१३०

अथ त्रिंशदधिकशततमोऽध्यायः
नारद उवाच
सर्वं श्रुतं महाभाग नारशेषमभीप्सितम् ।
किमपूर्व पुराणं च ब्रह्मवैवर्तमिष्टदम् ॥ १ ॥

अधुना किं करिष्यामि तन्मां ब्रूहि जगद्गुरो ।
आज्ञां कुरु तपस्यां च कर्तु यामि हिमालयम् ॥ २ ॥

नारायण उवाच
उवबर्हणगन्धर्दः पञ्चशत्कामिनीपतिः ।
जन्मान्तरे भवानासीदधुना ब्रह्मपुत्रकः ॥ ३ ॥

तास्वेका च सती रम्या तपसा शङ्करं परम् ।
आराध्य च वरं लेभे वाञ्छितं नारदं पतिम् ॥ ४ ॥

सा च सृञ्जयकन्या च स्वर्णष्ठीवीसहोदरा ।
तां विवाहं कुरुष्वेति शङ्कराज्ञा कथं वृथा ॥ ५ ॥

सुन्दरी सुन्दरीष्वेवं कोमलां कमलाकलाम् ।
पतिव्रतां महाभगां रम्यां सुप्रियवादिनीम् ॥ ६ ॥

कामुकीं कमनीयां च शश्वत्सुस्थिरयौवनाम् ।
विधात्रा लिखितं कर्म प्राक्तनं केन वार्यते ॥ ७ ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं शुभाशुभम् ॥ ८ ॥

सूत उवाच
नारायणवचः श्रुत्वा हृदयेन विदूयता ।
प्रणम्य प्रययौ शीघ्रं नारदः सृञ्जयालयम् ॥ ९ ॥

शौनक उवाच
अहो सूत महाभाग श्रुतं किं परमाद्भुतम् ।
किमपूर्वं रहस्यं च सरसं च पुरातनम् ॥ १० ॥

अधुना श्रोतुमिच्छामि विवाहं नारदस्य च ।
अतीन्द्रियस्य च मुनेर्ब्रह्मपुत्रस्य साम्प्रतम् ॥ ११ ॥

सूत उवाच
नारदो मू(गु)ढरुपश्च दृष्टावा सृञ्जयकन्यकाम् ।
तपस्विनीं महाभागां विष्णुव्रतपरायणाम् ॥ १२ ॥

ययौ ब्रह्मसभां रम्यां सर्वदेवैः समावृताम् ।
प्रणम्य पितरं शान्तः सर्वं तत्त्वमुवाच तम् ॥ १३ ॥

ब्रह्मा प्रहृष्टवदनः श्रुत्वा वार्तां शुभावहाम् ।
तपस्विनं च पुत्रं च सम्प्राप्य जगतां पतिः ॥ १४ ॥

रत्ननिर्माणयानेन सार्धं देवैः शुभे क्षणे ।
पुत्रं कृत्वा च पुरतो ययौ सृञ्जयमन्दिरम् ॥ १५ ॥

तच्छ्रुत्वा सृञ्जयो राजा रत्नभूषणभूषिताम् ।
गृहीत्वा कन्यकां रम्यां नारदाय ददौ मुदा ॥ १६ ॥

सर्वस्वं दक्षिणां दत्त्वा मणिमुक्तादिकं तथा ।
पुटाञ्जलियुतो भूत्वा परिहारे चकार सः ॥ १७ ॥

कन्यां समर्प्य ब्रह्माणं राजा च योगिनां वरः ।
रुरोद भृशमुच्चैश्च वत्से वत्स इतीरितम् ॥ १८ ॥

क्व यासि त्यक्त्वा मद्गेहं शून्यं क मललोचने ।
अहं यामि वनं घोरं त्वां त्यक्त्वा जीवितो मृतः ॥ १९ ॥

प्रणम्य पितरं कन्या रुदन्तं मातरं तथा ।
रुदतीं तां रुदन्ती साऽप्यारुरोह रथं विधेः ॥ २० ॥

