१३२

अथ द्वात्रिंशदधिकशततमोऽध्यायः
शौनक उवाच
श्रुतं सर्वं नावशेषं धर्मेश व्रह्मणं च माम् ।
कथयस्व महाभाग पुराणं पुनरेव हि ॥ १ ॥

एवंविधं पुराणं च जन्मनैव न हि श्रुतम् ।
नधृष्टं न श्रुतं तात ता (त्वा) दृशं वाजकं तथा ॥ २ ॥

सूत उवाच
श्रूयतां भो महाभाग सावधानं च संयतम् ।
अध्यायश्रवणेनैव पुराणफलमालभेत् ॥ ३ ॥

ब्रह्मखण्डं च कथितं परं ब्रह्मनिरूपणम् ।
तदनिर्वचनीयं च येषामपि यथागमम् ॥ ४ ॥

साकारं च निराकारं सगुणं निर्गुणं पृथक् ।
येषामपि यथा शक्तिस्तथैव ध्यानमेव च ॥ ५ ॥

गोलोकादेर्वर्णनं च क्रमेण च पृथक्पृथक् ।
तत्रोपयुक्तोपाख्यानं यद्यत्प्रासङ्गिकं द्विज ॥ ६ ॥

जातीनां नीर्णयश्चैव सङ्कराणां तथैव च ।
यद्यद्विशिष्टोपाख्यानं तत्तत्प्रशनानुरोधतः ॥ ७ ॥

राधामाधवयोः क्रीडा महाविष्णोः समुद्भवः ।
निरूपणं च विश्वेषां समासेन द्विजोत्तम ॥ ८ ॥

ब्रह्मनारदयोश्चैव संवादः परमार्थतः ।
विपेको नारदस्यैव मुनीन्द्रस्य तथैव च ॥ ९ ॥

आज्ञया ब्रह्मणश्चैव नरनारायणाश्रमम् ।
गमनं नारदस्यैव तेन सार्थं च दर्शनम् ॥ १० ॥

तयोः सम्भाषणं चैव नारदाद्य(य) निवेदनम् ।
तत्र देव ब्रह्मखण्डं क्रमेणोक्तं द्विजोत्तम ॥ ११ ॥

श्रूयतां प्रकृतेः खण्डं सुधाखण्डसमं मुने ।
प्रकृतेर्लक्षणं प्रोक्तं प्रकृतीनां च वर्णनम् ॥ १२ ॥

उपाश्यानं च तासां च वर्णनं बूजनादिकम् ।
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिका तथा ॥ १३ ॥

एतासां चरितं चैवमन्यासां च पृथक्पृथक् ।
उपाख्यानं महालक्ष्म्याः सरस्वत्यास्तथैव च ॥ १४ ॥

अपूर्वं राधिकाख्यानं सावित्र्याश्च तथैव च ।
संवादो यमसावित्र्योः सत्यवज्जीवदानकम् ॥ १५ ॥

कृण्डानां वर्णनं प्रोक्तं तेषां च लक्षणं तथा ।
जीवितर्मविपाकश्च भोगनिर्णय एव च ॥ १६ ॥

अपूर्व राधिकाख्यानं पुराणेषु सुगोप्यकम् ।
सुयज्ञस्च नृपेन्द्रस्य चरितं परमाद्भुतम् ॥ १७ ॥

प्रोक्तं तुलस्युपाख्यानं पुराणेषु सुगोप्यकम् ।
महायुद्धं च संवादे महेशशङ्खचूडयोः ॥ १८ ॥

तुलसीकृष्णसंवादस्तयोः सम्भोग एव च ।
निधनं शङ्खचूडस्य श्रीदाम्नः शापमोक्षणम् ॥ १९ ॥

पदप्राप्तिः सुराणां च विपदां खण्डनं तथा ।
जीविनां मोक्षबीजं च गङ्गोपाख्यानमीप्सितम् ॥ २० ॥

तथैव मनसाख्यानं परं हर्षविवर्धनम् ।
स्वाहास्वधाख्यानमेवमन्यासां च निरूपणम् ॥ २१ ॥

यद्यतप्रासङ्गिकाख्यानं वक्तुः प्रश्नानुरोधतः ।
प्रोक्तं तत्प्रकृतेः खण्डं खण्डं गणपतेः श्रृणु ॥ २२ ॥

