१२४

अथ चतुर्विंशत्यधिकशततमोऽध्योयः
नालायण उवाच
राधा सम्पूज्य विधिना स्तुत्वा लम्बोदरं सती ।
अमूल्यरत्ननिर्माणं सर्वाङ्गभूषणं ददौ ॥ १ ॥

राधायाः स्तवनं श्रुत्वा पूजां दृष्ट्वा च वस्तु च ।
उवाच मधुरं शान्तः शान्तां त्रैलोक्यमातरम् ॥ २ ॥

गणेश उवाच
तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे ।
ब्रह्मस्वरूपा भवती कृष्णवक्षः स्थलस्थिता ॥ ३ ॥

यत्पादपद्मतुलं ध्यायन्ते ते सुदुर्लभम् ।
सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ ४ ॥

जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।
तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा ॥ ५ ॥

वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।
महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ६ ॥

वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।
वेदानां जगतामेव मूल्प्रकृतिरीश्वरी ॥ ७ ॥

सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः ।
विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ८ ॥

प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि ।
आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ॥ ९ ॥

स एव पण्डितो योगी गोलोकं याति लीलया ।
आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ॥ १० ॥

जगतां भवती माता परमात्मा पिता हरिः ।
पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा ॥ ११ ॥

भजते देवमन्यं वा कृष्णं वा सर्वकारणम् ।
पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम् ॥ १२ ॥

वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च ।
पच्यते निरये घोरे यावच्चन्द्रदिवाकरौ ॥ १३ ॥

गुरुश्चज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्ध्रुवयोर्यतः ॥ १४ ॥

निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि ।
भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ॥ १५ ॥

निषेव्य मन्त्रे शम्भोश्च जगतां कारणस्य च ।
तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ॥ १६ ॥

युक्योः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् ।
क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः ॥ १७ ॥

भक्त्या च युवचोर्मन्त्रं गृहीत्वा वैष्मपादपि ।
स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम् ॥ १८ ॥

योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते ।
पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत् ॥ १९ ॥

गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम् ॥ २० ॥

यद्दत्तं वस्तु मे मातस्तत्सर्वं सार्थकं कुरु ।
देहि विप्राय मत्प्रीत्या तदा भोक्ष्यामि साम्प्रतम् ॥ २१ ॥

देवे देयानि दानानि देवे देया च दक्षिणा ।
तत्सर्वं ब्राह्मणे दद्यात्तदानन्त्याय कल्पते ॥ २२ ॥

ब्राह्मणानां मुखं राधे देवानां मुखमुख्यकम् ।
विप्रभुक्तं च यद्द्रव्यं प्राप्नुवन्त्येव देवताः ॥ २३ ॥

विप्रांश्च भोजयामास तत्सर्व राधिका सती ।
बभूव तत्क्षणादेव प्रीतो लम्बोदरो मुने ॥ २४ ॥

एतस्मिन्नन्तरे देवा ब्रह्मेशशेषसञ्ज्ञकाः ।
आययुर्वटमूलं च देवपूजार्थमेव च ॥ २५ ॥

तत्र गत्वा शिवचरो देवान्देवीरुवाच सः ।
श्रीकृष्णं शुष्ककण्ठश्च भयभीतश्च रक्षकः ॥ २६ ॥

रक्षक उवाच
गणेशं पूजयामास सर्वादौ च शुभक्षणे ।
वृषभानसुता राधा प्रकृत्य स्वस्तिवाचनम् ॥ २७ ॥

सहिता सा बलवती गोपीत्रिशतकोटिभिः ।
वारितोऽहं वलिष्ठाभिर्युष्मांश्च कथयामि तत् ॥ २८ ॥

मर्वादौ पूजयेद्यो हि सोऽनन्तं फलमालभेत् ।
मध्ये मध्यविधं पुण्यं शेषे स्वल्पमिति स्मृतम् ॥ २९ ॥

देवेन्द्रेषु मुनीन्द्रेषु देवस्त्रीषु स्थितासु च ।
गोपीभिश्च सह तया राधया पूजितः परः ॥ ३० ॥

