रजाम्यहम् ॥ २७ ॥
सदा पठेद्यो युगलस्तवं परं
गोलोकधामप्रवरं प्रयाति सः ।
इहैव सौन्दर्यसमृद्धिसिद्धयो
भवन्ति तस्यापि निसर्गतः पुनः ॥ २८ ॥
यदा युवां प्रीतियुतौ च दम्पती
परात्परौ तावनुरूपरूपितौ ।
तथापि लोकव्यवहारसङ्ग्रहा-
द्विधिं विवाहस्य तु कारयाम्यहम् ॥ २९ ॥
श्रीनारद उवाच -
तदा स उत्थाय विधिर्हुताशनं
प्रज्वाल्य कुण्डे स्थितयोस्तयोः पुरः ।
श्रुतेः करग्राहविधिं विधानतो
विधाय धाता समवस्थितोऽभवत् ॥ ३० ॥
स वाहयामास हरिं च राधिकां
प्रदक्षिणं सप्तहिरण्यरेतसः ।
ततश्च तौ तं प्रणमय्य वेदवि-
त्तौ पाठयामास च सप्तमन्त्रकम् ॥ ३१ ॥
ततो हरेर्वक्षसि राधिकायाः
करं च संस्थाप्य हरेः करं पुनः ।
श्रीराधिकायाः किल पृष्ठदेशके
संस्थाप्य मन्त्रांश्च विधिः प्रपाठयन् ॥ ३२ ॥
राधा कराभ्यां प्रददौ च मालिकां
किञ्जल्किनीं कृष्णगलेऽलिनादिनीम् ।
हरेः कराभ्यां वृषभानुजा गले ।
ततश्च वह्निं प्रणमय्य वेदवित् ॥ ३३ ॥
संवासयामास सुपीठयोश्च तौ
कृताञ्जली मौनयुतौ पितामहः ।
तौ पाठयामास तु पञ्चमन्त्रकं
समर्प्य राधां च पितेव कन्यकाम् ॥ ३४ ॥
पुष्पाणि देवा ववृषुस्तदा नृप
विद्याधरीभिर्ननृतुः सुराङ्गनाः ।
गन्धर्वविद्याधरचारणाः कलं
सकिन्नराः कृष्णसुमङ्गलं जगुः ॥ ३५ ॥
मृदङ्गवीणामुरुयष्टिवेणवः
शङ्खानका दुन्दुभयः सतालकाः ।
नेदुर्मुहुर्देववरैर्दिवि स्थितै-
र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥
उवाच तत्रैव विधिं हरिः स्वयं
यथेप्सितं त्वं वद विप्र दक्षिणाम् ।
तदा हरिं प्राह विधिः प्रभो मे
देहि त्वदङ्घ्र्योर्निजभक्तिदक्षिणाम् ॥ ३७ ॥
तथास्तु वाक्यं वदतो विधिर्हरेः
श्रीराधिकायाश्च पदद्वयं शुभम् ।
नत्वा कराभ्यां शिरसा पुनः पुन-
र्जगाम गेहं प्रणतः प्रहर्षितः ॥ ३८ ॥
ततो निकुञ्जेषु चतुर्विधान्नं
दिव्यं मनोज्ञं प्रियया प्रदत्तम् ।
जघास कृष्णः प्रहसन्परात्मा
कृष्णेन दत्तं क्रमुकं च राधा ॥ ३९ ॥
ततः करेणापि करं प्रियाया
हरिर्गृहीत्वा प्रचचाल कुञ्जे ।
जगाम जल्पन्मधुरं प्रपश्यन्
वृन्दावनं श्रीयमुनां लताश्च ॥ ४० ॥
श्रीमल्लताकुञ्जनिकुञ्जमध्ये
निलीयमानं प्रहसन्तमेव ।
विलोक्य शाखान्तरितं च राधा
जग्राह पीताम्बरमाव्रजन्ती ॥ ४१ ॥
दुद्राव राधा हरिहस्तपद्मा
झङ्कारमङ्घ्र्योः प्रतिकुर्वती कौ ।
