११५

अथ पञ्चदशाधिकशततमोऽध्यायः
नारायण उवाच
अथ भीता रक्षकास्ते समूतुर्बाणमीश्वरम् ।
स्कन्दं गणेशं दुर्गां च दण्डवत्प्रणिपत्य च ॥ १ ॥

रक्षका ऊचुः
अहो दुष्टश्च कालोऽयमतीव दुरतिक्रमः ।
स्वतन्त्रा बालिका प्रौढा पतिमिच्छति साम्प्रतम् ॥ २ ॥

असङ्गसङ्गमं नाथ साधूनां दुःखकारणम् ।
संसर्गजा गुणा दोषा भवन्ति सततं नृणाम् ॥ ३ ॥
चित्रलेखा स्वयं दूती समानीय परं वरम् ।
रणशूरं महावीरं नृपेन्द्रं च महारथम् ॥ ४ ॥

युवानं व्याधिहीनं च कन्दर्पादपि सुन्दरम् ।
सम्भोगं कारयामास बुबुधे न दिवानिशम् ॥ ५ ॥

साम्प्रतं तव कन्या साऽप्यूषागर्भवती सती ।
कुलजा कुलयोश्चैव तप्ताङ्गारस्वरूपिणी ॥ ६ ॥

दौहित्रो वाऽपि दौहित्री बभुव साम्प्रतं तव।
कन्यां पश्य महाप्रौढां नगरीं नागरान्विताम् ॥ ७ ॥

नखविक्षतसर्वाङ्गीं वराधीनां च चञ्चलाम् ।
पुंसश्च सङ्गिरीं शश्वद्रहस्ये रतिसङ्गिनीम् ॥ ८ ॥

सस्मितां सकटाक्षां च चञ्चलेक्षणवीक्षताम् ।
एवं श्रुत्वा लज्जितश्च बाणस्तत्र चुकोप ह ॥ ९ ॥

युद्धाय च मतिं चक्रे वारितः शभुना भृशम् ।
वारितश्च गणेशेन स्कन्देन शिवया तथा ॥ १० ॥

भैरव्या भद्रकाल्या च योगिनीभिश्च सन्ततम् ।
अष्टभिर्भैरवैश्चैव रुद्रैरेकादशात्मकैः ॥ ११ ॥

भूतैः प्रेतैश्च कूष्माण्डैर्वेतालैर्ब्रह्मराक्षसैः ।
योसीन्द्रैरपि सिद्धेन्द्रै रुद्रैश्चण्डादिभिस्तथा ॥ १२ ॥

कोटर्या प्रामदेव्या च यथा मात्रा हिताय च ।
उवाच शङ्करो बाणं मूढं पण्डितमानिनम्
हितं सत्यं नीतिशास्त्रं परिणामसुखावहम् ॥ १३ ॥

महादेव उवाच
शृणु बाण प्रवक्ष्यामि कथामेतां पुरातनीम् ।
भुवो भारावतरणे भारते स्वयमीश्वरः ॥ १४ ॥

निहत्य सर्वान्राजेन्द्रान्द्वारकायां विराजते ।
यस्य लोमसु विश्वानि तस्य वासः सदीश्वरः ॥ १५ ॥

वासुदेव इति ख्यातः कथ्यते तेन कोविदैः ।
धातुर्विधाता भगवांश्चक्रपाणिः स्वयं भुवि ॥ १६ ॥

ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः ।
निर्गुणश्च निरीहश्च भक्तानुग्रहविग्रहः ॥ १७ ॥

परं ब्रह्म परं धाम परमात्मा च देहिनः ।
यस्मिन्गते शवो जीवो सङ्ग्रामस्तेन सम्भवेत् ॥ १८ ॥

शस्त्रविद्धो महाकाशो यथा मूढ दिशस्तथा ।
तथाऽऽत्मा च निराकारो देही च ध्यानहेतुना ॥ १९ ॥