दूतवाक्यं समाकर्ण्य जहसुः सर्वदेवताः ।
मुनयो मनवश्चैव राजानो देवयोषितः ॥ ३१ ॥

रुक्मिण्याद्या रमण्यश्च या देव्यो विस्मयं ययुः ।
सरस्वती च सावित्री पार्वती परमेश्वरी ॥ ३२ ॥

रोहिणी च सती सञ्ज्ञा स्वाहाद्या देवयोषितः ।
मुदिताः प्रययुः सर्वा मुनिपत्न्यः पतिव्रताः ॥ ३३ ॥

मुनयो मनवः सर्वे देवाश्चापि नरास्तथा ।
श्रीकृष्णः स गणैः सार्धं ये चान्ये प्रययुर्मुदा ॥ ३४ ॥

ते सर्वे विविधैर्द्रव्यैः पूजां चक्रुः शुभक्षणे ।
बलिष्ठा दुर्बलाश्चैव क्रमेण च पृथक्पृथक् ॥ ३५ ॥

लड्डुकानां च राशीनां शतकोटिर्बभूव ह ।
शर्कराणां तदर्धं च स्वस्तिकानां तथैव च ॥ ३६ ॥

अन्नानां भव्यवस्तूनां शतकोटिर्बभूव ह ।
असङ्ख्यानि फलान्येव स्वादूनि मधुराणि च ॥ ३७ ॥

मधुकुल्या दुग्धकुल्या दधिकुल्या घृतस्य च ।
बभूवुः शतसङ्ख्याश्च त्रैलोक्यानां च पूजने ॥ ३८ ॥

पूजां कृत्वा तु ते सर्वे समूषुश्च सुखासने ।
पार्वती परमप्रीत्या राधास्थानं समाययौ ॥ ३९ ॥

सा राधा पार्वतीं दृष्ट्वा समुत्थाय जवेन च ।
यथायोग्यां च सम्भाषां चकार सादरं मुदा ॥ ४० ॥

आश्लेषणं चुम्बनं च बभूव च परस्परम् ।
उवाच मधुरं दुर्गा राधां कृत्वा स्ववक्षसि ॥ ४१ ॥

पार्वत्युवाच
किंवा प्रश्नं करिष्यामि त्वां राधा मङ्गलालयाम् ।
गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ॥ ४२ ॥

सततं मन्मनः प्राणास्त्वय्येव मयि ते तथा ।
न ह्येवमावयोर्भेदः शक्तिपूरुषयोस्तथा ॥ ४३ ॥

येत्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि ।
कुम्भीपाके च पज्यन्ते यावच्चन्द्र दिवाकरौ ॥ ४४ ॥

राधामाधवयोर्भेदं ये कुर्वन्ति नराधमाः ।
वंशहानिर्भवेत्तेषां पच्यन्ते नरके चिरम् ॥ ४५ ॥

यान्ति सूकरयोनिं च पितृभिः शतकैः सह ।
षष्टिवर्षसहस्राणि विष्ठायां कृमयस्तथा ॥ ४६ ॥

त्वयैव पूजितः पुत्रो न मया च गणेश्वरः ।
सर्वादौ सर्वपूज्योऽयं यथा तव तथा मम ॥ ४७ ॥

यावज्जीवनपर्यन्तं न विच्छेदो भविष्यति ।
राधामाधवयोर्देवि दुग्धधावल्ययोर्यथा ॥ ४८ ॥

सिद्धाश्रमे महातीर्थे पुण्यक्षेत्रे च भारते ।
निर्वघ्नं लभगोविन्दं सम्पूज्य विघ्नखण्डनम् ॥ ४९ ॥

रासेश्वरी त्वं रसिका श्रीकृष्णो रसिकेश्वरः ।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भदेत् ॥ ५० ॥

श्रीदाम्नः शापनिर्मुक्ता शतवर्षान्तरे सति ।
कुरुष्व मद्रेणाद्य कृष्णेन सह सङ्गमम् ॥ ५१ ॥