गृहीत्वा च सभार्यं च पुत्रं धाता मुदाऽन्वितः ।
प्रययौ ब्रह्मलोकं च देवन्द्रैर्मुनिभिः सह ॥ २१ ॥

ब्राह्मणान्बोजयामास साङ्गे मङ्गलकर्मणि ।
देवानपि च सिद्धांश्च वादयामास दुन्दुभिम् ॥ २२ ॥

नारदस्तु मुनिश्रेष्ठो बाधितः पूर्वकर्मणा ।
यस्य यत्प्राक्तनं विप्र दुर्लङ्ध्य केन वार्यते ॥ २३ ॥

सुरम्ये पुष्पतल्पे च सुगन्धिचन्दनार्चिते ।
स रेमे रामया सार्ध बुबुधे न दिवानिशम् ॥ २४ ॥

एवं कृत्वा विवाहं च विरतो मुनिसत्तमः ।
उवास ब्रह्मलोकेषु वटमूले मनोहरे ॥ २५ ॥

तत्राऽऽजगाम नग्नश्च प्रज्वलन्ब्रह्मतेजसा ।
सनत्कुमारो भगवान्साक्षाच्च बालको यथा ॥ २६ ॥

सृष्टेः पूर्वश्च वयसा यथैव पञ्चहायनः ।
अयूडोऽनुपनीतश्च वेदसन्ध्याविहीनकः ॥ २७ ॥

कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः ।
अनन्तकालकल्पं च भ्रातृभिश्च त्रिभिः सह ॥ २८ ॥

वैष्णवानामग्रणीशो ज्ञानिनां च गुरोर्गुरुः ।
आराद्दृष्ट्वा नारादस्तं भ्रातरं च सतां वरम् ॥ २९ ॥

सहसा शिरसा भूमौ दण्डवत्प्रणनाम तम् ।
उवाच नारदं बालः प्रहस्य परमार्थकम् ॥ ३० ॥

सनत्कुमार उवाच
अये भ्रातः किं करोषि कुशलं युवतीपतेः ।
स्त्रीपुंसोर्वर्धते प्रेम नित्यं तन्नित्यनूतनम् ॥ ३१ ॥

अर्गलं ज्ञानमार्गस्य भक्तिद्वारकपाटकम् ।
मोक्षमार्गव्यवहितं चिरं बन्धनकारणम् ॥ ३२ ॥

गर्भवासस्य बीजं च परं नरककारणम् ।
पीयूषबुद्ध्या गरलं भुङ्क्ते पापी नराधमः ॥ ३३ ॥

परं नारायणं त्यक्त्वा यस्याऽऽस्ते विषये मनः ।
स वञ्चितो मायया चामृतं त्यक्त्वा विषं भजेत् ॥ ३४ ॥

सर्वेषां कर्मभोगेऽस्ति कर्मिणामीश्वरं विना ।
वयं विधातुः पुत्राश्च सा बुद्धिरिति देहिनाम् ॥ ३५ ॥

यदि ते नास्ति भोगश्च कथं गन्धर्वजन्म च ।कथं दासीसुतस्त्वं च मुक्तश्च भक्तसङ्गतः ॥ ३६ ॥

निर्गच्छ तपसे भ्रातस्त्यज मयामयीं प्रियाम् ।
सुपुण्ये भारते वर्षे तपसा भज माधवम् ॥ ३७ ॥

स्थिते नारायणे स्वेशे परे स्वपददातरि ।
विषयी विषयान्धश्च वञ्चितो मायया ध्रुवम् ॥ ३८ ॥

गृहाण मम मन्त्रं च कृष्ण इत्यक्षरद्वयम् ।
सर्वेषामेव सन्त्राणां सारात्सारं परात्परम् ॥ ३९ ॥

सर्वेषु च पुराणेषु वेदेषु च चतुर्षु च ।
धर्मशास्त्रैषु तन्त्रैषु नास्त्येवास्मात्परो मनुः ॥ ४० ॥

नारायणेन दत्तो मे पुष्करे सूर्यपर्वणि ।
असङ्ख्यकल्प जप्त्वाऽहं भ्रमामि सर्वपूजितः ॥ ४१ ॥

