अथ षड्विंशत्यधिकशततमोऽध्यायः
नारायण उवाच
गणेशपूजनं कृत्वा माधवो यादवैः सह ।
देवैर्मुनिभिरन्यैश्च देवीभिः सह नारद ॥ १ ॥
अंशेन देवो देवीभी रुक्मिण्याद्याभिरेव च ।
प्रययौ द्वारकां रम्यां तस्थौ सिद्धाश्रमे स्वयम् ॥ २ ॥
कृत्वा सुप्रीतिसम्भाषां सार्धगोलोकवासिभिः ।
गोपैः सुहृद्भिर्नन्देन मात्रा गोप्या यशोदया ॥ ३ ॥
उवाच मातरं तातं सुनीतं च चथोचितम् ।
गोपांश्च गोकुलस्थांश्च बन्धुवर्गाश्च साम्प्रतम् ॥ ४ ॥
श्रीभगवानुवाच
गच्छ नन्दव्रजं नन्द हे तात प्राणवल्ल्भ ।
मातर्यशोदे त्वमपि परमार्थे यशस्विनि ॥ ५ ॥
भुक्त्वा कालावशेषं च गच्छ गोलोकमुत्तमम् ।
सालोक्यमुक्तिं दास्यामि सार्थ गोकुलवासिभिः ॥ ६ ॥
इत्युक्त्वा भगवान्कृष्णः पित्रोरनुमतेन च ।
जगाम राधिकास्थानं नन्दश्च गोकुलं तथा ॥ ७ ॥
ददर्श राधा रुचिरां मुक्ताहारां च सस्मिताम् ।
यथा द्वादशवर्षीयां शश्वत्सुस्थिरयौवनाम् ॥ ८ ॥
रत्नोच्चैरासनस्था च गोपीत्रिशतकोटिभिः ।
आवृता वेत्रहस्ताभिः सस्मिताभिश्च साम्प्रतम् ॥ ९ ॥
दृष्ट्वा च दूरतो राधा श्रीकृष्णं प्राणवल्लभम् ।
शिशुवेषं सुवेषं च सुन्दरेशं च सस्मितम् ॥ १० ॥
नवीन्नजलदश्यामं पीन्तकौशेयवाससम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ ११ ॥
मयूरपिच्छचूडं च मालतीमाल्यशोभितम् ।
ईषद्धास्यप्रसन्नास्यं भक्तानुप्रहविग्रहम् ॥ १२ ॥
क्रीडाकमलमम्लानं धृतवन्तं मनोहरम् ।
मुरलीहस्तविन्यस्तं सुप्रशस्तं च दर्पणम् ॥ १३ ॥
जवेन च समुत्थाय गोपीभिः सह सादरम् ।
प्रणम्य परया भक्त्या तुष्टाव परमेश्वरम् ॥ १४ ॥
राधिकोवाच
अद्य मे सफलं जन्मजीवितं च सुजीवितम् ।
यद्दृष्ट्वा मुखचन्द्रं ते सुस्निग्धं लोचनं मनः ॥ १५ ॥
पञ्च प्राणाश्च स्निग्धाश्च परमात्मा च सुप्रियः ।
उभयोर्हर्षबीजं च दुर्लभं बन्धुदर्शनम् ॥ १६ ॥
शोकार्णवे निमग्नाऽहं प्रदग्धा विरहानलैः ।
त्वद्दृष्ट्याऽमृतवृष्ट्या च सुसिक्ताऽद्य सुशीतला ॥ १७ ॥
शिवा शिवप्रदाऽहं च शिवबीजा त्वया सह ।
शि (श) व स्वरूपा निश्चेष्टाऽप्यदृश्या च त्वया विना ॥ १८ ॥
त्वयि तिष्ठति देहे च देही श्रीमाञ्छुचिः स्वयम् ।
सर्वशक्तिस्वरूपा च शिवरूपा गते त्वयि ॥ १९ ॥
स्त्रीपुंसो विंरहो नाथसामान्यश्च सुदारुणः ।
यान्त्येव शक्तिभिः प्राणा विच्छेदात्परमात्मनः ॥ २० ॥
