११४

अथ चतुर्दशाधिकशततमोऽध्यायः
नारायण उवाच
कृष्णपुत्रश्च प्रद्युम्नो महाबलपराक्रमः ।
तत्पुत्रोऽप्यनिरुद्धश्च विधातुरंश एव च ॥ १ ॥

एकदाऽसावनिरुद्धो नवयौवनसंयुतः ।
सुप्तो रहसि पर्यङ्के पुष्पचन्दनचर्चिते ॥ २ ॥

स्वप्ने ददर्श युवतीं पुष्णोद्याने सुपुष्पिते ।
सुगन्धिपुष्पतल्पे च स्निग्धचन्दनचर्चिते ॥ ३ ॥

शयानां सुस्मितां रम्यां नवयौवनसंयुताम् ।
अमूल्यरत्ननिर्माणभूषणेन विभूषिताम् ॥ ४ ॥

चारुकेयूरवलयशङ्खकङ्कणशोभिताम् ।
मणिकुण्डलयुग्मेन गण्डस्थलविराजिताम् ॥ ५ ॥

अतीव सूक्ष्मवसनां क्वणन्मञजीररञ्जिताम् ।
पक्वबिम्बाधरोष्ठीं च शरत्कमललोचनाम् ॥ ६ ॥

शरत्पद्मप्रभामुष्टकोटीन्दुनिन्दिताननाम् ।
मुक्तापङ्क्तिसमासाद्यदन्तपङ्क्तिमनोहराम् ॥ ७ ॥

त्रिवक्रकबरीभारां मालतीमाल्यभूषिताम् ।
कस्तूरीकुङ्कुमालक्तस्निग्धचन्दनकज्जलैः ॥ ८ ॥

पत्रावलीविरचितसुकपोलस्थलोज्ज्वलाम् ।
दाडिमीकुसुमाकारसिन्दूरबिन्दुभूषिताम् ॥ ९ ॥

श्रीरामकदलीस्तम्भनिन्दितोरुस्थलोज्ज्वलाम् ।
अत्युच्चैर्वर्तुलाकारस्तनयुग्मविभूषिताम् ॥ १० ॥

नितम्बभारन म्रां च कामबाणप्रपीडिताम् ।
कामुकीं कमनीयां च पश्यन्तीं वक्रचक्षुषा ॥ ११ ॥

कुङ्कुमालक्तरक्ताक्तपादपद्मविराजिताम् ।
वायुप्रेरणवस्त्रेण व्यक्तगुव्तस्थलोज्ज्वलाम् ॥ १२ ॥

तां दृष्ट्वा कामपुत्रश्च कामोन्मथितमानसः ।
उवाच मधुरं रम्यं काममत्तां सुकोमलाम् ॥ १३ ॥

चारुचम्पकवर्णाभां कामेन पुलकान्विताम् ।
अतिप्रौढां नवोढां च शृङ्गानेच्छासुचञ्चलाम् ॥ १४ ॥

अनिरुद्ध उवाच
किं देवी किं च गान्धर्वोका त्वं कामिनिकानने ।
कस्य सत्री कस्य कन्या वा कं वा वाञ्छसि सुन्दरि ॥ १५ ॥

त्रैलोक्यातुलसौन्दर्या मुनिमानसमोहिनी ।
न बिभेषि कथं ब्रूहि स्वयमेकाकिनी च माम् ॥ १६ ॥

अहं त्रैलोक्यनाथस्य पौत्रः कामात्मजोऽधुना ।
कान्तेऽहमनिरुद्धश्च नवीनयौवनाहतः ॥ १७ ॥

कमनीयश्च कामी च कामशास्त्रविशारदः ।
कामुकीकामनां पूर्णां कर्तुमेवेश्वरः स्वयम् ॥ १८ ॥

मां भजस्व सुशीरे त्वं सुवेषं च सुशीलकम् ।
रतिशूरं रतिरसप्राज्ञं रतिरसप्रियम् ॥ १९ ॥

रतिपुत्रं रतिरसं प्रमत्तं रसिकं प्रिये ।
युवानं व्याधिहीनं च कामुकं कामुकीच्छति ॥ २० ॥

विदग्धामु विदग्धं च कान्तमायाति कामतः ।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् ॥ २१ ॥

प्रच्छाद्य लोजनास्यं च नवसङ्गमलज्जिता ।
विलोकयन्ती वक्राक्षिकोणेन तमुवाच सा ॥ २२ ॥

कामिन्युवाच
कामुकः कामपुत्रोऽसि कामेन व्याकुलोऽधुना ।
भवांश्चेत्कामुकीयोग्यो न कामश्चिन्तितः कथम् ॥ २३ ॥