तस्य पुत्रोऽनिरुद्धश्च महाबलपराक्रमः ।
त्रैलोक्यमपि संहर्तुं क्षणेन च क्षमः स्वयम् ॥ २० ॥

सर्वे वेवाश्च दैत्याश्च बलवन्तो महारथाः ।
ते सर्वे चानिरुद्धस्य कलां नार्हन्ति षोडशीम् ॥ २१ ॥

ययोरेव समं वित्तं ययोरेव समं बलम् ।
तयोर्विवाहो मैत्री च न तु पुष्टविपुष्टयोः ॥ २२ ॥

बलिः पिता ते दैत्यानां सारभूतो महारथः ।
क्षणेन येन नीतश्च सुतलं स हरेः कला ॥ २३ ॥

सर्वे चांशकलाः पुंसः परिपूर्णतमस्य च ।
वृन्दावनेश्वरस्यापि कृष्णस्य परमात्मनः ॥ २४ ॥

पार्वत्युवाच
ध्यायते ध्याननिष्ठश्च हृत्पद्मे च दिवानिश्म् ।
ब्रह्मा महेशः मेषश्च भगवन्तं सनातनम् ॥ २५ ॥

दिनेशश्च गणेशश्च योगीन्द्राणां गुरोर्गुरुः ।
ध्यायते परमात्मानं भगवन्तं सनातनम् ॥ २६ ॥

सनत्कुमारः कपिलो नरो नारायणस्तथा ।
ध्यायते हृदयाम्भोजे भगवन्तं सo ॥ २७ ॥

मनवश्च मुनीन्द्राश्च सिद्धेन्द्रा योगिनां वराः ।
ध्यानासाध्यं च ध्यायन्ते भगवन्तं सo ॥ २८ ॥

सर्वादिं सर्वबीजं च सर्वेशं च परात्परम् ।
ध्यायन्ते ज्ञानिनः सर्वे भगवन्तं सo ॥ २९ ॥

गणेश उवाच
अभाग्यं च बलेश्चापि वैष्णवस्य महात्मनः ।
मूढोऽयमीदृशः पुत्रः प्रह्लादस्य च धीमतः ॥ ३० ॥

स्कन्द उवाच
अये भ्रातर्न श्रुता च हिरण्यकशिपोः कथा ।
हिरण्याक्षस्य च मधोः कैटभस्य महात्मनः ॥ ३१ ॥

पूर्वजास्तेऽपि ते दैत्या महाबलपराक्रमाः ।
क्रमेण विष्णुना नीता लीलया यमसादनम् ॥ ३२ ॥

भगवान्यस्य संहर्ता स्वयं नारायणः प्रभुः ।
तस्य को रक्षिता भ्रातर्निवर्तस्व शुभायच ॥ ३३ ॥

तेषां च वचनं श्रुत्वा तानुवाचासुरेश्वरः ।
कोपरक्तास्यनयनो धनुष्पाणिर्यथाऽन्तकः ॥ ३४ ॥

बाण उवाच
शृणु मातः प्रवक्ष्यामि शृणु तात महेश्वर ।
शृणु भ्रातर्गणपते शृणु भ्रातश्च कार्तिक ॥ ३५ ॥

शुभशुभं प्राक्तनेन प्राणिनां कर्मिणां तथा ।
कृतकर्मातिरिक्तं च कार्य केषां च वर्तते ॥ ३६ ॥

नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ ३७ ॥

यस्माच्च यस्य निर्वाणं विधात्रा लिखितं पुरा ।
तदेव नित्यं सत्यं च निषेकः केन वार्यते ॥ ३८ ॥

सङ्ग्रामे कातरो यो हि निष्फलं तस्य जीवनम् ।
जयी यशस्च लभते मृतः स्वर्गं च गच्छति ॥ ३९ ॥

प्रविश्य कन्यां गृह्णाति नगरं शिवरक्षितम् ।
पार्वत्या च गणेशेन युद्धेन बलिना तथा ॥ ४० ॥