इत्युक्त्वा राधिका वेवी परमात्मानमीश्वरम् ।
स्वासने वासयासास कृत्वा पादार्चनं मुदा ॥ २१ ॥
रत्नसिंहासने श्रीमानुवास राधया सह ।
गोपीभिः सप्तभिः शश्वत्सेवितः श्वेतचामरैः ॥ २२ ॥
चन्दना सा ददौ गात्रे सुगन्धि चन्दनं हरेः ।
सस्मिता रत्नमाला सा रत्नमालां गले ददौ ॥ २३ ॥
पद्मैः पद्मार्चिते पादपद्मे पद्मावती सती ।
अर्ध्या ददौ सा सजलं दूर्वा पुष्पं च चन्दनम् ॥ २४ ॥
मालतो मालतीमाल्यं चूडायां च हरेर्ददौ ।
चम्पापुष्पस्य पुटकं ददौ चम्पावती सती ॥ २५ ॥
पारिजाता च हरये पारिजातं ददौ मुदा ।
सकर्पूरं च ताम्बूलं वासितं शीतलं जलम् ॥ २६ ॥
ददौ कदम्बमाला सा कदम्बमालिकां शुभाम् ।
क्रीडाकमलमम्लानममूल्यं र्तनदर्पणम् ॥ २७ ॥
ददौ हस्ते हरेरेव कमला सा सुकोमला ।
वरुणेन पुरा दत्तं वस्त्रयुग्मं च सुन्दरम् ॥ २८ ॥
साक्षाद्गोरोचनाभं च सुन्दरी हरये ददौ ।
मधुपात्रं मधुस्तस्मै मधुरं मधुपूर्णकम् ॥ २९ ॥
सुधापूर्गं सुधापात्रं ददौ भक्त्या सुधामुखी ।
चकार पुष्पशय्यां च गोपी चन्दनचर्चिताम् ॥ ३० ॥
अम्लानमालतीपुष्पमालाजालविभूषिताम् ।
रत्नेन्द्रसारनिर्माणमन्दिरे सुमनोहरे ॥ ३१ ॥
मणीन्द्रमुक्तामाणिक्यहीरहारविभूषिते ।
कस्तूरीकुङ्कुमाक्तेन वायुना सुरभीकृते ॥ ३२ ॥
रत्नप्रदीपशतकैर्ज्वलद्भिश्च सुदीपिते ।
धूपिते सततं धूपैर्नानावस्तुसमन्वितैः ॥ ३३ ॥
कृत्वा शय्यां रतिकरीं ययुर्गोप्यश्च सस्मिताः ।
दृष्ट्वा रहसि तल्पं च सुरम्यं सुमनोहरम् ॥ ३४ ॥
माधवो राघया सार्ध विवेश रतिमन्दिरम् ।
नानाप्रकारहास्यं च परिहासं स्मरोचितम् ॥ ३५ ॥
द्वयोर्बभूव तल्पे च मदनातुरयोस्तथा ।
माल्यं ददौ च कृष्णाय ताम्बूलं च सुवासितम् ॥ ३६ ॥
कस्तूरीकुङ्कुमाक्तं च चन्दनं श्यामवक्षसि ।
चारुचम्पकपुष्पं च चूडायां प्रददौ सती ॥ ३७ ॥
सहस्रदलससङ्क्तक्रीडापद्मं करे ददौ ।
प्रक्षिप्य मुरलीं हस्तात्प्रददौ रत्नदर्पणम् ॥ ३८ ॥
पारिजातस्य कुसुममम्लानं पुरतो ददौ ।
उवाच मधुरं राधा रहस्ये मधुरं वचः
सस्मिता सस्मितं शान्तं कान्तं कान्ता मनोहरम् ॥ ३९ ॥
राधिकोवाच
निष्फलं मङ्गलप्रश्तं मङ्गले मङ्गलालये ।
सर्वमङ्गलबीजे च माङ्गल्ये मङ्गलप्रदे ॥ ४० ॥
तथाऽपि कुशलप्रश्ने साम्प्रतं समयोचितम् ।
लौकिको व्यवहारोऽपि वेदेभ्यो बलवांस्तथा ॥ ४१ ॥
कुशलं रुक्मिणीकान्त सत्यभामेश साम्प्रतम् ।
