१२८

अथाष्टाविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
श्रीकृष्णश्च समाह्वानं गोपांश्चापि चकार सः ।
भाण्डीरे वटमूले च तत्र स्वयमुवास ह ॥ १ ॥

पुराऽन्नं च ददौ तस्मै यत्रैव ब्राह्मणीगणः ।
उवास राधिका देवी वामपार्श्वे हरेरपि ॥ २ ॥

दक्षिणे नन्दगोपश्च यशोदासहितस्तथा ।
तद्दक्षिणो वृषभानस्तद्वामे सा कलावती ॥ ३ ॥

अन्ये गोपाश्च गोप्यश्च बान्धवाः सुहृदस्तथा ।
तानुवाच स गोविन्दो यथार्थ्यं समयोचितम् ॥ ४ ॥

श्रीभगवानुवाच
शृणु नन्द प्रवक्ष्यामि साम्प्रतं समयोचितम् ।
सत्यं च परमार्थं च परलोकसुखावहम् ॥ ५ ॥

आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय ।
विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम् ॥ ६ ॥

मथुरायां सर्वमुक्तं नावशेषं च किञ्चन ।
यशोदां बोधयामास राधिका कदलीवने ॥ ७ ॥

तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम् ।
विहाय मिथ्यामायां च स्मर तत्परमं पदम् ॥ ८ ॥

जन्ममृत्युजराव्याधिहरं हर्षकरं परम् ।
शोकसन्तापहरणं कर्ममूलनिकृन्तनम् ॥ ९ ॥

मामेव परमं ब्रह्म भगवन्तं सनातनम् ।
ध्यायं ध्यायं पुत्रबुद्धिं त्यक्त्वा लभ परं पदम् ॥ १० ॥

गोलोकं गच्छ शीघ्रं त्वं सार्धं गोकुलवासिभिः ।
आरात्कलेरागमनं कर्ममूलनिकृन्तनम् ॥ ११ ॥

स्त्रीपुंसोर्नियमो नास्ति जातीनां च तथैव च ।
विप्रे सन्ध्यादिकं नास्ति चिह्नं यज्ञोपवीतकम् ॥ १२ ॥

यज्ञसूत्रं च तिलकं शेषं लुप्तं सुनिश्चितम् ।
दिवाव्यवायनिरतं विरतं धर्मकर्मणि ॥ १३ ॥

यज्ञानां च व्रतानां च तपसां लुप्तमेव च ।
केदारकन्याशापेन धर्मो नास्त्येव केवलम् ॥ १४ ॥

स्वच्छन्दगामिनीस्त्रीर्णा पतिश्च सततं वशे ।
ताडयेत्सततं तं च भर्त्सयेच्छ दिवानिशम् ॥ १५ ॥

प्राधान्यं स्त्रीकुटुम्बानां स्त्रीणां च सततं व्रज ।
स्वामी च भक्तस्तासां च पराभूतो निरन्तरम् ॥ १६ ॥

कलौ च योषितः सर्वा जारसेवासु तत्पराः ।
शतपुत्रसमः स्नेहस्तासां जारे भविष्यति ॥ १७ ॥

ददाति तस्मै भक्ष्यं च यथा भृत्याय कोपतः ।
सस्मिता सकटाक्षा साऽमृतदृष्ट्या निरन्तरम् ॥ १८ ॥

जारं पश्यति कामेन विषदृष्ट्या पतिं सदा ।
सततं गौरवं तासां स्नेहं च जारबान्धवे ॥ १९ ॥

पत्यौ करप्रहारं च नित्यं नित्यं करोति च ।
मिष्टान्नं श्रद्धया भक्त्या जाराय प्रददाति च ॥ २० ॥

वेषयुक्ता च सततं जारसेवनतत्परा ।
प्राणा बन्धुर्गतिश्चाऽऽत्मा कलौ जारश्च यौषिताम् ॥ २१ ॥

लुप्ता चातिथिसेवा च प्रलुप्तं विष्णुसेवनम् ।
पितृणामर्चनं चैव देवानां च तथैव च ॥ २२ ॥

विष्णुवैष्णवयोर्द्वेषी सततं च नरो भवेत् ।
वाममन्त्रोपासकाश्च चतुर्वर्णाश्च तत्पराः ॥ २३ ॥

शालग्रामं च तुलसीं कुशं गङ्गोदकं तथा ।
न स्पृशेन्मानवो धूर्तो म्लेच्छाचाररतः सदा ॥ २४ ॥

कारणं कारणानां च सर्वेषां सर्वबीजकम् ।
सुखदं मोक्षदं शश्वद्दातारं सर्वसम्पदाम् ॥ २५ ॥

त्यक्त्वा मां परया भक्त्या क्षुद्रसम्पत्प्रदायिनम् ।
वेदनिघ्नं वाममन्त्रं जपेद्विप्रश्च मायया ॥ २६ ॥