को वा गृह्णाति कन्यां च कस्य वा जीवितस्य च ।
सगर्भा तव कन्येति सभायां रक्षको वदेत् ॥ ४१ ॥

इति मे वज्रतुल्यं च श्रुतिकौटं परं वचः ।
अतोऽनिरुद्वं हत्वा च घातयिष्यामि कन्यकाम्
अन्यथा ज्वलदग्नौ च त्यक्ष्यामि च कलेवरम् ॥ ४२ ॥

कोटर्युवाच
शृणु वत्स प्रवक्ष्यामि माताऽहं तेऽपि धर्मतः ।
तुरन्तेनापि पृत्रेण पित्रोर्दुःर्ख पदे पदे ॥ ४३ ॥

कन्या परगृहीता साऽप्यन्यस्मै दातुमक्षमा ।
श्रीकृष्णस्यापि पौत्राय प्रद्युम्नस्य सुताय च ॥ ४४ ॥

अनिरुद्धाय महते स्वेच्छया देहि कन्यकाम् ।
पूतोऽसि भारते वर्षे सप्तभिः पितृभिः सह ॥ ४५ ॥

यौतुकं देहि सर्वस्वं यशसे महसे भुवि ।
अन्यथा रणमध्ये च त्वां हनिष्यति माधवः ॥ ४६ ॥

सुदशन्नेन चकेण को वा त्वां रक्षितुं क्षमः ।
कोटरीवचनं श्रुत्वा चुकोप दैत्यपुङ्गवः ॥ ४७ ॥

प्रययौ रथमारुह्य यत्र पौत्रो हरेर्मुने ।
स्कन्दः सेनापतिर्भूत्वा प्रययौ शङ्कराज्ञया ॥ ४८ ॥

बाणः स्वस्त्ययनं चक्रे गणेशश्च शिवः स्वयम् ।
बाणं शुभाशिषं चक्रे पार्वती कोटरी तथा ॥ ४९ ॥

अष्टौ च भैरवाश्चैव रुद्राश्चैकादशैव ते ।
सर्वे युद्धाय हन्तारो बभूवुः शस्त्रपाणयः ॥ ५० ॥

एतस्मिन्नन्तरे दूतोऽप्यनिरुद्धमुवाच ह ।
पार्वत्या प्रेरितश्चैव बाणपत्न्या च सत्वरम् ॥ ५१ ॥

दूत उवाच
अनिरुद्धोत्तिष्ठ भद्रं पार्वतीवचनं शृणु ।
भव सान्नाहिको वत्स कुरु युद्धं बहिर्भव ॥ ५२ ॥

भीतोषा रुदती त्रस्ता सस्मार पार्वतीं सतीम् ।
रक्ष रक्ष महामाये मत्प्रणेश्वरमीप्सितम् ॥ ५३ ॥

अभेयेऽप्यभयं देहि सङ्ग्रामे घोरदारुणे ।
त्वमेव जगतां माता स्नेहस्ते सर्वतः समः ॥ ५४ ॥

अथानिरुद्धः सन्नाही शस्त्रपाणिर्बभूव ह ।
ऊषादत्तं रथं प्राप्य चकाराऽऽरोहणं मुदा ॥ ५५ ॥

बहिः सम्भूय शिबिराद्ददर्श बाणमीश्वरः ।
सान्नाहिकं शस्त्रपाणिं रक्तास्यलोचनं परम् ॥ ५६ ॥

दृष्ट्वाऽनिरुद्धं बाणश्च तमुवाच रुषाऽन्वितः ।
घोरसङ्ग्राममध्ये च विषोक्तिं प्रज्वलन्निव ॥ ५७ ॥

बाण उवाच
अये वीर महादुष्ट नीतिशास्त्रविवर्जित ।
चन्द्र वंशकुलाङ्गार पुण्यक्षेत्रेऽयशस्कर ॥ ५८ ॥