पौत्रस्त्रैलोक्यनाथस्य स्वतः सम्भावितस्य च ।
स्वयं योग्यो योग्यपुत्रो विवाहं न कथं (व्यधाः) चन ॥ २४ ॥

विवाहीता यज्ञपत्नी सा च पुण्यव्रता सती ।
निश्चला सततं साध्या वर्धिनी सङ्गिनी सदा ॥ २५ ॥

भयप्रीतिदानसाध्या गुप्तपत्नी त्वनिश्चला ।
नैमित्तिका न नीत्या सा सा च वेदविवर्जिता ॥ २६ ॥

परं नरकसोपाना परत्रेहायशस्करा ।
साधुस्तत्र न हि रतो वंशजो वैष्णवो यदि ॥ २७ ॥

यदि पूर्व भवेद्भ्रान्तो निवृत्तः साधुसङ्गतः ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ २८ ॥

प्रायश्चित्ती पुनर्लिप्तो निवृत्तः पातकी यदि ।
उवहास्यो भुवि भवेत्सर्वं कुञ्जरशौचवत् ॥ २९ ॥

सुशीला सुन्दरी शान्ता धर्मपत्नी प्रशंसिता ।
पतिव्रता सुसाध्या सा शश्वत्सुप्रियवादिनी ॥ ३० ॥

कोमलाङ्गी विदग्धा च श्यामा रतिसुखप्रदा ।
एवम्भूतां परित्यज्य वैष्णवस्तपसे व्रजेत् ॥ ३१ ॥

सा जेत्परिणता साध्वी शान्ता पुत्रवती यदा ।
अन्यथा च वृथा सर्वं तपसः स्खलनं भवेत् ॥ ३२ ॥

असाधुश्च कुवंशश्चेत्परनारीं प्रयाति चेत् ।
स याति नरकं घोरं पितुशिः सप्तभिःसह ॥ ३३ ॥

अहमूषा बाणकन्या बाणः शङ्करकिङ्करः ।
बाणस्त्रैलोक्यविजयी शङ्करो जगतां पतिः ॥ ३४ ॥

न स्वतन्त्रा पराधीना त्रिषु कालेषु कामिनी ।
पुंश्चली या स्वतन्त्रा साऽप्यसद्वंशप्रसूतिका ॥ ३५ ॥

पिता ददाति कन्यां तां सुयोग्याय वराय च ।
कन्या वरं न याचेत धर्म एष सनातनः ॥ ३६ ॥

त्वं च योग्योऽसि योग्याऽहं मामिच्छसि यदि प्रभो ।
बाणं प्रार्थय शम्भुं वाऽऽप्यथवा पार्वतीं सतीम् ॥ ३७ ॥

इत्युक्त्वा सुन्दरी साध्वी सान्तर्धाना बभूव ह ।
निद्रां तत्याज सहसा कामी कामात्मजो मुने ॥ ३८ ॥

बुद्धवा स्वप्नं स विज्ञाय कामेन व्यथितान्तरः ।
बभूव व्याकुलोऽशान्तो न दृष्ट्वा प्राणवल्लभाम् ॥ ३९ ॥

त्यक्त्वाऽऽहारमनिद्रश्च प्रमत्तश्च कृशोदरः ।
क्षणं तिष्ठति शेते च क्षणं रहसि रोदिति ॥ ४० ॥

पुत्रं दृष्ट्वा तु क्रन्दन्तं देवकी रुक्मिणी रतिः ।
अन्याश्च योषितः सर्वाः कथयामासुरीश्वरम् ॥ ४१ ॥

तासां च वचनं श्रुत्वा प्रहस्य मवुसूदनः ।
उवाच सर्वतत्त्वज्ञः कृष्णश्च पूर्णमानसः ॥ ४२ ॥

श्रीभगवानुवाच
कामातुरा बाणकन्या रतिं दृष्ट्वा शिवेशयोः ।
वरं सम्प्राप दुर्गाया व्याकुला मदनास्त्रतः ॥ ४३ ॥

स्वप्नं च दर्शयामास साऽनिरुद्धं च पार्वती ।
मम पौत्रं प्रमत्तं च चकार कौतुकेन च ॥ ४४ ॥

तत्पुत्रीं च प्रमतां ता करोमि स्वप्नताऽधुना ।
स्वच्छन्दं तिष्ठ न चिरं नास्ति चिन्ता मनोव्यथा ॥ ४५ ॥

इति कृष्णः समाश्वास्यसर्वातमासर्वसिद्धिवित् ।
स्वप्नं च दर्शयामास बाणपुत्रीं च कामुकीम् ॥ ४६ ॥

सुप्ता सुतल्पे बाला सा पुष्पचन्दनचर्चिते ।
नवयौवनसंयुक्ता रत्नभूषणभूषिता ॥ ४७ ॥

शयाना रत्नपर्यङ्के ददर्श स्वप्नमीप्सितम् ।
अतीव निर्जने देशे रत्ननिर्माणमन्दिरे ॥ ४८ ॥