महन्द्रेण समं युद्धं लीलया च यदाज्ञया ॥ ४२ ॥
पारिजाततरुं स्वर्गादुत्पाट्य चामरावतीम् ।
गत्वा विजित्य देवांश्च तस्यै दसमिति श्रुतम् ॥ ४३ ॥
पुण्यकं च कृतं तेन पारिजातेन सुव्रतम् ।
त्वामेव साध्यं कान्तं च सम्पूर्णे दक्षिणां ददौ ॥ ४४ ॥
ब्रह्मेशशेषासाध्यस्त्वं तया साध्यः कृतः कथम् ।
सर्वभ्यः कामिनीभ्यश्च सत्यभामां बिभेषि च ॥ ४५ ॥
रुक्मिण्यां प्रेमसौभाग्यमतिरिक्तं च गौरवम् ।
भयं माल्यं च धन्यायां सत्यायां सततं श्रुतम् ॥ ४६ ॥
सत्यं जाम्बवतीकान्त वद मां च सुनिश्चितम् ।
तासु सर्वासु कान्तासु कस्यास्ते प्रेम चाधिकम् ॥ ४७ ॥
शृङ्गारे सर्वभावे वा तासु का रसिका परा ।
त्वयि स्निग्धा विदग्धा का तामु धन्याऽतिसुव्रता ॥ ४८ ॥
सा स्त्री भावानुरक्ता या भार्यां पाति पतिश्च सः ।
प्रेमातिरिक्तं स्त्रीपुंसोस्त्रैलोक्येषु सुदुर्लभम् ॥ ४९ ॥
रसिका स्त्री विजानाति सती गुणवती पतिम् ।
गुणज्ञं रसिकं शूरं सुशीलं सुरतौ सदा ॥ ५० ॥
दूराद्धावति पद्मार्थ मधुलोभान्मध्रुव्रतः ।
भेकस्तन्न हि जानाति तन्मूर्ध्नि पादमुत्सृजेत् ॥ ५१ ॥
यन्त्री जानाति सङ्गीतरसं यन्त्रं च नैव च ।
दुग्धास्वादं विदग्धश्च न दर्वी नैव भाजनम् ॥ ५२ ॥
परिपक्वफलास्वादं जानन्ति भोगिनः सुखम् ।
एकत्रावस्थिताः शश्वन्नकिञ्चित्फलिनो यथा ॥ ५३ ॥
सुशीलजलास्वादं विजानन्ति तृषाल्वः ।
न च वापी न घटश्चैकत्रावस्थितो यथा ॥ ५४ ॥
भोकिनो हि विजानन्ति शालिस्वादुरसं परम् ।
एकत्रावस्थितं चेतु न क्षेत्रं भाजनं यथा ॥ ५५ ॥
बुबुधे चन्दनाघ्रणं चन्दनार्थी च भोगवित् ।
न गर्दभो भारवाही न तस्य पात्रिका यथा ॥ ५६ ॥
यं न यानन्ति वेदाश्च ब्रह्मेशानादयस्तथा ।
योगिनो मुनयः सिद्धास्तं किं जानन्ति योषितः ॥ ५७ ॥
सौभाग्यं गौरवं प्रेम दुर्लभं नित्यनूतम् ।
यौषितां च परं नैव चूर्णीभूतं क्षणेन च ॥ ५८ ॥
अत्युच्छ्रितो निपतनं प्राप्नोत्येव ध्रुवं प्रभो ।
आराद्विपत्तिबीजं च वैष्णवानां विहिंसनम् ॥ ५९ ॥
श्रीदामा च मया शप्तस्त्वद्भक्तो भक्तवत्सलः ।
एतादृशी विपत्तिर्मे पुत्रश्रीदामशापतः ॥ ६० ॥
ईश्वरः कस्य वा बन्धुः प्रियो वा विप्रियस्तथा ।
सततं भक्तिसाध्यश्च यो भक्तश्च तदीश्वरः ॥ ६१ ॥
वेदाश्च वैदिकाः सन्तः पुराणानि वदन्ति च ।
राधाया माधवः साध्यो भगवानिति निष्फलम् ॥ ६२ ॥
जित्वा च सगणं शम्भुं बाणस्य भुजकृन्तनम् ।