पिता ते शम्बरं हत्वा जग्राह तस्य कामिनीम् ।
ततो जातो भवनेव निरोधं स्वकुलक्षमम् ॥ ५९ ॥

पितामहो वासुदेवो मथुरायां च क्षत्रियः ।
गोकुले वैश्यपुत्रश्च नाम्ना च नन्दनन्दनः ॥ ६० ॥

वृन्दावने च गोपस्य नन्दस्य पशुरक्षकः ।
साक्षाज्जारश्च गोपीनां दुष्टः परमलम्पटः ॥ ६१ ॥

जघान पूतनां सद्यो नारीघाती ह्यधार्मिकः ।
आगत्य मथुरां कुब्जां जघान मैथुनेन च ॥ ६२ ॥

दुर्बलं नरकं हत्वा स्त्रीसमूहं मनोहरम् ।
जग्राह योनिलुब्धश्च स्वपुत्रमतिनिष्ठुरः ॥ ६३ ॥

भीष्मकं मानवं जित्वा तत्पुत्रं चापि दुर्बलम् ।
जग्राह कन्यकां तस्य देवयोग्यां च रुक्मिणीम् ॥ ६४ ॥

सत्राजितः सूर्यभृत्यो देवात्प्राप मणीश्वरम् ।
घातयित्वा ह्युपायेन जग्राह मणिकन्यकाम् ॥ ६५ ॥

कुरुपाण्डवयुद्धं च कारयित्वा च दारुणम् ।
युधिष्ठिरस्य यज्ञे च शिशुपालं जघान सः ॥ ६६ ॥

दन्तवक्त्रं च शाल्बं च जरासन्धं च दारुणः ।
सञ्जहार भुवो भूपसमूहमतिदारुणम् ॥ ६७ ॥

उपायान्नरकं हत्वा सर्वस्वं तज्जहार सः ।
दुर्बलो राजभीतश्चसमुद्रं शरणं गतः ॥ ६८ ॥

जित्वा च भ्रातरं शक्रं भार्याया वचनेन च ।
जग्राह पारिजातं च पुष्पं च स्वर्गदुर्लभम् ॥ ६९ ॥

कंसं निहत्याधर्मिष्ठो भ्रातरं मातुरेव च ।
जग्राह तस्य सर्वस्वं परं किं कथयामि ते ॥ ७० ॥

जत्वा च भल्लुकं युद्धे जग्राह तस्य कन्यकाम् ।
तत्पितुर्भगिनी कुन्ती चतुर्णां कामिनी भुवि ॥ ७१ ॥

द्रौपदी भ्रातृपत्नी च पञ्चानां कामिनी तथा ।
गोष्ठीनो योनिलुब्धश्च शश्वत्परमलम्पटः ॥ ७२ ॥

तज्ज्येष्ठो बरदेवश्च शश्वत्पिबति वारुणीम् ।
यमुनां भ्रातृपत्नीं च करोत्याह्वानमीप्सितम् ॥ ७३ ॥

जहार भगिनीं तस्य कौःतेयः शक्रनन्दनः ।
सुभद्रां मातुलसुतां सन्निबोध कुलक्रमम् ॥ ७४ ॥

बाणस्य वचनं श्रुत्वा चुकोप कामनन्दनः ।
उवाच परमार्थं च योग्यं प्रत्युत्तरं मुने ॥ ७५ ॥

अनिरुद्ध उवाच
पिता मे कामदेवश्च ब्रह्मपुत्रः पुरा शुचिः ।
यस्यास्त्रेण वशीभूतं त्रैलोक्यं सततं शृणु ॥ ७६ ॥

शिवकोपानलेनैव भस्मीभूतः स्वकर्मतः ।
कृष्णस्य पुत्रोऽप्यधुना सर्वेषां परमात्मनः ॥ ७७ ॥

