१२०

विंशत्यधिकशततमोऽध्यायः
नारायण उवाच
अथ कृष्णश्च भगवानुद्धवेत बलेन च ।
दूतं प्रश्थापयामास विधाय मन्त्रणं शुभम् ॥ १ ॥

शिवो गणपतिर्यत्र दुर्गां दुर्गतिनाशिनी ।
कार्तिकेयो भद्रकाली चोग्रचण्डा च कोटरी ॥ २ ॥

आगत्य नत्वा दूतश्च गणेशं च शिवं शिवाम् ।
मानवांश्चापि पूच्यांश्च समुवाच यथोचितम् ॥ ३ ॥

दूत उवाच
बाणमाह्वयते कृष्णः सङ्ग्रामार्थ महेश्वर ।
किं वाऽनिरुद्धमूषां च गृहीत्वा शरणं व्रज ॥ ४ ॥

रणे निमन्त्रितो यो हि न याति भयकातरः ।
परत्र नरकं याति सप्तभिः पितृभिः सह ॥ ५ ॥

दूतस्य वचनं श्रुत्वा सभामध्ये यथोचितम् ।
उवाच पार्वती देवी स्वयं शङ्करसन्निधौ ॥ ६ ॥

पार्वत्युवाच
गच्छ बाण महाभाग गृहीत्वा तव कन्यकाम् ।
सर्वस्वं यौतकं दत्त्वा श्रीकृष्णं शरणं व्रज ॥ ७ ॥

सर्वेषामीश्वरं बीजं दातारं सर्वसम्पदम् ।
वरं वरेप्यं शरणं कृपालुं भक्तवत्सलम् ॥ ८ ॥

पार्वतीवचनं श्रुत्वा तमूचुस्ते सुरेश्वराः ।
प्रशसंसुःसभामध्ये धन्यधन्येति सर्वदा ॥ ९ ॥

कोपाविष्टश्च बाणोऽयमुत्तस्थौ सहसाऽसुरः ।
सान्नाहिको धनुष्पाणिः प्रणम्य शङ्करं ययौ ॥ १० ॥

सर्वैर्निषिध्यमानश्च कम्पितो रक्तलोचनः ।
सान्नाहिकश्च दैत्यानां त्रिकोट्या च महाबलः ॥ ११ ॥

कुम्भाण्डः कूपकर्णश्च निकुम्भः कुम्भ एव च ।
सेनापतीश्वरश्चैते ययुः सान्नाहिकास्तथा ॥ १२ ॥

उन्मत्तभैरवश्चैव संहारभैरवस्तथा ।
असिताङ्गो भैरवश्च रुरुभैरव एव च ॥ १३ ॥

महाभैरवसञ्ज्ञश्च कालभैरव एव च ।
प्रचण्डभैरवश्चैव क्रोधभैरव एव च ॥ १४ ॥

प्रययुः शक्तिभिः सार्ध सर्वे सान्नाहिकाश्च ते ।
कालाग्गिरुद्रो भगवान्रुद्रैः सान्नाहिको ययौ ॥ १५ ॥

उग्रचण्डा प्रचण्डा च चण्डिका चण्डिनायिका ।
चण्डेश्वरी च चामुण्डा चण्डी चण्डकपालिका ॥ १६ ॥

अष्टौ च नायिकाः सर्वाः प्रययुः खर्पराविन्ताः ।
कोटरी रत्नयानस्था शोणितग्रामदेवता ॥ १७ ॥

प्रययौ सा प्रफुल्लास्या खड्गखर्परधारिणी ।
इन्द्राणी वैष्णवी शान्ता ब्रह्माणी ब्रह्मवादिनी ॥ १८ ॥

कौमारी नारसिंही च वाराही विकटाकृतिः ।
माहेश्वरी महामाया भैरवी भीमरूपिणी ॥ १९ ॥

अष्टौ च शक्तयः सर्वा रथस्थाः प्रययुर्मुदा ।
रत्नेन्द्रसारयानस्था प्रययौ भद्रकालिका ॥ २० ॥

