अथैकविंशत्यधिकशततमोऽध्यायः
नारायण उवाच
अथ कृष्णः सुधर्मायां निवसन्सगणस्तथा ।
तत्राऽऽजगाम् विप्रश्च प्रज्वलन्ब्रह्मतेजसा ॥ १ ॥
आगत्य दृष्टाव तुष्टाव भक्त्या च पुरुषोत्तमम् ।
उवाच मधुरं शान्तो भीतो विनयपूर्वकम् ॥ २ ॥
ब्राह्मण उवाच
श्रृगालो वासुदेवश्च राजेशो मण्डलेश्वरः ।
त्वामुवाच स यद्वाक्यं सावधानं निशामय ॥ ३ ॥
श्रृगाल उवाच
वैकुण्ठे वासुदेवोऽहं देवेशश्च चतुर्भुजः ।
लक्ष्मीपतिश्च जगतां धाता धातुश्च पालकः ॥ ४ ॥
ब्रह्मणा प्रार्थितोऽहं च भारावतरणाय च ।
भुवो भारतवर्ष च तदर्थ गमनं मम ॥ ५ ॥
वसुदेवसुतो वैश्यः क्षत्रियश्चाप्यहङ्कृतः ।
आत्मानं भक्तविष्णुश्च मायावी च प्रतारकः ॥ ६ ॥
जनं जनेन निर्जित्य दुर्बलं बलिना सह ।
जोधयित्वा महाधूर्तो घातयामास भूपतीन् ॥ ७ ॥
दुर्योधनं जरासन्धं भूपमन्यं च दुर्बलम् ।
भीमेन घातयामास बलिनाऽल्पेन भूतले ॥ ८ ॥
द्रोणं भीष्मं च कर्ण च यं यमन्यं च भूतले ।
बलीयसाऽर्जुनेनैव घातयामास मायया ॥ ९ ॥
यं यमन्यं दुर्बलं च प्रसिद्धमप्रसिद्धकम् ।
प्रसिद्धेन बलवता घातयामास मायया ॥ १० ॥
शिशुपालं दन्तवक्त्रं कंसं च चिररोगिणम् ।
मत्पुत्रं नरकं चैव दुर्बलं केशिनं मुरम् ॥ ११ ॥
स्वयं जघान सङ्केताच्छलेन सहसा बत ।
न धर्मयुद्धे कपटी स च बालो ह्यधार्मिकः ॥ १२ ॥
जघान पूतनां कुब्जां स्त्रीघाती वस्त्रहेतुना ।
जघान रजकं शिष्टमशिष्टश्च प्रतारकः ॥ १३ ॥
हिरण्यकशिपुं दैत्यं हिरण्याक्षं महाबलम् ।
मधुं च कैटभं चैव हत्वाऽहं सुष्टिरक्षकः ॥ १४ ॥
अहमेव स्वयं ब्रह्मा ह्यहमेव स्वयं शिवः ।
अहं विष्णुश्च जगतां पाता दुष्टापहारकः ॥ १५ ॥
अंशेन कलया सर्वे मनवो मुनयस्तथा ।
स्वयं नारायणोऽहं च मिर्गुणः प्रकृतेः परः ॥ १६ ॥
लज्जया कृपया चैव मित्रबुद्ध्या ङमा कृता ।
यद्गतं तद्गतं भद्र युद्धं कुरु मया सह ॥ १७ ॥
श्रृणोमि दूतद्वारेण ह्यतीवोच्चैरहङ्कृतम् ।
उचितं दमनं तस्याप्युन्नतानां निपातनम् ॥ १८ ॥
राज्ञश्च परमो धर्मोऽप्यहं शास्ता भुवोऽधुना ।
शङ्खं चक्रं गदां पद्मं गृहीत्वाऽहं चतुर्भुजः ॥ १९ ॥
द्वारकां ता गमिष्यामि युद्धाय सगणः स्वयं ।
युद्धं कुरु यदीच्छाऽस्ति मा मां च शरणं व्रज ॥ २० ॥
यदि मा यास्यति मम शरणं शरणागतः ।
भस्मीभूतां करिष्यामि द्वारकां च क्षणेन च ॥ २१ ॥
सबलं च सपुत्रं त्वां सगणं च सबान्धवम् ।
क्षणेन दग्धुं शक्तोऽहमसहायेन लीलया ॥ २२ ॥
तपस्विनं च वृद्धं च जित्वा युद्धे च शङ्करम् ।
शक्रं भगाङ्गं जित्वा च रोगिणं ब्रह्मशापतः ॥ २३ ॥
मत्तोऽसि वीरमात्मानं मन्यमानस्त्वमेव च ।
स्त्रीजितो हि वृथार्थ च पारिजातस्य हेतुना ॥ २४ ॥
लमपटो योनिलुब्धश्च राधादीनश्च गोकुले ।
अधुना किङ्करसमः सत्यादीनां च योषिताम् ॥ २५ ॥
इत्येवमुक्त्वा विप्रश्च तूष्णीम्भूय स्थितो मुने ।
शीकुष्णः सगणः श्रुत्वा भृशसुच्छैर्जहास सः ॥ २६ ॥
भोजयित्वा च सम्पूज्य ब्राह्मणं च चतुर्विधम् ।
निनाय रजनीं दुःखाद्वाक्शल्यमान ज्वरात् ॥ २७ ॥
प्रभाते रथमारुह्य सगणः सत्वरं मुदा ।
लीलामात्रेण प्रययौ श्रृगालो नृपतिर्यतः ॥ २८ ॥
श्रुत्वा श्रृगालो वार्तां तां कृत्रिमश्च चतुर्भुजः ।