इत्युक्त्वा स्नापयित्वा तं ददौ दस्मै परं मनुम् ।
दिवानिशं स जपति पूतया मणिमालया ॥ ४२ ॥

तस्मै शुभाशिषं दत्त्वा मन्त्रं च वैष्णवाग्रणीः ।
गोलोकं प्रययौ द्रष्टुं भगवन्तं सनातनम् ॥ ४३ ॥

नारदस्तु मनु प्राप्य सर्वसिद्धिप्रदं वरम् ।
श्रीकृष्णे निश्चलां भक्तिं पूर्वकर्मनिकृन्तनीम् ॥ ४४ ॥

त्यक्त्वा मायामयीं भार्यां भारतं तपसे ययौ ।
कृतमालानदीतीरे ददर्श शङ्करं परम् ॥ ४५ ॥

दृष्ट्वा च सहसा मूर्ध्ना प्रणनाम शिवं मुनिः ।
तमुवाच जगन्नाथो भक्तं च भक्तवत्सलः ॥ ४६ ॥

महादेव उवाच
अहो नारद दृष्ट्वा त्वां प्रसन्नोऽहं स्वतेजसा ।
भक्तानां दर्शनं यत्र सुदिनं तच्छरीरिणाम् ॥ ४७ ॥

अयं हि परमो लाभो देहिनां बक्तसङ्गमः ।
स स्नातः सर्वतीर्थेषु यो ददर्श च वैष्णवाम् ॥ ४८ ॥

अपि प्राप्तो महामन्त्रः सर्वतन्त्रसुदुर्लभः ।
मया दत्तो गणेशाय स्कन्दाय स्वात्मजाय च ॥ ४९ ॥

मह्यं दत्तश्च कृष्णेन गोलोके रासमण्डले ।
ब्रह्मणे चापि धर्माय धर्मो नारायणाय च ॥ ५० ॥

ब्रह्मा सनत्कुमाराय तुम्यं दत्तश्च तेन वै ।
मन्त्रग्रहणमात्रेण जनो नारायणो भवेत् ॥ ५१ ॥

विचारणं च नास्त्यत्र कालाकालं शुभाशुभम् ।
पञ्चलक्षजपेनैव पुरश्चरणमस्य च ॥ ५२ ॥

ध्यानं च सामवेदोक्तं तेन ध्यायेच्च वैष्णवः ।
ध्यानं च पापदहनं कर्ममूलनिकृन्तनम् ॥ ५३ ॥

कृष्णं नवघनश्यामं किशोरं पीतवाससम् ।
शतकोटीन्दुसौन्दर्यं दधानमतुलं परम् ॥ ५४ ॥

भूषितं भूषणौघैस्तैरमूल्यरत्ननिर्मितैः ।
चन्दनोक्षितसर्वाङ्गं कौस्तुभेन विराजितम् ॥ ५५ ॥

मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् ।
ईषद्धास्यप्रसन्नास्यं नित्योपास्यं शिवादिभिः ॥ ५६ ॥

ध्यानासाध्यं दुराराध्यं निर्गुणं प्रकृतेः परम् ।
सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम् ॥ ५७ ॥

वेदानिर्वचनीयं त वरं सर्वेश्वरं भजे ।
ध्यानेनानेन तं ध्यात्वा भगवन्तं सनातनम् ॥ ५८ ॥

भज तं परमानन्दं सत्यं नित्यं परात्परम् ।
इत्युक्त्वा स्वपदं शम्भूर्जगाम् परमेश्वरः ॥ ५९ ॥

तं प्रणम्य जगन्नाथं नारदस्तपसे ययौ ।
नारदः श्रीहरिं स्मृत्वा योगात्त्यक्त्वा कलेवरम्
निलीनः पादपद्मे च पाद (पद्मा) पद्मार्चिते हरेः ॥ ६० ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo नारदविवाहादिप्रकरणं
नाम त्रिंशदधिकशततमोऽध्यायः ॥ १३० ॥