कृत्वा च रुक्मिणीपौत्रः समानीतः सभार्यकः ॥ ६३ ॥
अहो त्वयि समायाते रुक्मिणी किमुवाच ह ।
प्रेम स्थितं समानं ते किं विवृद्धं च गौरवम् ॥ ६४ ॥
कुरुपाण्डवयुद्धेन कुरवो निहतास्त्वया ।
पाण्डवार्थे तथा भूपाः क्व साम्यं परमात्मनः ॥ ६५ ॥
साक्षान्महेन्द्रजातस्य कौन्तेयस्यार्जुनस्य च ।
राजमण्डलन्ध्यस्थो भवानेव हि सारथिः ॥ ६६ ॥
तेन भक्तेन शुद्धेन भीष्मेण च महात्मना ।
लज्जितेन किमुक्तं ते महतीषु मभासु च ॥ ६७ ॥
देवैरपि कथं दृष्टो ब्रह्मेशशेसंषज्ञकैः ।
भक्तसिहैर्भृत्तैः सर्वैर्न चोक्तं किञ्चिदेव सः ॥ ६८ ॥
यश्चानिर्वचनीयश्च वेदेषु च चतुर्षु च ।
पुराणेष्वितिहासेषु प्रकृतेः पर ईश्वरः ॥ ६९ ॥
निर्गुणच नीरीहश्च निर्लिप्तः सर्वकर्मणाम् ।
कर्मणां साक्षिरूपश्च भक्तानुग्रहविग्रहः ॥ ७० ॥
परं ब्रह्म परं ज्योतिः परमेशः परात्परः ।
परमात्मा च सर्वेषां सूतो नररथस्थितः ॥ ७१ ॥
त्वया कुब्जा च सम्भुक्ता वृद्धा क्षत्रियकामिनी ।
अपुत्रिणी चाधिकाङ्गी यूनाऽस्पृश्या च ॥
प्रक्तनात् ॥ ७२ ॥
त्वया च निहतः कंसो मातुलः केन हेतुना ।
आयास्यतीति कृत्वा च गत्तं न पुनरागतम् ॥ ७३ ॥
निहत्य यादवान्सर्वान्विभज्य द्वारकां पुरीम् ।
त्वां निबध्य समानेतुमीश्वरी वारिता जनैः ॥ ७४ ॥
इत्युक्त्वा राधिका देवी भृशमुच्चै रुरोद सा ।
मूर्च्छां सम्प्राप सहसा निनिःश्वासा बभूव ह ॥ ७५ ॥
गोप्यो गवाक्षजालस्थाः शुश्रुवुर्ददृशुस्तथा ।
दृष्ट्वा तमाययुः सर्वा ऊचू राधा मृतेति च ॥ ७६ ॥
उच्चैस्ता रुरुदुः सर्वाः क्रोडे कृत्वा च राधिकाम् ।
ऊचुस्ता रक्षरक्षेति हरे नरहरे प्रभो ॥ ७७ ॥
गोप्य ऊचुः
किं कृतं किं कृतं कृष्ण त्वया राधा मृता च नः ।
राधां जीवय भद्रं ते यास्यामः काननं वयम् ॥ ७८ ॥
अन्यथा स्त्रीवधं तुभ्यं दास्यामः सर्वयोषितः ।
गोपीनां वचनं श्रुत्वा राधिकायाश्च माधवः ॥ ७९ ॥
उवाच जीवयामास मुधादृष्ट्या च नारद ।
उत्तस्थौ राधिका देवी रुदती मानिनी सती ॥ ८० ॥
गोप्यस्तां बोधयामासुःक्रोडे कृत्वा पुनः पुनः ॥ ८१ ॥
श्रीकृष्ण उवाच
श्रृणु राधे प्रवक्ष्यामि ज्ञानमाध्यात्मिकं परम् ।
यच्छ्रुत्वा हालिको मूर्खः सद्यो भवति पण्डितः ॥ ८२ ॥
जात्याऽहं चगतां स्वामी किं रुक्मिण्यादियोषिताम् ।
कार्यकारणरूपोऽहं व्यक्तो राधे पृथक् पृथक् ॥ ८३ ॥
