१२५

अथ पञ्चविंशत्यधिकशततमोऽध्यायः
नारद उवाच
गणेशपूजनादेव राधास्तोत्रात्परं विभो ।
बभूव किं रहस्यं वा तन्मे व्याख्यातुमर्हसि ॥ १ ॥

नारायण उवाच
गशेशपूजने तीर्थे ये देवाश्च समाययुः ।
मुनयश्चापि योगीन्द्रा वसन्तो वटमूलके ॥ २ ॥

वसुदेवो देवकी च परमादरबूर्वकम् ।
पप्रच्छ शम्भुं ब्राह्मणमनन्तं मुनिपुङ्गवान् ॥ ३ ॥

भवेद्भवाब्धितरणमावयोरुत्तमा गतिः ।
शीघ्रं ब्रूत महाभागा दीनयोर्दीनबान्धवाः ॥ ४ ॥

भवाब्धितरणे तर्यां तत्र यूयं च नाविकाः ।
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥ ५ ॥

यज्ञरूपाणि पुण्यानि व्रतान्यनशनानि च ।
तपांसि नानादानानि विप्रदेवार्चनानि च ॥ ६ ॥

चिरं पुनन्ति सर्वाणि दर्शनादेव वैष्णवाः ।
सतां च विष्णुभक्तानां रजसां स्पर्शमात्रतः ॥ ७ ॥

पूतानां पादपद्मानां सद्यः पूता वसुन्धरा ।
तीर्थानि च पवित्राणि समुद्राः पर्वतास्तथा ॥ ८ ॥

सुरा दर्शनमिच्छन्ति पातकेन्धनपापकम् ।
सोऽज्ञानि नैव बुबुधे ज्ञानं च ज्ञानिना सह ॥ ९ ॥

परमं स्वादुरूपं च दधिदुग्धरसं यथा ।
यथा कृणस्य तातोऽहं सङ्गी सुचिरमेव च ॥ १० ॥

तथैव देवकी माता ज्ञानिनां च गुरोर्गुरोः ।
वसुदेववचः श्रुत्वा प्रहस्य शङ्करः स्वयम्
चतुर्णामपि वेदानामुवाच जनको गुरुः ॥ ११ ॥

महादेव उवाच
सन्निकर्षो ज्ञानिनां चाप्यनादरणकारणम् ।
यान्ति गङ्गाम्भसा पूतास्तीर्थान्यन्यानि सिद्धये ॥ १२ ॥

वासुदेवास्य तातोऽयं वसुदेवश्च पण्डितः ।
ज्ञानिनः कश्यपस्याशो वसोस्तातस्य चाऽऽत्मनः ॥ १३ ॥

पृच्छति ज्ञानमस्मांश्च कृष्णाज्ञान्पुत्रबुद्धितः ।
अहो दुर्गा महामाया ज्ञानिनामपि मोहिनी ॥ १४ ॥

विष्णुमाया दुराराध्या न साध्या जागतामपि ।
वयं च मोहिताः शश्वद्वेदानां जनकस्तथा ॥ १५ ॥

ब्रह्मा कृष्णं परीक्षेत मोहितस्तस्य मायया ।
ध्यायते यत्पदाम्भोजं तपसा जीवनावधि ॥ १६ ॥

इन्द्रेषु दशलक्षेष्वप्यधिकाष्टशतेषु च ।
पातेषु ब्रह्मणः पाते निमेषो माधवस्य च ॥ १७ ॥

सह तेनेन्द्रयुद्धं च पारिजातस्य हेतुना ।
पारिजाततरुं दत्त्वा मया शक्रश्च रक्षितः ॥ १८ ॥

यज्ज्ञानं न गिरामेव तत्वं वा विषयात्मकम् ।
नहि किं चित्तदज्ञानां तस्माद्ध्यानं सदैव हि ॥ १९ ॥

प्राणिनामात्मनो ज्ञानमस्माकं ज्ञानमस्ति च ।
तदूधर्वं तत्समं नैव कृष्णं पृच्छ शुभाशुमम् ॥ २० ॥

ब्रह्मणश्च चतुर्यामं कल्पं कल्पविदो विदुः ।
सप्तकल्पान्तजीवी च मार्कण्डेयो महामुनिः ॥ २१ ॥

अष्टानवतिशक्रेषु पातेषु पतनं मुनेः ।
ततः प्राप्तं हरेर्दास्यं मुनिना तपसः फलात् ॥ २२ ॥

प्रलये ब्रह्मणः पाते पतनं लोमशस्य च ।
दिक्पालानां ग्रहाणां च तदायुश्चिरजीविनाम् ॥ २३ ॥

अन्येषामपि देवानां मुनीनामूर्ध्वरेतसाम् ।
तदेवाऽऽयुश्च रुद्राणां मां च मृत्युञ्जयं विना ॥ २४ ॥

प्रलये च विधेः पाते शिवलोकेऽप्यहं शिवः ।
ब्रह्मभालोद्भवः शम्भूः सर्वादिः सर्गभाषणः ॥ २५ ॥

कृष्णवामाङ्गसम्भूता यथा राधा तथैव च ।
तथैव दुर्गा लक्ष्मीश्च सावित्री च सरस्वती ॥ २६ ॥

आदित्योऽऽयदितेः पुत्रः कायव्यूहेन द्वादश ।
तथैव च महेन्द्रश्च कायव्यूहाच्चर्तुदश ॥ २७ ॥

तथैव वसवश्चाष्टौ रुद्राश्चैकावशैव ते ।
मनुपाते चेन्द्रपातो विषयात्पतनं भवेत् ॥ २८ ॥

