अथ सप्तदशाधिकशततमोऽध्यायः
नारायण उवाच
गणेशस्तु शिवस्थानं गत्वा नत्वा महेश्वरम् ।
सर्व विज्ञापयामास क्रमेण च पृथक्पृथक् ॥ १ ॥
बाणानिरुद्धयोर्युद्धं सुभद्रनिधनं तथा ।
स्कन्दानिरुद्धयोर्युद्धमनिरुद्धस्य विक्रमम् ॥ २ ॥
गणेशवचनं श्रुत्वा प्रहस्य भगवान्भवः ।
उवाच श्लक्ष्णया वाचा सुगुप्तं वेदसम्मतम् ॥ ३ ॥
महादेव उवाच
गणेश्वर महाभाग श्रूयतां वचनं मम ।
हितं तथ्यं नीतिसारं परिणामसुखावहम् ॥ ४ ॥
असङ्ख्यविश्वसङ्घं च सर्व कृष्णात्मजं सुतम् ।
कृष्णं जानीहि यत्कार्यं कारणानां च कारणम् ॥ ५ ॥
ब्रह्मादितृणपर्यन्तं जगत्मर्व गणेश्वर ।
निबोध सत्यं कृष्णं च भगवन्तं सनातनम् ॥ ६ ॥
गोलोके द्विभुजं शान्तं राधाकान्तं मनोहरम् ।
शिशुरूपं गोपवेषं गोपवेषं परिपूर्णतमं प्रभुम् ॥ ७ ॥
गोपीभिर्गोपनिकरैः सहितं कामधेनुभिः ।
पुण्ये वृन्दावने रम्ये सुन्दरे रासमण्डले ॥ ८ ॥
चरन्तं मुरलीहस्तं ब्रह्मेशशेषवन्दितम् ।
शतशृङ्गै च शैलेशे वटमूले निराकुले ॥ ९ ॥
गोष्ठे भाण्डीरनिकटे निर्मले विरजातटे ।
नवीननीरदश्यामं शोभितं पीतवाससा ॥ १० ॥
यथा नवं घनौघं च सौदामिन्था विराजितम् ।
आविर्भावश्च तेषां वै गोलोके रासमण्डले ॥ ११ ॥
तावन्तो गोकुले रम्ये पुण्ये वृन्दावने वने ।
सर्वे चांशकलाः पुंसःकृष्णस्तु भगवान्स्वयम् ॥ १२ ॥
परिपूर्णतमः कामो ब्रह्मशापात्स्वविस्मृतः ।
तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः ॥ १३ ॥
मया प्रस्थापितः स्कन्दो महायुद्धे सुदारुणे ।
मृतो बाणश्च सङ्ग्रामे तेन स्कन्देन रक्षितः ॥ १४ ॥
स्कन्दानिरुद्धयोर्युद्धे समत्वं तु गणेश्वर ।
अष्टौ च भैरवाः सर्वे रुद्राश्चैकादशैव ते ॥ १५ ॥
अष्टौ च वसवश्चैते देवाः शक्रादयस्तथा ।
तथैव द्वादशादित्याः सर्वे दैत्येश्वरास्तथा ॥ १६ ॥
देवानामग्रणीः स्कन्दो बाणश्च सगणस्तथा ।
सर्वे ते चानिरुद्धं च सङ्ग्रामे जेतुमक्षमाः ॥ १७ ॥
अनिरुद्धः स्वयं ब्रह्मा प्रद्युम्नः काम एव च ।
बलदेवः स्वयं शेषः कृष्णश्च प्रकृतेः परः ॥ १८ ॥
एतत्ते कथितं सर्वं बाणं रक्ष गणेश्वर ।
भवाञ्शुभस्वरूपश्च विघ्नखण्डनकारकः ॥ १९ ॥
आरादायास्यति हरिर्गृहीत्वा च सुदर्शनम् ।
अव्यर्थमस्त्रप्रवरं सूर्यकोटिसमप्रभम् ॥ २० ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo बाणयुद्धे
शिवलम्बोदरसंo सप्तदशाधिकशाततमोऽध्यायः ॥ ११७ ॥