सनातनी विष्णुमाया वञ्चितं तं करिष्यति ।
ममाऽऽज्ञया भगवती जगतां च दुरत्यया ॥ २७ ॥

कलेर्दशसहस्राणि मदर्चा भुवि तिष्ठति ।
तदर्धानि च वर्षाणि गङ्गा भुवनपावनी ॥ २८ ॥

तुलसी विष्णुभक्ताश्च यावद्गङ्गा च कीर्तनम् ।
पुराणानि च स्वल्पानि तावदेव महीतले ॥ २९ ॥

मम चोत्कीर्तनं नास्ति एतदन्ते कलौ व्रज ।
एकवर्णा भविष्यन्ति किराता बलिनः शठाः ॥ ३० ॥
पित्रोः सेवा गुरोः सेवा सेवा च देवविप्रयोः ।
विवर्जिता नराः सर्वे चातिथीनां तथैव च ॥ ३१ ॥

सस्यहीना भवेत्पृथ्वी साऽनावृष्ट्या निरन्तरम् ।
फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा ॥ ३२ ॥

वेदहीनो ब्राह्मणश्च बलहीनश्च भूपतिः ।
जातिहीना जनाः सर्वे म्लेच्छो भूपो भविष्यति ॥ ३३ ॥

भृत्यवत्ताडयेत्तातं पुत्रः शिष्यस्तथा गुरुम् ।
कान्तं च ताडयेत्कान्ता लुब्धकुक्कुटवद्गृही ॥ ३४ ॥

नश्यन्ति सकला लोकाः कलौ शेषे च पापिनः ।
सूर्याणामातपात्केचिज्जलौघेनापि केचन ॥ ३५ ॥

हे वैश्येन्द्र प्रतिकलौ न नश्यति वसुन्धरा ।
पुनः सृष्टौ भवेत्सत्यं सत्यबीजं निरन्तरम् ॥ ३६ ॥

एतस्मिन्नन्तरे विप्र रथमेव मनोहरम् ।
चतुर्योजनविस्तीर्णमूर्ध्वे च पञ्चयोजनम् ॥ ३७ ॥

शुद्धस्फटिकसङ्काशं रत्नेन्द्रसारनिर्मितम् ।
अम्लानपारिजातानां मालाजालविराजितम् ॥ ३८ ॥

मणीनां कौस्तुभानां च भूषणेन विभूषितम् ।
अमूल्यरत्नकलशं हीरहारविलम्बितम् ॥ ३९ ॥

मनोहरैः परिष्वक्तं सहस्रकोटिमन्दिरैः ।
सहस्रद्वयचक्रं च सहस्रद्वयघोटकम् ॥ ४० ॥

सूक्ष्मवस्त्राच्छादितं च गोपीकोटीभिरावृतम् ।
गोलोकादागतं तूर्णं ददृशुः सहसा व्रजे ॥ ४१ ॥

कृष्णाज्ञया तमारुह्य ययुर्गोलोकमुत्तमम् ।
राधा कलावती देवी धन्या चायोनिसम्भवा ॥ ४२ ॥

गोलोकाद गता गोप्यश्चायोनिसम्भवाश्च ताः ।
श्रुतिपत्न्यश्च ताः सर्वाः स्वशरीरेण नारद ॥ ४३ ॥

सर्वे त्यक्त्वा शरीराणि नश्वराणि सुनिश्चितम् ।
गोलोकं च ययौ राधा सार्घं गोकुलवासिभिः ॥ ४४ ॥

ददर्श विरजातीर्र नानारत्नविभूषितम् ।
तदुत्तीर्य ययौ विप्र शतशृङ्गं च पर्वतम् ॥ ४५ ॥

नानामणिगणाकीर्णं रासमण्डलमण्डितम् ।
ततो ययौ कियद्दूरं पुण्यं वृन्दावनं वनम् ॥ ४६ ॥

सा ददर्शाक्षयवटमूर्ध्वे त्रिशतयोजनम् ।
शतयोजनविस्तीर्णं शाखाकोटिसमावृतम् ॥ ४७ ॥

रक्तवर्णैः फलौघैश्च स्थूलैरपि विभूषितम् ।
गोपीकोटिसहस्रैश्च सार्धं वृन्दा मनोहरा ॥ ४८ ॥

अनुव्रजं सादरं च सस्मिता सा समाययौ ।
अवरुङ्य रथात्तूर्णं राधां सा प्रणनाम च ॥ ४९ ॥

रासेश्वरीं तां सम्भाष्य प्रविवेश स्वमालयम् ।
रत्नसिंहासने रम्ये हीरहारसमन्विते ॥ ५० ॥

वृन्दा तां वासयामास पादसेवनतत्परा ।
सप्तभिश्च सखीभिश्च सेवितां श्वेतचामरैः ॥ ५१ ॥

आययुर्गोपिकाः सर्वा द्रष्टुं तां परमेश्वरीम् ।
नन्दादिकं प्रकल्प्यैतद्राधा वासं पृथकपृथक् ॥ ५२ ॥

परमानन्दरूपा सा परमानन्दपूर्वकम् ।
स्ववेश्मनि महारम्ये प्रतस्थे गोपिका सह ॥ ५३ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
अष्टाविंशत्यधिकशततमोऽध्यायः ॥ १२८ ॥