एकात्माऽहं च विश्वेषां जात्या ज्योतिर्मयः स्वयम् ।
सर्वप्राणिषु व्यक्त्या चाप्याब्रह्मादितृणादिषु ॥ ८४ ॥
एकस्मिंश्च भुक्तवति न तुष्टोऽन्यो जनस्तथा ।
मय्यात्मनि गतेऽप्येको मृतोऽप्यन्यः सुजीवति ॥ ८५ ॥
जात्याऽहं कृष्णरूपश्च परिपूर्णतमः स्वयम् ।
गोलोके गोकुले पुण्ये क्षेत्रे वृन्दावने वने ॥ ८६ ॥
द्विभुजो गोपवेषश्च स्वयं राधापतिः शिशुः ।
गोपालैर्गोपिकाभिश्च सहितः कामधेनुभिः ॥ ८७ ॥
चतुर्भुजोऽहं वैकुण्ठे द्विधारूपः सनातनः ।
लक्ष्मीसरस्वतीकान्तः सततं शान्तविग्रहः ॥ ८८ ॥
यन्मानसी सिन्धुकन्या मर्त्यलक्ष्मीपतिर्भुवि ।
श्वेतद्वीपे च श्रीरीदे तत्रापि च चतुर्भुजः ॥ ८९ ॥
अहं नारायणर्षिश्च नरो धर्मः सनातनः ।
धर्मवक्ता च धर्मिष्ठो धर्मवर्त्मप्रवर्तकः ॥ ९० ॥
शान्तिर्लक्ष्मीस्वरूपा च धर्मिष्ठा च पतिव्रता ।
अत्र तस्याः पतिरहं पुण्यक्षेत्रे च भारते ॥ ९१ ॥
सिद्धेशः सिद्धिदः साक्षात्कपिलोऽहं सतीपतिः ।
नानारूपधरोऽहं च व्यक्तिभेदेन सुन्दरि ॥ ९२ ॥
अहं चतुर्भुजः शश्वद्द्वार्वत्यां रुक्मिणीवतिः ।
अहं क्षीरोदशायी च सत्यभामागृहे शुभे ॥ ९३ ॥
अन्यासां मन्दिरेऽहं च कायव्यूहात्पृथक्पृथक् ।
अहं नारायणर्षिश्च फाल्गुनस्यास्य सारथिः ॥ ९४ ॥
स नरर्षिर्धर्मपुत्रो मदंशो बलवान्भुवि ।
तपसाऽऽराधितस्तेन सारथ्येऽहं च पुष्करे ॥ ९५ ॥
यथा त्वं राधिका देवी गोलेके गोकुले तथा ।
वैकुण्ठे च महालक्ष्मीर्भवती च सरस्वती ॥ ९६ ॥
भवती मर्त्यलक्ष्मीश्च क्षीरोदशायिनः प्रिया ।
धर्मपुत्रवधूस्त्वं च शान्तिर्लक्ष्मीस्वरूपिणी ॥ ९७ ॥
कपिलस्य प्रिया कान्ताभारते भवती सती ।
त्वं सीता मिथिलायां च त्वच्छाया द्रौपदी सती ॥ ९८ ॥
द्वारवत्यां महाल्क्ष्मीर्भवती रुक्मिणी सती ।
पञ्चानां पाण्डवानां च भवती कलया प्रिया ॥ ९९ ॥
रावणेन हृता त्वं च स्वं च रामस्य कामिनी ।
नानारूपा यथा त्वं च च्छायया कलया सती ॥ १०० ॥
नानारूपस्तथाऽहं च श्वांशेन कलया तथा ।
परिपूर्णतमोऽहं च परमात्मा परात्परः ॥ १०१ ॥
इति ते कथितं सर्वमाध्यात्मिकमिदं सति ।
राधे कर्वापराधं मे क्षमस्व परमेश्वरी ॥ १०२ ॥
श्रीकृष्णवचनं श्रुत्वा परितुष्टा च राधिका ।
परितुष्टाश्च गोप्यश्च प्रणेमुः परमेश्वरम् ॥ १०३ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
षड्विंशत्यधिकशततमोध्यायः ॥ १२६ ॥