ममाऽऽज्ञया दुर्लभया सुवेषं कुरु सुन्दरि ।
सुदुर्लभः कामिनीनां सत्पुंसा सह सङ्गमः ॥ ५२ ॥

चक्रुः सुवेषं राधायाः प्रियाल्यश्च शिवाज्ञया ।
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥ ५३ ॥

पुरतो रत्नमाला सा रत्नमालां गले ददौ ।
राधाया दक्षिणे हस्ते क्रीडापद्मं मनोहरम् ॥ ५४ ॥

ददौ पद्ममुखी पादपद्मयुग्मेऽप्यलक्तकम् ।
प्रददौ सुन्दरी गोपी सिन्दूरं सुन्दरं वरम् ॥ ५५ ॥

चन्दनेन समयुतं सीमन्ताधः स्थलोज्ज्वलम् ।
सुचारुकबरीं रम्यां चकार मालती सती ॥ ५६ ॥

मनोहरां मुनीनां च मालतीमाल्यभूषिताम् ।
कस्तूरीकुङ्कुमाक्तं च चारुचन्दनपत्रकम् ॥ ५७ ॥

स्तनयुग्मे सुकठिने चकार चन्दना सती ।
चारुचम्पकपुप्पाणां मालां गन्धमनोहराम् ॥ ५८ ॥

मालावती ददौ तस्यौ प्रफुल्लां नवमल्लिकाम् ।
रतीषु रसिका गोपी रत्नभूषणभूषिताम् ॥ ५९ ॥

तां चकारातिरसिकां वरां रतिरसोत्सुकाम् ।
शरत्पद्मदलाभं च लोजनं कज्जलोज्ज्वलम् ॥ ६० ॥

कृत्वा ददौ सुललितं वस्त्रं च ललिता सती ।
महेन्द्रेण प्रदत्तं च पारिजातप्रसूनकम् ॥ ६१ ॥

सुगन्धियुक्तं तस्याश्च पारिजातं करे ददौ ।
सुशीलं मधुरोक्तं च भर्तुः पार्श्वे यथोचितम् ॥ ६२ ॥

शिक्षां चकार नीतिं च सुशीला गोपिका सती ।
स्त्रीणां च षोडशकलां विपत्तौ विस्मृतान्तयोः ॥ ६३ ॥

स्मरणं कारयामास राधामाता कलावती ।
श्रृङ्गारविषयोक्तं च वचनं च सुधोपमम् ॥ ६४ ॥

स्मरणं कारयामास भगिनी च सुधामुखी ।
कमलानां चम्पकानां दले चन्दनचर्चिते ॥ ६५ ॥

चकार रतितल्पं च कमला चाऽऽशु कोमलम् ।
चारुचम्पकपुष्पं च कृष्णार्थं पुटकस्थितम् ॥ ६६ ॥

चकार चन्दनाक्तं च स्वयं च पार्वती सती ।
पुष्पं केलिकदम्बानां स्तबकं च मनोहरम् ॥ ६७ ॥

कदम्बमालां कृष्णार्थ विद्यमानां चकार सा ।
ताम्बूलं च वरं सम्यं कर्पूरादिसुवासितम् ॥ ६८ ॥

कृष्णप्रिया च कृष्णार्थं चकार वासितं जलम् ।
एतस्मिन्नन्तरे सर्वमाश्रमं सजलस्थलम् ॥ ६९ ॥

साक्षाद्गोरोचनाभं च ददृशुर्मुनयः सुराः ।
ते सर्वे विस्मयं गत्वा पप्रच्छुः कृष्णमीश्वरम् ॥ ७० ॥

उवाच भगवांस्ताश्च सर्वज्ञः सर्वकाराणा ॥ ७१ ॥

श्रीभगवानुवाच
अभिशप्ता च श्रीदाम्ना भ्रष्टशोभा राधिका ।
सर्वं ज्ञानं विसस्मार मद्विच्छेदज्वरातुरा ॥ ७२ ॥

विमुक्ते वर्षशतके ज्ञानं सस्मार सा सती ।
सिद्धाश्रमं च पीताभं रासेश्वर्याश्च तेजसा ॥ ७३ ॥