समाययौ च सर्वेषां निधनं प्रलयेऽपि च ।
प्रलयो दर्शयामास ब्रह्माण्डं च जलप्लुतम् ॥ २९ ॥

ब्रह्माणं च स्वलोकं च स्वात्मानं शक्तिभिश्च माम् ।
सर्वेषां मूलरूपश्च सर्वेशः कृष्ण एव च ॥ ३० ॥

भज पुत्रं राजसूये यज्ञेशं यज्ञकारणम् ।
विधिवद्दक्षिणां दत्त्वां भवाब्धिं तर यादव ॥ ३१ ॥

मुक्तिस्ते नास्ति निर्वाणा विषयी कश्यपो भवान ।
न ते दास्यं क्तधनमदितिर्देवकी तथा ॥ ३२ ॥

व्रज स्वर्गं भोगबीजं स्वस्थानममरालयम् ।
शिवस्य वचनं श्रुत्वा संयत श्चशुभक्षणे ॥ ३३ ॥

तत्र सम्भृतसम्भारो राजसूयं चकार सः ।
वसुदेवस्य हव्यं च साक्षाच्च जगृहः सुराः ॥ ३४ ॥

यत्र साक्षाच्च यज्ञेशो यज्ञोऽयं दक्षिणा सह ।
बूर्णाहुतिं दत्तवन्तं वसुदेवमुवाच सः ॥
सनत्कुमारो भगवान्वासुदेवाज्ञया मुने ॥ ३५ ॥

सनत्कुमार उवाच
सर्वस्वं दक्षिणां देहि तुर्णं लक्ष्मीपतेः पितः ।
सार्थकं कुरु कर्मेदं वेदोक्तं वचनं श्रुणु ॥ ३६ ॥

दक्षिणां विप्रमुद्दिश्य तत्कालं चेन्न दीयते ।
मुहूर्ते तु व्यतीते सा दक्षिणा द्विगुणा भवेत् ॥ ३७ ॥

वासरे च बहिर्भूते भवेत्साऽपि चतुर्गुणा ।
त्रिरात्रे समतीते षड्गुणा दक्षिणा भवेत् ॥ ३८ ॥

पक्षान्ते तु शतगुणा मासान्ते तु चतुर्गुणा ।
षण्मासेऽप्यधिके न्यूने च साहस्त्रगुणा तथा ॥ ३९ ॥

वर्षान्ते सा लक्षगुणा ब्रह्मणोक्तं च याटव ।
उभौ च नरकं यान्तः कर्मकर्तृपुरोहितौ ॥ ४० ॥

वासुदैवश्च तच्छुत्वा सर्वस्वमुत्ससर्जं सः ।
अधिकारांश्च साह् लादो वासुदेवाज्ञया तथा ॥ ४१ ॥

अमूल्यानां च रत्नानां दशकोटिमनुत्तममा ।
ददौ गर्गाय सर्वादौ स्वयं लक्ष्मौपतेः पिता ॥ ४२ ॥

शतकोटिं मणीन्द्राणां स्वर्णानां तच्चर्तुगुणम् ।
माणिक्यानां च मुक्तानां हीरकाणां तथैव च ॥ ४३ ॥

रौप्यं प्रवालं परमं स्वर्णपात्राणि यानि च ।
स्वस्त्रीणां स्ववधूनां चाप्यमूल्यरत्नभूषणम् ॥ ४४ ॥

श्वेतचामरलक्षं च लक्षं च रत्नदर्पणम् ।
कामधेनुगणं सर्वं शतकोटिं गजानपि ॥ ४५ ॥

शतकौटिं गजेन्द्राणामश्वानां तच्चतुर्गुणम् ।
यद्धनं यादवानां च राज्ञो राजनुमोदनात् ॥ ४६ ॥

ग्रामाणां शतलक्षं च ससस्यं फलितं तरुम् ।
धान्याचलानां लक्षं च शाल्यन्नानां तथैव च ॥ ४७ ॥

पायसं पिष्टकं चैव मिष्टान्नं च सुधोपमम् ।
स्वस्तिकानां तिलानां च रम्यणि लड्डुकानि च ॥ ४८ ॥

दध्नां मधूनां दुग्धानां गुडानां हविषामपि ।
कुल्यानां शतकं दत्त्वा परिहारं चकार सः ॥ ४९ ॥

सकर्पूरं च तान्दूलं सुशीतं वासितं जलम् ।
सुगन्धि चन्दनं चैव पारिजातस्य मालिकाम् ॥ ५० ॥

आसनानि च रम्याणिवह्निशुद्धाशुकानि च ।
रत्ननिर्माणतल्पानि पुष्णाणि च फलानि च ॥ ५१ ॥

प्रददौ ब्राह्मणेभ्यश्च प्रफुल्लवदनेक्षणः ।
देवांश्च भोजयामास ब्राह्मणानां मुखैः सुभैः ॥ ५२ ॥

देवाश्च मुनयो रात्रौ स्वरामाभिश्चरेमिरे ।
प्रभाते प्रययुः सर्वे श्रीकृष्णानुमतेन च ॥ ५३ ॥

वादवाः प्रययुः सर्वेद्वारकां कृष्णपालिताम् ।
अमूल्यरात्नबूर्णां च रुक्मिणीदर्शनेन च ॥ ५४ ॥

इति श्री ब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo
पञ्चविंशत्यधिकशततमोऽऽध्यायः ॥ १२५ ॥