पतिव्रता रतिर्माता पतिशोकेन साम्प्रतम् ।
शम्बरस्य गृहे तस्थौ हृता तेन बलेन च ॥ ७८ ॥

छायां मायावतीं दत्त्वा मायया शयनेन च ।
रतिं स्वधर्म संरक्ष्य धर्मसाक्षी च तद्गृहे ॥ ७९ ॥

निहत्य शम्बरं शत्रुं गृहीत्वा स्वप्रियां सतीम् ।
आजगाम द्वारकां च चन्द्रसुर्यौ च साक्षिणौ ॥ ८० ॥

पितामहं वासुदेवं त्वं किं जानामि मूढवत् ।
यं च सन्तोन जानन्ति वेदाश्चत्वार एव च ॥ ८१ ॥

वासुः सर्वनिवासश्च विश्वानि यस्य लोमसु ।
तस्य देवः परं ब्रह्म वासुदेव इति स्मृतः ॥ ८२ ॥

शङ्करं पृच्छ साक्षाच्च यस्य भृत्योऽधुना भवान् ।
कृष्णभृत्यस्य च बलेः पुत्रोऽसि किङ्करात्मजः ॥ ८३ ॥

गोकुले वैश्यपुत्रत्वं ब्रूहि त्वं ज्ञानदुर्बल ।
भोजनं वेदविहितं शश्वत्क्षत्त्रियवैश्ययोः ॥ ८४ ॥

द्रोणः प्रजापतिः श्रेष्ठा धरा तस्य प्रिया सती ।
पुत्रं च तपसा लेभे परमात्मानमीश्वरम् ॥ ८५ ॥

द्रोणो नन्दो वैश्यराजो यशोदा सा धरा सती ।
वृषभानसुता राधा सुदाम्नः शापकारणात् ॥ ८६ ॥

त्रिंशत्कोटिं च गोपीनां गृहीत्वा भर्तुराज्ञया ।
पुण्यं च भारतं क्षेत्रं गोलोकादाजगामसा ॥ ८७ ॥

ताभिः सार्ध स रेमे च स्वपत्नीभिर्मुदाऽन्वितः ।
पाणिं जग्राह राधायाः स्वयं ब्रह्मा पुरोहितः ॥ ८८ ॥

गोपकोटिश्च गोलोकादाजगाम् मृदाऽन्विता ।
तेजसा हरितुल्यास्ते पार्षदप्रवरा हरेः ॥ ८९ ॥

गोरक्षणं हरेरेव गोपवेषस्य चाऽऽत्मनः ।
गोपानां शिशुरक्षार्थं मायेशस्यापि मायया ॥ ९० ॥

पूतना बलिकन्या च भगिनी च तवासुर ।
दृष्ट्वा च वामनं विन्ध्या चकार पुत्रमानसम् ॥ ९१ ॥

एवम्भूतो यदि मम पुत्रो भवति साम्प्रतम् ।
स्तनं ददामि तनयं कृत्वा वक्षसि सुन्दरम् ॥ ९२ ॥

तस्याःपूर्णं मानसं च चकार भगवान्प्रभुः ।
स्तनं दत्त्वा च गोलोकं ययौ सा रत्नयानतः ॥ ९३ ॥

कुब्जा सा भगिनी पूर्वं रावणस्य दुरात्मनः ।
श्रीरामं चकमे कामान्नाम्ना शूर्पणखा सती ॥ ९४ ॥

नासां चिच्छेद तस्याश्च लक्ष्मणो धार्मिकेश्वरः ।
तपसा च वरं लेभे ब्रह्मणः प्रियमीश्वरम् ॥ ९५ ॥

तेन पुण्येन तंलब्ध्वा गोलोकं सा जगाम ह ।
गोपी बभूव गोलोके कृष्णस्याऽऽलिङ्गनेन च ॥ ९६ ॥

