अथाष्टादशाधिकशततमोऽध्यायः
नारायण उवाच
गणेशं बोधयित्वा तु शम्भुरम्यन्तरं ययौ ।
तत्र सिंहासने रम्ये दुर्गा दुर्गतिनाशिनी ॥ १ ॥
भैरवी भद्रकाली च उग्रचण्डा च कोटरी ।
ताः समुत्थाय सहसा प्रणेमुर्जगदीश्वम् ॥ २ ॥
तत्राऽऽययौ गणेशश्च कार्तिकेयश्च वीर्यवान् ।
बाणश्च वीरभद्रश्च स्वयं नन्दी सुनन्दकः ॥ ३ ॥
महाकालो महामन्त्री ह्यथाष्टौं भैरवास्तथा ।
सिद्धेन्द्राश्चापि योगीन्द्रा रुद्राश्चैकादशैव ते ॥ ४ ॥
एतस्मिन्नन्तरे तत्र मणिभद्रः समाययौ ।
सिहद्वारे स्वयं द्वारी तभीश्वरमुवाच सः ॥ ५ ॥
मणिभद्र उवाच
असङ्ख्यानि च सैन्यानि यादवानां महेश्वर ।
बलदेवश्च प्रद्युम्नः साम्बश्च सात्यकिस्तथा ॥ ६ ॥
राजा महोग्रसेनश्च भीमश्च स्वयमर्जुनः ।
अक्रूनश्चोद्यवश्चैव जयन्तः शक्रनन्दनः ॥ ७ ॥
रत्नेनद्रसारनिर्माणरथेन्द्रे सुमनोहरे ।
विधेर्विधाता भगवाञ्छ्रीकृष्णः परमेश्वरः ॥ ८ ॥
सप्तभिः पार्षदैगोम्पैः सेवितः श्वेतयामरैः ।
कन्दर्पकोटिलीलाभो वनमालाविभूषितः ॥ ९ ॥
दधार चक्रमतुलं कोटिसूर्यसमप्रभम् ।
गदां कौमोदकीं शूलमव्यर्थं सन्निधाय च ॥ १० ॥
रथमध्ये महाशङ्खं विश्वसंहारकारणम् ।
महारथानां लक्षैश्च रथानां च त्रिकोटिभिः ॥ ११ ॥
त्रिकोटिभिर्गजेन्द्राणां मल्लानां च त्रिकोटिमिः ।
शतकोटिभिरश्वानां चर्मिणां तच्चतुर्गुणैः ॥ १२ ॥
खड्गिनां तत्सप्तगुणैर्द्विगुणैस्तद्धनुष्मताम् ।
एभिः सार्ध च त्वरितमाययौ शोणितं पुरम् ॥ १३ ॥
परितो वेष्टयामास लङ्कां दाशरथिर्यथा ।
सहस्रतालमानां च ज्वलदग्निशिखोज्ज्वलाम् ॥ १४ ॥
ऊर्ध्वे च परिखायुक्तां दुर्लङ्ध्यामसुरैः सुरैः ।
स्वर्गगङ्गाम्बुराशीनां समूहैर्वृष्टिभिस्तथा ॥ १५ ॥
पक्षीन्द्रो गरुडः साक्षान्निर्वाणं च चकार सः ।
मणीन्द्रसारनिर्माणं प्राकाराभ्रंलिहं पुरम् ॥ १६ ॥
बभञ्ज लक्षं मल्लानां बलदेवश्च लाङ्गलैः ।
उद्यानानां त्रिलक्षं च चकारोत्पाटनं प्रभो ॥ १७ ॥
प्रविवेश महाद्वारं द्वारपालान्निपत्य च ।
एवं श्रुत्वा महादेवश्चोवाच सुरसंसदि ॥ १८ ॥
पार्वती भद्रकाली च स्कन्दं गणपतिं तथा ।
अष्टौ च भैरवांश्चैव रुद्राश्च वीरभद्रकम्
महाकालं नन्दिनं च सर्वान्सेनापतीन्नव ॥ १९ ॥
महादेव उवाच
गोलोकनाथो भगवांश्चक्रपाणिः समागतः ।
विश्वौघं भङ्क्तुमीशो यः क्षणेन नगरं च किम् ॥ २० ॥