परमाह्लादकं तेजश्चन्द्रकोटिसमप्रभम् ।
सुखदृश्यं च सुखदं चक्षुधां प्राणिनामपि ॥ ७४ ॥

तच्छ्रुत्वा परमाश्चर्यं मुनयो मनवस्तथा ।
देव्यश्च सर्वदेवास्ते ब्रह्मेशानादयस्तथा ॥ ७५ ॥

जवेन गत्वा तत्स्थानं भक्तिनम्रात्मकन्धरा ।
सर्वे जनास्ते ददृशुस्त्रैलोक्यस्थाश्च राधिकाम् ॥ ७६ ॥

श्वेतचम्पकवर्णाभामतुलां सुमनोहराम् ।
मोहिनीं मानसानां च मुनीनामूर्ध्वरेतसाम् ॥ ७७ ॥

सुकेशीं सुन्दरीं श्यामां न्यग्रोधपरिमण्डलाम् ।
नितम्बकठिनश्रोणीं स्तनयुग्मोन्नताननाम् ॥ ७८ ॥

कोटीन्दुनिन्दितास्यां तां सस्मितां सुदतीं सतीम् ।
कज्जलोज्ज्वलरूपां च शरत्कमललोजनाम् ॥ ७९ ॥

महालक्ष्मीं बीजरूपां परामाद्यां सनातीम् ।
परमात्मस्वरूपस्य प्राणाधिष्ठातृदेवताम् ॥ ८० ॥

स्तुतां च पूजितां चैव परां च परमात्मने ।
ब्रह्मस्वरूपां निर्लिप्तां नित्यरूपां च निर्गुणाम् ॥ ८१ ॥

विश्वानुरोधात्प्रकृतिं भक्तानुग्रहविग्रहाम् ।
मत्यस्वरूपां शुद्धां च पूतां पतितपावनीम् ॥ ८२ ॥
सुतीर्थपूतां सत्कीर्तिं विधात्रीं वेदसामपि ।
महत्प्रियां च महतीं महाविष्णोश्च मातरम् ॥ ८३ ॥

रासेश्वरेश्वरीं रम्यां रसिकां रसिकेश्वरीम् ।
वह्निशुद्धांशुकाधामां स्वेच्छारूपां शुभालयाम् ॥ ८४ ॥

गोपीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैः ।
चतसृभिः प्रियालीभिः पादपद्मोपसेविताम् ॥ ८५ ॥

अमूल्यरत्ननिर्माणभूषणोच्चैर्विभूषिताम् ।
चारुकुण्डलयुग्मेन श्रुतिगण्डस्थलोज्ज्वलाम् ॥ ८६ ॥

सुनासां गजमुक्तार्हां खगेन्द्रचञ्चुनिन्दिताम् ।
कुङ्कुमालक्तकस्तूरीस्निग्धचन्दनचर्चिताम् ॥ ८७ ॥

दधानां सुकपोलं च कोमलाङ्गीं सुकामुकीम् ।
गचेन्द्रगामिनीं रामां कामनीयां सुकामिनीम् ॥ ८८ ॥

कामास्त्रजयरूपां च कामकाम्यालयां वराम् ।
क्रीडाकमलमम्लानं पारिजातप्रसूनकम् ॥ ८९ ॥

अमूल्यरत्ननिर्माणं दधानां दर्पणोज्ज्वलम् ।
नानारत्नविचित्राढ्यरतनसिंहासनस्थिताम् ॥ ९० ॥

पद्मैः पद्मार्चितं पादपद्मं च मङ्गलालयम् ।
हृत्पद्मे ध्यायमानं च कृणस्य परमात्मनः ॥ ९१ ॥

कर्मणा मनसा वाचा स्वप्ने जागरणेऽपि च ।
तत्प्रीतिं प्रेम सौभाग्यं स्मरन्तीं नित्यनूतनम् ॥ ९२ ॥