अतीव मधुरं रम्यं स्वादु स्वादु पदे पदे ।
सुगोप्यं तत्पुराणेषु रम्यं रम्यं नवं नवम् ॥ २३ ॥

सुदुर्लभमुपाख्यानं श्रोतृप्रीतिकरं परम् ।
प्रोक्ता क्रीडा च परमा पार्वतीपरमेशयोः ॥ २४ ॥

स्कन्दोत्पत्तिः प्रथमतः क्रीडाभङ्गस्तयोस्तथा ।
पार्वतीतोषणं चैवमभिमानविमोक्षणम् ॥ २५ ॥

पुण्यकं च व्रतं विष्णोर्देव्याश्चरितमुत्तमम् ।
वरदानं हरेरेव सुव्रतां पार्वतीं प्रति ॥ २६॥
हरेश्च दर्शनं चैव ब्राह्मणातिथिरूपिणः ।
आविर्भावो गणेशस्य कृपया शिवमन्दिरे ॥ २७ ॥

दर्शनं पुत्रवक्त्रस्य पार्वतीपरमेशयोः ।
परमानन्दरूपं च शिवगेहे महोत्सवम् ॥ २८ ॥

देवाद्या ददृशुः सर्वे बालं नित्यमजं विभुम् ।
सत्यस्वरूपं परमं परब्रह्मस्वरूपिणम् ॥ २९ ॥

सर्वविघ्नहरं शान्तं दातारं सर्वसम्पदाम् ।
तपसां जपयज्ञानां व्रतानां फलदं विभुम् ॥ ३० ॥

अतीव कमनीयं च रमणीयं च योषिताम् ।
प्राणाधिकं प्रियतम् पार्वतीपरमेशयोः ॥ ३१ ॥

परमात्मस्वरूपं च भगवन्तं सनातनम् ।
सर्वेशं सर्वबीजं च साक्षान्नारायणात्मकम् ॥ ३२ ॥

यद्दर्शनाच्च स्तवनात्प्रणामात्पूजनात्तथा ।
ध्यानासाध्यं दुराराध्यं जन्मकोट्यघनाशनम् ॥ ३३ ॥

कार्तिकोद्धरणं प्रोक्तं तस्याभिषेक एव च ।
गणेशपूजनं चैव सर्वविघ्नविनाशनम् ॥ ३४ ॥

जमदग्नेश्च युद्धं च कार्तवीर्यार्जुनेन च ।
सुरभीहरणं चैव निधनं च मुनेस्तथा ॥ ३५ ॥

पतिव्रतारेशुकायाश्चितारोहणमेव च ।
प्रतिज्ञातं भृगोश्चैव दारुणं च सुदारुणम् ॥ ३६ ॥

निःक्षत्रीकरणं चैवमेकविंशतिकं द्विज ।
संवादो ज्ञानलाभश्च गणेशपर्शुरामयोः ॥ ३७ ॥

तयोर्युद्धं दारुमं च हेरम्बदन्तभञ्जनम् ।
दुर्गायाश्च विलापश्चाभिशापो भार्गवं प्रति ॥ ३८ ॥

स्मरणे पर्शुरामस्याप्याविर्भावो हरेरपि ।
पार्वतीं बोधयामास स्वयं नारायणः प्रभुः ॥ ३९ ॥

वर्णनं शिवलोकस्य परमाश्चर्यमीप्सितम् ।
प्रदत्तं पर्शुरामाय महास्त्रं शङ्करेण च ॥ ४० ॥

मन्त्रं च कवचं चैव कृष्णस्य परमात्मनः ।
वरदानं चाभयं च प्रदानं सर्वसम्पदाम् ॥ ४१ ॥

त्रिःसप्तकृत्वो भूपानां निधनं च चकार सः ।
बभूव भृगुणा विप्र भुवश्च भारमीक्षणम् ॥ ४२ ॥

प्रश्नानुरोधक्रमतः पूर्वापाख्यानमेव च ।
प्रोक्तं गणपतेः खण्डं समासेन द्विजोत्तम ॥ ४३ ॥

श्रीकृष्णजन्मखण्डं च श्रूयतां सावधानतः ।
जन्ममृत्युजराव्याधिहरं मोक्षकरं परम् ॥ ४४ ॥

हरिदास्यप्रदं शुद्धं सुश्राव्यं च सुधोपमम् ।
अत्यबूर्वमुणाख्यानं रम्यं रम्यं नवं नवम् ॥ ४५ ॥