सर्वोपायैश्च सर्वे ते बाणं रक्षन्तु यत्नतः ।
बाणो गच्छतु सङ्ग्रामं स्मृत्वा लम्बोदरं परम् ॥ २१ ॥
बाणस्य दक्षिणो स्कन्दः पुरतश्च गणेश्वरः ।
वामे च भैरवा रुद्राः स्वयं नन्दी सहारथः ॥ २२ ॥
महाकालो वीरभद्रो ये चान्यो सैनिकास्तथा ।
ऊर्ध्वे दुर्गा भद्रकाली ह्यग्रण्डा च कोटरी ॥ २३ ॥
बाणं रक्ष महाभागे दुर्गे दुर्गतिनाशिनि ।
कृष्णस्य भवती शक्तिस्तेन नारायणी स्मृता ॥ २४ ॥
विष्णुमाये जगन्मातः सर्वमङ्गलमङ्गले ।
अव्यर्थाच्चक्रसारच्च रक्ष बाणं सुदर्शनात् ॥ २५ ॥
बाणः प्रियो मे सर्वेम्यो गणेशात्कार्तिकादपि ।
बाणमूर्ध्नि करं धेहि पादाब्जरजसा सह ॥ २६ ॥
शिवस्य वचनं श्रुत्वा दुर्गा दुर्गतिनाशिनी ।
प्रहस्योवाच मधुरं याथार्थ्यं समयोचितम् ॥ २७ ॥
पार्वत्युवाच
मणिरत्नादिकं यद्यन्मुक्तामाणिक्यहीरकम् ।
सर्वस्वं कन्यकामूषां रत्नभूषणभूषिताम् ॥ २८ ॥
रत्नभूषणभूषाढ्यमनिरुद्धं परं वरम् ।
पुरस्कृत्य देहि बाण कृष्णाय परमात्मने ॥ २९ ॥
राज्यं कुरुष्व निर्विघ्नं किं युद्धमात्मना सह ।
यस्मिन्गते गताः प्राणाः क जीवश्चैन्द्रियैः सह ।
शक्तिश्चाहं मनो ब्रह्मा स्वयं ज्ञानात्मकं शिवः ॥ ३० ॥
सद्यः पतति देहश्च शिवं त्यक्त्वा शवो भवेत् ।
को वा तिष्ठति सङ्ग्रामे चक्रस्य तेजसा शिव ॥ ३१ ॥
नाऽऽत्माऽऽकाशो बाणविद्धो युद्धं किं स्वात्मना सह ।
परमात्मा च सर्वेषां भक्तानुग्रहविग्रहः ॥ ३२ ॥
नित्यः सत्यो हि कृष्णश्च परिबूर्णतमः प्रभुः ।
गणेशः कार्तिकेयश्च भवानपि तयोः परः ॥ ३३ ॥
किङ्करेषु प्रियो बाणो न हि कृष्णात्परः प्रियः ।
वैकुण्ठेऽहं महालक्ष्मीर्गोलोके राधिका स्वयम् ॥ ३४ ॥
शिवाऽहं शिवलोकेऽपि ब्रह्मलोके सरस्वती ।
अहं निहत्य दैत्यांश्च दक्षकन्या सती पुरा ॥ ३५ ॥
त्वन्निन्दया त्यक्तदेहा सा चाहं शैलकन्यका ।
रक्तबीजस्य युद्धे च कानी च मूर्तिभेदतः ॥ ३६ ॥
सावित्री वेदमाताऽहं सीता जनककन्यका ।
रुक्मिणी द्वारवत्यां च भारते भीष्मकन्यका ॥ ३७ ॥
सुदाम्नः शापतो दैवाद्वृषभानसुताऽधुना ।
धर्मपत्नी च कृष्णस्य पुण्ये वृन्दावने वने ॥ ३८ ॥
भगवन्तं च सर्वज्ञं त्वां शिवं च सनातम् ।
किं वाऽहं कथयामीति कर्तव्यं समयोचितम् ॥ ३९ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धेऽष्टाद-
शाधिकशततमोऽध्यायः ॥ ११८ ॥