भावानुरक्तसंसक्तां शुद्धभक्तां पतिव्रताम् ।
धन्यां मान्यां गौरवर्णां शश्वद्वक्षः स्थलस्थिताम् ॥ ९३ ॥

प्रियासु प्रियभक्तेषु सुप्रियां प्रियवादिनीम् ।
कृष्णवामाङ्गसम्भूतामभेदां गुणरूपयोः ॥ ९४ ॥

गोलोकवासिनीं देवदेवीं सर्वोपरिस्थितम् ।
वृषभानसुताख्यां तां पुण्यक्षेत्रे च भारते ॥ ९५ ॥

गोपीश्वरीं गुप्तरूपां सिद्धिदां सिद्धिरूपिणीम् ।
ध्यानासाध्यां दुराराध्यां वन्दे सद्भक्तवन्दिताम् ॥ ९६ ॥

ध्याने ध्यानेन राधाया व्यायन्ते ध्यानतत्पराः ।
इहैव जीवन्मुक्तास्ते परत्र कृष्णपार्षदाः ॥ ९७ ॥

दृष्ट्वा ब्रह्मा च सर्वादौ तुष्टाव परमेश्वरीम् ।
स्वयं विधाता जगतां मातरं वेधसामपि ॥ ९८ ॥

ब्राह्मोवाच
षष्टिवर्षसहस्रणि दिव्यानि परमेश्वरि ।
पुष्करे च तपस्तप्तं पुण्यक्षेत्रे च भारते ॥ ९९ ॥

त्वत्पादपद्मधुरमधुलुब्धेन चेतसा ।
मधुव्रतेन लोलेन प्रेरितेन मया सति ॥ १०० ॥

तथाऽपि न मया लब्धं त्वत्पादपद्ममीप्सितम् ।
न दृष्टमपि स्वप्नेऽयि जाता वागशरीरिणी ॥ १०१ ॥

वाराहे भारते वर्षे पुण्ये वृन्दावने वने ।
सिद्धाश्रमे गणेशस्य पादपद्मं च द्रक्ष्यसि ॥ १०२ ॥

राधामाधवयोर्दास्यं कुतो विषयिणस्तव ।
निवर्तस्व महाभाग परमेतत्मुदुर्लभम् ॥ १०३ ॥

इति श्रुत्वा निवृत्तोऽहं तपसे भग्नमानसः ।
परिपुर्ण तदधुना वाञ्छितं तपसः फलम् ॥ १०४ ॥

महादेव उवाच
पद्मैः पद्मार्चितं पादपदमं यस्य सुदुर्लभम् ।
ध्यायन्ते ध्याननिष्ठाश्च शाश्वद्रब्रह्मादयः सुराः ॥ १०५ ॥

मुनयो मनवश्चैव सिद्धाः सन्तश्च योगिनः ।
द्रष्टुं नैव क्षमाः स्वप्ने भवती तस्य वक्षसि ॥ १०६ ॥

अनन्त उवाच
वेदाश्च वेदमाता च पुराणानि च सुव्रते ।
अहं सरस्वती सन्त स्तोतुं नालं च सन्ततम् ॥ १०७ ॥

अस्माकं स्तवने यस्य भ्रूभङ्गं च सुदुर्लभम् ।
तवैव भत्सेने भीताश्चावयोरन्तरं हरेः ॥ १०८ ॥

एवं देवाश्च देव्यश्चाप्यन्ये ये च समागताः ।
प्रणतास्तुष्टुवुः सर्वे मुनिमन्वादयस्तथा ॥ १०९ ॥

लज्जया नम्रवक्त्राश्च रुक्मिण्यद्याश्च योषितः ।
मलीमसं च चक्रुस्ताः श्वासेन रत्नदर्पणम् ॥ ११० ॥

मृततुल्या सत्यभामा निराहारा कृशोदरी ।
मनसोऽप्यभिमानं च सर्व तत्याच नारद ॥ १११ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo
सिद्धाश्रमतीर्थयात्राप्रसङ्गेगणेशपूजनं ब्रह्मेशशेषादिकृतराधिकास्तोत्रं नाम
चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४ ॥