नवीननीरदश्याममतीव नवयौवनम् ।
कोटिकन्दर्पलीलाभं सस्मितं सुमनोहरम् ॥ ४९ ॥

रत्नकेयुरवलयरत्नमञ्जीररञ्जितम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् ॥ ५० ॥

चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससा ।
सुचारुमालतीमाल्यवक्षः स्थलसमुज्ज्वलम् ॥ ५१ ॥

शयानं रत्नपर्यङ्के पुष्पचन्दनचर्चिते ।
तं दृष्ट्वा सहसा साध्वी तन्मूलं प्रययौ मुदा ॥ ५२ ॥

उवाच मधुरं साध्वी हृदयेन विदूयता ।
कामात्मजप्रिया कान्ता कामबाणप्रपीडिता ॥ ५३ ॥

ऊषोवाच
कस्त्वं कामुक भद्रं ते मां भजस्व स्मरातुराम् ।
अतिप्रौढां नवोढां च नवसङ्गमलालसाम् ॥ ५४ ॥

तवानुरक्तां भक्तां च गान्धर्वेण समुद्वह ।
विवाहाष्टप्रकारेषु गान्धर्वः सुलभो नृणाम् ॥ ५५ ॥

अनुरक्तां प्रियां प्राप्य त्यजेद्यः कपटी पुमान् ।
तस्माद्याति महालक्ष्मीः शापं दत्त्वा सुदारुणम् ॥ ५६ ॥

पुमानुवाच
अहं कृष्णस्य पौत्रश्च कामदेवात्मजः स्वयम् ।
कथं गृह्णामि त्वां कान्ते तयोरनुमतिं विना ॥ ५७ ॥

इत्येवमुक्त्वा स पुमानन्तर्धानं चकार सः ।
कामेन व्याकुला कान्ता न दृष्ट्वा कान्तमीप्सितम् ॥ ५८ ॥

निद्रां त्यक्त्वा समुत्थाय तल्पादेव मनोहरात् ।
विषसाद सखीमध्ये प्रमत्ता रुदती भृशम् ॥ ५९ ॥

पप्रच्छ तां वराऽऽलीनां किं किमित्येव निश्चितम् ।
उवाच बौधयामास चित्रलेखा सुयोगिनी ॥ ६० ॥

चेतनं कुरु कल्याणि कस्माते भीतिरुल्बणा ।स्वयं शम्भुः शिवा साक्षाद्दुर्लङ्ध्ये नगरे सति ॥ ६१ ॥

शिवस्मरणमात्रेण सर्वारिष्टं पलायते ।
शिवं भवति सर्वत्र शिव एव शिवालयः ॥ ६२ ॥

ध्यानाद्दुर्गतिनाशिन्याः सर्वं दुर्गं विनश्यति ।
ददाति मङ्गलं तस्मै सर्वमङ्गलमह्गला ॥ ६३ ॥

चित्रलेखावचः श्रुत्वा किञ्चिन्नोवाच सुन्दरी ।
त्यक्त्वाऽऽहारं च निद्रां च पुरुषं चिन्तयेत्सदा ॥ ६४ ॥

चित्रलेखा सखी गत्वा बाणमाह च तत्प्रियाम् ।
दुर्गां च शङ्करं स्कन्दं गणेशं योगिनां गुरुम् ॥ ६५ ॥

चित्रलेखावचः श्रुत्वा रुरोदोच्चैर्भृशं सती ।
बाणश्य शङ्कराभ्याशे विषसाद प्रमूर्च्छितः
जहास शङ्करो दुर्गा कार्तिकेयो गणेश्वरः ॥ ६६ ॥

गणेश्वर उवाच
यो ददाति ध्रुवं दुःखमन्यस्मै दमभमोहितः ।
सक्ष्मधर्मविचारेण स विन्दति चतुर्गुणम् ॥ ६७ ॥

शिवेशयोश्च क्रीडां च दृष्ट्वा या काममोहिता ।
वरं तस्यै ददौ दुर्गा वरमेव सुदुर्लभम् ॥ ६८ ॥

स्वप्ने गत्वा स्वयं देवी मत्तं कृत्वा समरात्मजम् ।
अधुना वामपार्श्चे च शम्भोस्तिष्ठति मूक्वत् ॥ ६९ ॥

सर्वं ज्ञात्वा च सर्वज्ञो भगवान्हरिरीश्वरः ।
स्वप्ने सुवेषं पुरुषं दर्शयामास कन्याकाम् ॥ ७० ॥

सुवेषं पुरुषं दृष्ट्वा युवानं युवाती सती ।
परमेच्छा भवेत्तस्या धर्मभीत्या निवर्तते ॥ ७१ ॥