आजगाम हरेः स्थानं युद्धाय सगणः स्वयम् ॥ २९ ॥
कृष्णश्चक्रे च सम्भाषां मित्रबुद्ध्या च लौकिकीम् ।
आश्लेषं मधुरालापं स्निग्धनेत्रश्च सस्मितः ॥ ३० ॥
राजा निमन्त्रणं चक्रे कृष्णो न स्वीचकार तत् ।
उवाच कृष्णभीतश्चत्यक्त्वा दम्भं च दर्शनात् ॥ ३१ ॥
श्रृगाल उवाच
चक्रेण मच्छिरश्छित्त्वा सुशीघ्रं द्वारकां व्रज ।
पापः पततु देहोऽयमनित्यो नश्वरस्तथा ॥ ३२ ॥
अहं सुभद्रस्ते द्वारि जयश्च विजयो यथा ।
सर्व जानासि सर्वज्ञ मा विलम्बं कुरु प्रभो ॥ ३३ ॥
लक्ष्मीशापेन भ्रष्टोऽहं कालः पूर्णो बभूव मे ।
शतवर्षेण शापान्ते यास्यमि भवनं तव ॥ ३४ ॥
श्रीकृष्ण उवाच
पूर्व मां मित्र प्रहर पश्चाद्युद्धं करोभ्यहम् ।
सर्व जानामि वैकुण्ठं गच्छ वत्स यथासुखम् ॥ ३५ ॥
श्रृगालो दशबाणांश्च चिक्षेप माधवं प्रति ।
ते प्रणभ्य ययुः शीघ्रमाकाशं कालरूपिमः ॥ ३६ ॥
गदां चिक्षेप राजा स प्रलयाग्निशिखोपमाम् ।
कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च ॥ ३७ ॥
शूलं चिक्षेप मुसलं च परशुं तथा ।
कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च ॥ ३८ ॥
धनुश्चिक्षेप खङ्गं च कालरूपं सुदारुपाम् ।
कृष्णाङ्गस्पर्शमात्रेण बभञ्ज च क्षणेन च ॥ ३९ ॥
दृप्ट्वा निरस्त्रं राजनमित्युवाच कृपानिधिः ।
गृहं गत्वा सुतीक्ष्णं च मित्रास्त्रमानयेति च ॥ ४० ॥
श्रृगाल उवाच
नाऽऽत्माऽऽकाशोऽस्त्रविद्धश्च किं युद्धमात्मना सह ।
मामुद्धर भवाब्धेश्च धरोद्धारणकारण ॥ ४१ ॥
भवार्ब्धि विषमं नाथ विषयं च विषाधिकम् ।
छिन्धि मे निगडं मायां मोहजालं स्वकर्मणः ॥ ४२ ॥
कर्मणामीश्वरस्त्वं च विधाता घातुरेव च ।
दाता शुभफलानां च प्रदाता सर्वसम्पदाम् ॥ ४३ ॥
कारणं प्राक्तनानां च तेषां च खण्डने क्षमः ।
यामि गेहं च वैकुण्ठं तवैव द्वारसप्तमम् ॥ ४४ ॥
त्यक्त्वा च नशवरं देहं प्राकृतं पाञ्चभौतिकम् ।
मित्रस्य स्तवनं श्रुत्वा वचनं च सुधोपमम् ॥ ४५ ॥
रुरोद समरे तत्र कृपया च कृपानिधिः ।
बभूव तत्र सहसा कृष्णनेत्राश्रुबिन्दुना ॥ ४६ ॥
दिव्यं बिन्दुसरो नाम् तीर्थानां प्रवरं परम् ।
तत्तोयस्पर्शमात्रेण जीवन्मुक्तो भवेन्नरः ॥
सप्तजन्मर्जितात्पापान्मुच्यते नात्र संशयः ॥ ४७ ॥
श्रीभगवानुवाच
कथमेतादृशी बुद्धिर्मित्र ते निर्मलं मनः ।
दूतद्वारा कथं चौक्तं निष्ठुरं दारुणं वचः ॥ ४८ ॥
शृगाल उवाच
एवमुक्तो मया त्वं च तेन क्रोधादिहाऽऽगतः ।
अन्यथा दुर्लभं नाथ स्वप्नेऽपि तव दर्शनम् ॥ ४९ ॥
एतस्मिन्नन्तरे योगाद्देहं त्यक्त्वा च प्राकृतम् ।
दृष्ट्वा कृष्णं च यानेन वैकुष्ठं प्रययौ मुदा ॥ ५० ॥
सप्ततालप्रमाणं च ज्योतिस्तत्र महोल्बणम् ।
पद्मैः पद्मार्चितं पादपद्मं नत्वा जगाम ह ॥ ५१ ॥
गत्वा च द्वारकां कृष्णो नत्वा च पितरं प्रसूम् ।
श्रीकृष्णः सगणः शीघ्रं दृष्ट्वा च परमाद्भुतम् ॥ ५२ ॥
प्रफुल्लवदनः श्रीमान्द्वारकाभिमुखं ययौ ।
जगाम रुक्मणीगेहं पुष्पजन्दनवासितम् ॥ ५३ ॥
पुष्पचन्दनतल्पे च नक्तं रेमे तया सह ।
मूर्च्छं सम्प्राप स भैष्मी कृष्णं कृत्वा स्ववक्षसि ॥ ५४ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo शृगालवासुदेव-
मोक्षणं नामैकविंशत्यधिकशततमोऽध्यायः ॥ १२१ ॥