नरको हरिवध्यश्च स्वपूर्वप्राक्तनेन च ।
पाणिं जग्राह कन्यानां साक्षिणौ शशिभास्करौ ॥ ९७ ॥

भीष्मकन्या महालक्ष्मीः शीकृष्णस्य प्रिया सती ।
वैकुण्ठादागता साध्वी ब्रह्मणोऽनृमतेन च ॥ ९८ ॥

सत्राजितस्य कन्या सा सत्यभामा वसुन्धर ।
ददौ कृष्णाय राजा स तं मणिं यौतुकेन च ॥ ९९ ॥

भुवो भारावतरणहेतुना गमनं हरेः ।
सञ्जहार भुवो भारं कुरुपाण्डवयुद्धतः ॥ १०० ॥

शिशुपालो दन्तवक्त्रो जयो विजय एव च ।
द्वारिणौ द्वारषट्के च वैकुण्ठे श्रीहरेरपि ॥ १०१ ॥

कुमारशापात्पतितौ प्राप्य जन्मत्रयं ध्रुवम् ।
हिरण्यकशिपुश्चैव तवैव पूर्वपूरुषः ॥ १०२ ॥

तस्य भ्राता हिरण्याक्षस्तेनैव वरुणो जितः ।
हरिर्नृसिंहरूपेण तं जघानावलीलया ॥ १०३ ॥

सूकरेण हतोऽन्यश्च पूर्वजन्मकथां शृणु ।
द्वितीये जन्मनि पुरा रावणः कुम्भकर्णकः ॥ १०४ ॥

श्रीरामेण हतौ तौ द्वौ शेषजन्म कलौ तयोः ।
श्रीकृष्णेन हतौ तौ द्वौ धर्मपुत्रावुभौ तथा ॥ १०५ ॥

जरासन्धश्च शाल्वश्च दुरात्मा कंस एव च ।
प्राक्तनात्तस्य वध्यास्ते भुवो भारजिहीर्षया ॥ १०६ ॥

मान्धातुः सुतमध्ये च यवनश्चापि प्राक्तनात् ।
लक्ष्मीश्वरस्य कृष्णस्य धनेन किं प्रयोजनमा ॥ १०७ ॥

प्रतिज्ञया च सत्यायाः पुण्यकव्रतकारणात् ।
पारिजातं समनीय चकार स्वात्मनो व्रतम् ॥ १०८ ॥

स्वयं जाम्बवती देवी दुर्गांशा भल्लुकात्मजा ।
पाणिं जग्राह तस्याश्च तपसा भारते हरिः ॥ १०९ ॥

कुन्त्याश्च क्षेत्रजाः पुत्राः केवलं भर्तुराज्ञया ।
कलौ निषिद्धं त्रियुगे प्रसिद्धं पलपैतृकम् ॥ ११० ॥

युधिष्ठिरो धर्मपुत्रो भीमश्च पवनात्मजः ।
महेन्द्रपुत्रो धर्मिष्ठः फाल्गुनो विजयी भुवि ॥ १११ ॥

यस्मै पाशुपतं शम्भुः प्रददौ च स्वयं पुरा ।
अश्वमेधं गवालम्भं सन्न्यासं परपैतृकम् ॥ ११२ ॥

देवरेण सुतोत्पतिं कलौ पञ्च नित्यशः ।
द्रौपद्याः पञ्च भर्तारः शङ्करस्य वरेण च ॥ ११३ ॥

बलदेवः पुष्पमधु पूतं पिबति नित्यशः ।
चकार यमुनाह्वानं स्नानार्थं धार्मिकः शुचिः ॥ ११४ ॥

सुभद्रां च ददौ कृष्णः फाल्गुनाय महात्मने ।
कन्यकां मातुलानां च दाक्षिणात्यः परिग्रहः ॥ ११५ ॥

देशेष्वन्येषु दोषोऽयमित्याह कमलोद्भवः ॥ ११६ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo वाणानिरुद्धसंo
पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