न श्रुतं चन्मना यद्यत्स्वदु स्वादु पदे पदे ।
प्रदीपं सर्वसत्त्वानां भवाब्धितारणं परम् ॥ ४६ ॥

कर्मेपभोगरोगाणां मर्दनं च रसायनम् ।
श्रीकृष्णचरणाम्भोजप्राप्तिसोपानकारणम् ॥ ४७ ॥

श्रीदामराधाकलहवर्णनं दारुणं द्विज ।
तयोः शापप्रकथनं ततस्तेषां विसर्जनम् ॥ ४८ ॥

ब्रह्मण प्रार्थितस्यैव हरेर्जनम् महीतले ।
प्रोक्तं च जन्मखण्डे च परमाद्भुतमेव च ॥ ४९ ॥

आविर्भावो हरेरेव वसुदेवस्य मन्दिरे ।
कंसासुरभयेनैव गोकुले गमनं हरेः ॥ ५० ॥

वृषभानसुता राधा श्रीदाम्नः शापहेतुना ।
बालक्रीडावर्णनं च गोकुले परमात्मनः ॥ ५१ ॥

दैत्यादिनिधनं चैव कीर्तितं हरिणा तथा ।
गर्गस्याऽऽगमनं प्रोक्तं शुभान्नप्राशनं हरेः ॥ ५२ ॥

निधनं पूतनायाश्च सद्यः शकटभञ्जनम् ।
श्रीकृष्णबन्धमोक्षं च यमलार्जुनभञ्जनम् ॥ ५३ ॥

त्रैलोक्यदर्शनं वक्त्रे गोवत्साहरणं तथा ।
कृत्वा गोवत्सनिर्माणं ब्रह्मणः स्तवनं हरेः ॥ ५४ ॥

सहसा गोकुलं त्यवत्वा पुण्यं वृन्दावनं वनम् ।
भयाज्जगाम नन्दश्च सार्धं च नन्दनेन च ॥ ५५ ॥

वृन्दावनस्य निर्माणं प्रोक्तं च परमाद्भुतम् ।
सार्धं च बालकैः सार्ध तत्र सङ्क्रीडनं हरे ॥ ५६ ॥

सदन्नं ब्राह्मणीनां च भोजनं कथितं हरेः ।
वरदानं च तासां वै प्राक्तनेन निरूपणम् ॥ ५७ ॥

क्रतूनां वर्णनं चैव वस्त्रापहरणं तथा ।
वरदानं च गोपीनां कृष्णेनैव कऋतं द्विज ॥ ५८ ॥

कात्यायनीव्रतं प्रोक्तं श्रीदुर्गापूजनं तथा ।
पार्वत्या च वरो दत्तो गोपीभ्यो यमुनातटे ॥ ५९ ॥

तालानां भक्षणं प्रोक्तं शक्रयामाविमर्दनम् ।
राधया सह कृष्णस्य विरहो मेलनं तथा ॥ ६० ॥

गोपीक्रीडा च सम्प्रोक्ता कृष्णक्रोडे च राधिका ।
छाया रायणगेहे च सम्प्रोक्ता मायया हरेः ॥ ६१ ॥

शृङ्गारं षोडसविधं कृत्वा तु रासमण्डले ।
अन्तर्धानं हरेरेव राधया सह कानने ॥ ६२ ॥

मलयागमनं चैव तया सार्धं द्विजोत्तम ।
राधामाधवयोश्चैव संवादस्तत्र निर्जने ॥ ६३ ॥

कैवल्यमपि गोपीनां प्रोक्तं नानाविधं मुने ।
पुनरागमनं चैव पुण्यं वृन्दावनं वनम् ॥ ६४ ॥

श्रीकृष्णदर्शनं चैव गोपीनां हर्षवर्थनम् ।
नानाप्रकारक्रीडा च प्रोक्ता तस्य जले स्थले ॥ ६५ ॥

गोपीनामपि सौभाग्यं राधायाश्च विशेषतः ।
प्रोक्तं व्यासेन सौन्दर्य रम्यं रम्यं नवं नवम् ॥ ६६ ॥

नभःस्थितानां देवानां दर्शनं प्रोक्तमेव च ।
मनसः स्खलनं चैव देवीनां रासमण्डले ॥ ६७ ॥

अंशेन लेभिरे जन्म देव्यश्चोक्तमिदं द्विज ।
अक्रूरागमनं चैव गोपीनां च विलापनम् ॥ ६८ ॥