रक्तवर्णा त्रिनयना जिह्वाललनभीषणा ।
शूलशक्तिगदाहस्ता खड्गखर्परधारिणी ॥ २१ ॥

प्रययौ शूलहस्तश्च वृषभस्थो महेश्वरः ।
स्कन्दश्च शिखियानस्थः शस्त्रपाणिर्धनुर्धरः ॥ २२ ॥

एवं च प्रययुः सर्वे गणेशं पार्वतीं विना ।
एभिर्युक्तं महादेवं दृष्ट्वा च भद्रकालिकाम् ॥ २३ ॥

प्रचक्रे चक्रपाणिश्च सम्भाषां च यथोचिताम् ।
बाणः शङ्कध्वनिं कृत्वा प्रणम्य पार्वतीश्वरम् ॥ २४ ॥

धनुर्दथार सगुणं दिव्यास्त्रेण नियोजितम् ।
बाणं समुद्यतं दृष्ट्वा सात्यकिः परवीरहा ॥ २५ ॥

निषिध्यमानस्तैः सर्वैः सन्नाही प्रययौ मुदा ।
बाणश्चिक्षेप दिव्यास्त्रमञ्जनं नाम नारद ॥ २६ ॥

अव्यर्थं ग्रीष्ममध्याहनमार्तण्डाभं सुतीक्ष्णकम् ।
दृष्टावाऽस्त्रं सात्यकिः साक्षात्किञ्चिन्नम्रो बभूव सः ॥ २७ ॥

किं वा न दग्धः प्रययौ नभोमध्यं सुदारुणम् ।
वह्निं चिक्षेप बाणश्च सात्यकिर्वारुणेन च ॥ २८ ॥

प्रज्वलन्तं तालमानं निर्वाणं च चकार सः ।
चिच्छेद वारुणं घोरं प्रजण्डं भीममुल्बणम् ॥ २९ ॥

चिच्छेद सात्यकिश्चैव पार्जन्येनावलीलया ।
चिक्षेप पवनं बाणः प्रचण्डं भीममुल्बणम् ॥ ३० ॥

चिच्छेद सात्यकिश्चैव पर्वताश्त्रेण लीलया ।
नारायणस्त्रं चिक्षेप बाणश्च रणमूर्धनि ॥ ३१ ॥

सात्यकिर्दण्डवद्भूमौ पपातार्जुनशिक्षया ।
माहेश्वरं प्रचिक्षेप बाणः शस्त्रविदां वरः ॥ ३२ ॥

सात्यकिर्वैष्णवास्त्रेण प्रविच्छेदावलीलया ।
ब्रह्मास्त्रं चापि चिक्षेप बाणश्च रणमूर्धनि ॥ ३३ ॥

क्षणं चकार निर्वाणं ब्रह्मास्त्रेण च सात्यकिः ।
नागास्त्रं चापि चिक्षेप बाणो रणविशारदः ॥ ३४ ॥

सात्यकिर्गारुडेनैव सञ्जहार क्षणेन च ।
जग्राह शूलमव्यर्थं शङ्करस्य सुदारुणम् ॥ ३५ ॥

तुष्टाव सात्यकिर्दुर्गा गले माल्यं बभूव ह ।
जग्राह धनुषा बाणो बाणं पाशुपतं तथा ॥ ३६ ॥

बाणं सबाणं जृम्भं च सात्यकिश्च चकार ह ।
बाणं तं जृम्भितं दृष्ट्वा कार्तिकेयो महाबलः ॥ ३७ ॥

अर्धचन्द्रं च चिक्षेप कामश्चिच्छेद लीलया ।
गदां चक्षेप च स्कन्दः प्रातः सूर्यसमप्रभाम् ॥ ३८ ॥

वैष्णवास्त्रेण कामश्च निर्वाणं च चकार सः ।
नारायणस्त्रं स्कन्दश्च प्राक्षिपच्च त्वरान्वितः ॥ ३९ ॥

पपात दण्डवद्भूमौ प्रद्युम्नः कृष्णशिक्षया ।
स्कन्दः शक्तिं च चिक्षेप प्रलयग्निसमप्रभाम् ॥ ४० ॥