निलीयमाना यमुनानिकुञ्जे
पुनर्व्रजन्ती हरिहस्तमात्रात् ॥ ४२ ॥
यथा तमालः कलधौतवल्ल्या
घनो यथा चञ्चलया चकास्ति ।
नीलोऽद्रिराजो निकषाश्मखन्या
श्रीराधयाऽऽद्यस्तु तया रमण्या ॥ ४३ ॥
श्रीरासरङ्गे जनवर्जिते परे
रेमे हरी रासरसेन राधया ।
वृन्दावने भृङ्गमयूरकूज-
ल्लते चरत्येव रतीश्वरः परः ॥ ४४ ॥
श्रीराधया कृष्णहरिः परात्मा
ननर्त गोवर्द्धनकन्दरासु ।
मत्तालिषु प्रस्रवणैः सरोभि-
र्विराजितासु द्युतिमल्लतासु ॥ ४५ ॥
चकार कृष्णो यमुनां समेत्य
वरं विहारं वृषभानुपुत्र्या ।
राधाकराल्लक्षदलं सपद्मं
धावन्गृहीत्वा यमुनाजलेषु ॥ ४६ ॥
राधा हरेः पीतपटं च वंशीं
वेत्रं गृहीत्वा सहसा हसन्ती ।
देहीति वंशीं वदतो हरेश्च
जगाद राधा कमलं नु देहि ॥ ४७ ॥
तस्यै ददौ देववरोऽथ पद्मं
राधा ददौ पीततटं च वंशीम् ।
वेत्रं च तस्मै हरये तयोः पुन-
र्बभूव लीला यमुनातटेषु ॥ ४८ ॥
ततश्च भाण्डीरवने प्रियाया-
श्चकार शृङ्गारमलं मनोज्ञम् ।
पत्रावलीयावककज्जलाद्यैः
पुष्पैः सुरत्नैर्व्रजगोपरत्नः ॥ ४९ ॥
हरेश्च शृङ्गारमलं प्रकर्तुं
समुद्यता तत्र यदा हि राधा ।
तदैव कृष्णस्तु बभूव बालो
विहाय कैशोरवपुः स्वयं हि ॥ ५० ॥
नन्देन दत्तं शिशुमेव यादृशं
भूमौ लुठन्तं प्ररुदन्तमाययौ ।
हरिं विलोक्याशु रुरोद राधिका
तनोषि मायां नु कथं हरे मयि ॥ ५१ ॥
इत्थं रुदन्तीं सहसा विषण्णा-
माकाशवागाह तदैव राधाम् ।
शोचं नु राधे इह मा कुरु त्वं
मनोरथस्ते भविया हि पश्चात् ॥ ५२ ॥
श्रुत्वाथ राधा हि हरिं गृहीत्वा
गताऽऽशु गेहे व्रजराजपत्न्याः ।
दत्त्वा च बालं किल नन्दपत्न्या
उवाच दत्तः पथि ते च भर्त्रा ॥ ५३ ॥
उवाच राधां नृप नन्दगेहिनी
धन्याऽसि राधे वृषभानुकन्यके ।
त्वया शिशुर्मे परिरक्षितो भया-
न्मेघावृते व्योम्नि भयातुरो वने ॥ ५४ ॥
सम्पूजिता श्लाघितसद्गुणा सा
सुनन्दिता श्रीवृषभानुपुत्री ।
तदा ह्यनुज्ञाप्य यशोमतीं सा
शनैः स्वगेहं हि जगाम राधा ॥ ५५ ॥
इत्थं हरेर्गुप्तकथा च वर्णिता
राधाविवाहस्य सुमङ्गलावृता ।
श्रुत्वा च यैर्वा पठिता च पाठिता
तान्पापवृन्दा न कदा स्पृशन्ति ॥ ५६ ॥
इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे
श्रीराधिकाविवाहवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
GO TOP