प्रोक्तं सर्वं क्रमेगैव चाक्रूरभर्त्सनं तथा ।
मथुरागमनं विष्णोः शोकं गोकुलवासिनाम् ॥ ६९ ॥

राधिकाविरहज्वालाजालं प्रोक्तं यथोचितम् ।
स्वमूल्तिदर्शनं चैवमक्रूरं यमुनातटे ॥ ७० ॥

मथुरावेशनं प्रोक्तं निधनं रजकस्य च ।
कुब्जया सह सम्भोगस्तस्या मोक्षणमेव च ॥ ७१ ॥

प्रसादनं कुविन्दस्य मालाकारस्य मोक्षणम् ।
धनुधो भञ्जनं शम्भोर्हस्तिनो निधनं तथा ॥ ७२ ॥

सभाप्रवेशनं प्रोक्तं नानारूपप्रदर्शनम् ।
कंसस्य निधनं प्रोक्तं तद्बन्धूनां विलापनम् ॥ ७३ ॥

संस्कारं तस्य विधिवद्राजत्वं तत्पितुस्तथा ।
विलापनं च नन्दस्य स्तवनं परमाद्भुतम् ॥ ७४ ॥

प्रोक्तस्तयोश्च संवादो निर्जने तातपुत्रयोः ।
परमाध्यात्मिकं ज्ञानं नन्दाय च ददौ विभुः ॥ ७५ ॥

मुनीनां गमनं चैव धन्योपाख्यानमेव च ।
कथितं च कुमारेण प्रोक्तमेव सुदुर्लभम् ॥ ७६ ॥

उद्धवागमनं प्रोक्तं राधास्थानं च निर्जनम् ।
ज्ञानं तयोश्च संवादे प्रोक्तमेव शुभावहम् ॥ ७७ ॥

यज्ञोपवीतं कृष्णस्य विद्यादानं गृरोर्गृहे ।
मृतपुत्रप्रदानं च प्रोक्तं तद्गुरवे पुरा ॥ ७८ ॥

जरासन्धस्य दमनं निधनं यवनस्य च ।
द्वारकायाश्च निर्माणं विश्वकारोद्यमं तथा ॥ ७९ ॥

द्वारकावेशनं प्रोक्तमुग्रसेनविलापनम् ।
रुक्मिणीहरणं चैव नृपाणां दमनं तथा ॥ ८० ॥

सर्वासं कामिनीनां च प्रोक्तमुद्वाहनं तथा ।
मायावतीमोक्षणं च निधनं शम्बरस्य च ॥ ८१ ॥

धर्मपुत्रराजसूये शिशुपालस्य मोक्षणम् ।
दन्तवक्त्रस्य च मुनेः शाल्वस्य निधनं तथा ॥ ८२ ॥

मणेश्च हरणं चैव पारिजातस्य स्वर्गतः ।
कुरुपाण्डवयुद्धे च भुवश्च भारमोक्षणम् ॥ ८३ ॥

ऊषाया हरणं प्रोक्तं बाणस्य भुजकृन्तनम् ।
बलेश्च स्तवनं प्रोक्तमनिरुद्धस्य विक्रमः ॥ ८४ ॥

राधायशोदासंवादः प्रोक्तः परमदुर्लभः ।
मोक्षणं च शृगालस्य प्रोक्तं च परमाद्भुतम् ॥ ८५ ॥

तीर्थयात्राप्रसङ्गेन गणेशपूजनं तथा ।
दर्शनं राधिकासार्धं कुष्णस्य परमात्मनः ॥ ८६ ॥

राधाया दर्शनं देव्या राधातेजःप्रकाशनम् ।
राधाय रमणं तीर्थे भ्रमणं रहसि स्मृतम् ॥ ८७ ॥

निधनं यदुवंशानां ब्रह्मशापेन शौनक ।
मोक्षणं पाण्डवानां च स्वपदे गमनं हरेः ॥ ८८ ॥

विवाहो नारदस्यैवोत्पत्तिर्वह्निसुवर्णयोः ।
प्रोक्तं सर्व महाभाग पुनरेव समासतः ॥ ८९ ॥

चतुःखण्डैः पुराणं च ब्रह्मवैवर्तमेव च ।
अतः परं मुनिश्रेष्ठ किं भूयः श्रातुमिच्छसि ॥ ९० ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo अनुक्रमणिकं
नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥ १३२॥