कामो नारायणास्त्रेण निर्वाणं च चकार ताम् ।
ब्रह्मास्त्रं च प्रचिक्षेप कार्तिको रणमूर्धनि ॥ ४१ ॥

ब्रह्मास्त्रेणापि कामश्च निर्वाणं च चकार सः ।
जग्राह कार्तिकं कोपाद्दिव्यं पाशुपतं तदा ॥ ४२ ॥

निद्रास्त्रेणापि मदनो निद्रितं च चकार तम् ।
कार्तिकं निद्रितं दृष्ट्वा बाणं च जृम्भितं तथा ॥ ४३ ॥

कोपात्कामं च सरथं जग्राह भद्रकालिका ।
क्रोडे कृत्वा च बाणं च स्कन्दं च जगतां प्रसूः ॥ ४४ ॥

रणस्थलाच्च प्रययौ यत्रैव पार्वती सती ।
कार्तिकं बोधयामास बाणं सुस्थं चकार सा ॥ ४५ ॥

सहसासरथः कामो नासारन्ध्रेण वर्त्मना ।
बहिर्बभूव सन्त्रस्तः प्रययौ च रणस्थलम् ॥ ४६ ॥

दृष्ट्का कामं च सरथं जहसुर्यादवास्तदा ।
सर्वे शैवाश्च तत्रस्थाः शुष्ककण्ठा भयकुलाः ॥ ४७ ॥

अथ बाणः पुनः क्रुद्धो रथमारुह्य कोपतः ।
कार्तिकेयश्च भगवान्युद्धाय पुनरागतः ॥ ४८ ॥

बाणः पञ्च शरांश्चैव चिक्षेप रणमूर्धनि ।
अर्धचन्द्रेण चिच्छेद बलदेवो महाबलः ॥ ४९ ॥

रथं बभञ्ज बाणस्य लाङ्गलेन च लाङ्गली ।
जघन सूतमश्वांश्च मुसलेनावलीलया ॥ ५० ॥

कुर्वन्तमुद्यमं छेत्तुं हलिनं च महाबलः ।
कालाग्निरुद्रो भगवान्वारयामास लीलया ॥ ५१ ॥

रथं कालाग्निरुद्रस्य बभञ्ज लाङ्गली रुषा ।
हलेन सूतमश्वाश्च जधान रणमूर्धनि ॥ ५२ ॥

कालाग्निरुद्रः कोपेन चिक्षेप जवरमुल्वणम् ।
बभूवुर्यादवाः सर्वे ज्वराक्रान्ता हरिं विना ॥ ५३ ॥

तं दृष्ट्वा भगवान्कृष्णः ससर्ज वैष्णवं ज्वरम् ।
तं चिक्षेप ज्वरं हन्तुं माहेशं रणमूर्धनि ॥ ५४ ॥

बभूव ज्वरयोर्युद्धं मुहूर्तमतिदारुणम् ।
वैष्णवज्वरनिष्कान्तो रणमीर्ध्नि पपात सः ॥
परं बभूव निश्चेष्टस्तुष्टाव माधवं पुनः ॥ ५५ ॥

ज्वर उवाच
प्रणान्रक्ष जगन्नाथ भक्तानुग्रहविग्रह ।
त्वमात्मा पुरुषः पुर्णः सर्वत्र समता तव ॥ ५६ ॥

ज्वरस्य वचनं श्रुत्वा सञ्जहार स्वकं ज्वरम् ।
माहेश्वरो ज्वरो भीतो रणादेव हि निर्ययौ ॥ ५७ ॥

बाणश्च पुनरागत्य बाणानां च सहस्रकम् ।
चिक्षेप मन्त्रपूतं च प्रलयाग्निशिखोपमम् ॥ ५८ ॥

फाल्गुनः शरजालेन वारयामास लीलया ।
चिक्षेप शक्तिं बाणश्च ग्रीष्मसूर्यसमप्रभाम् ॥ ५९ ॥