सुवेषं पुरुषं दृष्ट्वा पुंश्चली पापवंशजा ।
त्येजेन्निद्रां च स्वाहारं पतिं पुत्रं धनं गृहम् ॥ ७२ ॥

चेतनं गृहकार्य च कुललज्जां कुलद्वयम् ।
युवानं रतिशूरं चाप्यतिनीच न हि त्यजेत् ॥ ७३ ॥

त्यजेज्जातिं च धर्मं च प्राणांश्च परिणामतः ।
तस्मात्प्राज्ञः प्रयत्नेन प्राणेभ्यो युवतीं सदा ॥ ७४ ॥

परिरक्षेच्च सततं मायायुक्तां न विश्वसेत् ।
हृदयं क्षुरधाराभं नारीणां मधुरं वचः ॥ ७५ ॥

तासां मनो न जानन्ति सन्तो वेदाश्च वैदिका ।
प्रयातु द्वारकां सद्याश्चित्रलेखा सुयोगिनीं ॥ ७६ ॥

अनिरुद्धं समाहर्तुं प्रमात्तमवलीलया ।
इति श्रुत्वा महादेवो गणेशं तमुवाच ह ॥ ७७ ॥

न श्रुणोति यथा बाणः शुभकार्यं तथा कुरु ।
चित्रलेखा ययौ तुर्णं द्वारकाभवनं हरेः ॥ ७८ ॥

सर्वेषामपि दुर्लङ्ध्यं लीलया प्रविवेश सा ।
निद्रितं चानिरुद्धं च समाहृत्य च योगतः ॥ ७९ ॥

रथमारोहयामास निद्वितं बालकं मुदा ।
सा मनोयायिनी भद्रा गृहीत्वा बालकं मुने ॥ ८० ॥

मुहूर्ताच्छोणितपुरं कृत्वा शङ्खध्वनिं ययौ ।
अथाऽऽश्रमाभ्यन्तरे च रुरुदुः सर्वयोषितः ॥ ८१ ॥

अहो बाणहरो वत्सः क्वगतः प्राणवल्लभः ।
कृष्णस्ताश्च समाश्वास्य सर्वज्ञः सर्वतत्त्ववित् ॥ ८२ ॥

साम्बकामबलैः सार्ध कृष्णाः सात्यकिना तथा ।
गृहीत्वा गानुडं वीरं रथमारुह्य सत्वरः ॥ ८३ ॥

सुदर्शनं पाञ्चजन्यं पद्मं कौमोदकीं गदाम् ।
पश्चाद्यास्यतिदेवेशो नगरं शोणितं तथा ॥ ८४ ॥

सगणैःशङ्केरणैव पार्वत्या परिरक्षितम् ।
अथ सा योगिनी धन्या पुण्या मान्या च योषिताम् ॥ ८५ ॥

शिष्या दुर्वाससः शान्ता सिद्धयोगेन सिद्धिदा ।
बारकं बोधयामास रुदन्तं मातरं स्मरन् ॥ ८६ ॥

स्नापयित्वा ददौ तस्मै माल्यचन्दनभूषणम् ।
कृत्वा सुवेषं बालस्य कन्यान्तः पुरमीप्सितम् ॥ ८७ ॥

चक्रे प्रवेशं योगेन रक्षकैश्चापि रक्षितम् ।
तामूषां निद्रितां दृष्ट्वा निराहारां कृशोदरीम् ॥ ८८ ॥

शीघ्रं च बोधयामास सखीभिः परिरक्षिताम् ।
ऊषां कृत्वा च सुस्नातां वस्त्रभूषणभूषिताम् ॥ ८९ ॥

वस्त्रैर्माल्यैश्चन्दनैश्च सिन्दूरपत्रकैः शुभैः ।
द्वयोः सम्भाषणं तत्र माहेन्द्रे च शुभक्षणे ॥ ९० ॥

कारयामास गुप्त्या च सखीनां सम्मतेन च ।
पतिव्रता पतिं दृष्ट्वा सा रेमे विगतज्वरा ॥ ९१ ॥

गान्धर्वेण विवाहेन तामुवाह स्मरात्मजः ।
रतिर्बभूव सुचिरमुभयोः सुखकारणम् ॥ ९२ ॥

दिवानिशं न बुबुधे स्मरपुत्रः स्मरातुरः ।
ऊषा कामातुरा प्रौढा नवोढा नवसङ्गमात् ॥ ९३ ॥

मूर्च्छां सम्प्राप पुंसश्च स्पर्शमात्रेण कामुकी ।
एवं नित्यं च रहसि सङ्गमः सुमनोहरः
बभूव सुचिरं विप्र राजा शुश्राव रक्षकात् ॥ ९४ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदानाo ऊषानिरुद्धयोः
सङ्गमे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