चिच्छेद लीलया तां च सव्यसाची महाबलः ।
स जग्राह पाशुपतं शतसूर्यसमप्रभम् ॥ ६० ॥

अत्यर्थमतिघोरं च विश्वसंहारकारकम् ।तद्दृष्टा चक्रपाणिश्च चक्रं चिक्षेप दारुणम् ॥ ६१ ॥

हस्तानां च सहस्रं च सपाशुपतमुल्बणम् ।
चिच्छेद रणमध्ये च पपाताचलसिंहवत् ॥ ६२ ॥

शस्त्रं पाशुपतं चैव ययौ पशुपतेः करम् ।
अव्यर्थ दारुणं लोके प्रलयाग्निशिखोपमम् ॥ ६३ ॥

बाणरक्तसमूहेन बभूव च महानदः ।
बाणः पपात निश्चेष्टी व्यथितो हतचेतनः ॥ ६४ ॥

तत्राऽऽजगाम भगवान्महदेवो जगद्गुरुः ।
रुरोदाऽऽगत्य मोहेन बाणं कृत्वा स्ववक्षसि ॥ ६५ ॥

शिवाश्रुपतनेनैव सम्बभूव सरोवरम् ।
चेतनं कारयामास करुमासागरः प्रभुः ॥ ६६ ॥

बाणां गृहीत्वा प्रययौ यत्र देवो जनार्दनः ।
चक्रे पद्मार्चिते पादपद्मे बाणसमर्पणम् ॥ ६७ ॥

तुष्टाव जगतां नाथं भक्तेशं चन्द्रशेखलः ।
बलिना च स्ततं येन वेदोक्तेन च तेन च ॥ ६८ ॥

हरिर्मृत्युञ्जयं ज्ञानं ददौ बाणाय धीमते ।
करपद्मं ददौ गात्रे तं चकाराजरामरम् ॥ ६९ ॥

बाणः स्तोत्रेण तुष्टाव भक्त्या बलिकृतेन च ।
वरां कन्यां समानीय रत्नभूषणभूषिताम् ॥ ७० ॥

ब्रददौ हरये भक्त्या तत्रैव देवसंसदि ।
गजेन्द्राणां पञ्चलक्ष्मश्वानां तच्चतुर्गुणम् ॥ ७१ ॥

दासीनां च सहस्रं च रत्नभूषणभूषितम् ।
सहस्रं कामधेनूनां वत्सयुक्तं च सर्वदम् ॥ ७२ ॥

माणिक्यानां च मुक्तानां रत्नानां शतलक्षकम् ।
मणीन्द्राणां हीरकाणां शतलक्षं मनोहरम् ॥ ७३ ॥

जलभाजनपात्राणि सुवर्णनिर्मितानि च ।
महस्राणि ददौ तस्मै भक्तिनम्रात्मकन्धरः ॥ ७४ ॥

वराणि सूक्ष्मवस्त्राणि वह्निशुद्धांशुकानि च ।
ददौ बाणश्च मर्वाणि स्वभक्त्या शङ्कराज्ञया ॥ ७५ ॥

ताम्बूलानां मधनां च पूर्णपात्राणि नारद ।
सहस्राणि ददौ भक्त्या वराणि विविधानि च ॥ ७६ ॥

कन्यां समर्पयामास पादपद्मे हरेरपि ।
रुरोदोच्चैः स्वभक्त्या च परिहारं चकार सः ॥ ७७ ॥

कृष्णस्तस्मै वरं दत्त्वा वेदोक्तं च शुभाशिष्म् ।
शङ्करानुमतेनैव प्रययौ द्वारकां पुरीम् ॥ ७८ ॥

गत्वा कन्यां नवोढां तां बाणस्यापि महात्मनः ।
रुक्मिण्यै प्रददौ शीघ्रं देवक्यै च हरिः स्वयम् ॥ ७९ ॥

महोत्सवं मङ्गलं च कारयामास यत्नतः ।
ब्राह्मणान्भोजयामास ब्राह्मणेभ्यो धनं ददौ ॥ ८० ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धं नाम
विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