अथ त्रयोदशाधिकशततमोऽध्यायः
नारायण उवाच
सशिष्यश्चापि दुर्वासास्त्यक्त्वा च द्वारकां पुरीम् ।
कैलासं प्रययौ भक्त्या शङ्करं द्रष्टुमीश्वरम् ॥ १ ॥
गत्वा मुनिश्च कैलासं प्रणनाम शिवं शिवाम् ।
तुष्टाव परया भक्त्या सशिष्यः प्रणतः शुचिः ॥ २ ॥
तत्सर्वं कथयामास वृत्तान्तं श्रीहरेरपि ।
आत्मनस्तपसस्तत्त्वं स्ववैराग्यं च चेतमः ॥ ३ ॥
मुनेश्च वचनं श्रुत्वा प्रहस्य पार्वती सती।
तमुवाच हितं सत्यं साक्षाच्छङ्करमन्निधौ ॥ ४ ॥
पार्वत्युवाच
धर्मतत्त्वं न जानासि धर्मिष्ठं मन्यसे स्वयम् ।
अनपत्यां परित्यज्य वव यासि तपसे मुने ॥ ५ ॥
अनपत्यां च युवतीं कुलजां च पतिव्रताम् ।
त्यक्त्वा भवेयुः सन्न्यासी ब्रह्मचारी यतीति वा ॥ ६ ॥
वाणिज्ये वा प्रवासे वा चिरं दूरं प्रयाति यः ।
तीर्थे वा तपसे वाऽपि मोक्षार्थं जन्म खण्डितुम् ॥ ७ ॥
न मोक्षस्तस्य भवति धर्मस्य स्खलनं ध्रुवम् ।
अभिशापेन भार्याया नरकं च परत्र य ॥ ८ ॥
इहैव च यशोनाश इत्याह कमलोद्भवः ।
द्वारकां गच्छ हे विप्र स्वधर्म रक्ष साम्प्रतम् ॥ ९ ॥
एकानंशां मदंशां च धर्मतः परिपालय ।
पादपद्मार्जितं पादपद्मं सर्वसुदुर्लभम् ॥ १० ॥
सन्ततं शम्भुना गीतं मुनीन्द्रैः सनकादिभिः ।
परित्यज सुरतरोः कृष्णस्य परमात्मनः ॥ ११ ॥
क्व यासि तपसे वत्स सुधां त्यक्त्वा मनोहराम् ।
श्रीकृष्णपादपद्मं च स्वप्ने जपति यो मुने ॥ १२ ॥
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।
यद्बाल्ये यच्च कौमारे वार्धके यच्च यौवने ॥ १३ ॥
कामतोऽकामतो वाऽपि भस्मीभूतं च पातकम् ।
साक्षाद्यो भारते वर्षे श्रीकृष्णचरणाम्बुजम् ॥ १४ ॥
दृष्ट्वा सद्यो भवेत्पूज्यो जीवन्मुक्तो भवेद्ध्रुवम् ।
कोटिजन्मार्जितात्सद्यः कृतपापाद्विमुच्यते ॥ १५ ॥
सर्वाण्येव हि तीर्थानि यतःपूतानि नित्यशः ।
तद्व्रतं तत्तपः सत्यं तत्पुण्यं तच्च पूजनम् ॥ १६ ॥
सफलं कृष्णसम्बन्धि स्वजन्मखण्डनं यतः ।
कृष्णभक्तिविहीनश्च ब्राह्मणो वेदपारगः ॥ १७ ॥
तत्सङ्गाच्च तदालापा द्भक्तभक्तिः प्रणश्यति ।
कृष्णस्योच्छिष्टभोजी यः कुष्णभक्तश्च ब्राह्मणः ॥ १८ ॥
आवह्निपवनात्पूतः पूतं कर्तुं जगत्क्षमः ।
श्रीकृष्णं च परित्यज्य क्वयासि तपसे द्विज ॥ १९ ॥
तपसां फलमाप्नोति श्रीकृष्णस्मरणेन च ।
यतो भक्तिर्न च भवेच्छ्रीकृष्णे परमात्मनि ॥ २० ॥
स गुरुः परमो वैरी करोति जन्म निष्फलम् ।
पार्वतीवचनं श्रुत्वा शङ्करः प्रेमविह्वलः ॥ २१ ॥
पुलकाञ्चितसर्वाङ्गस्तुष्टाव परमेश्वरीम् ।
दुर्वासाः प्रणतिं कृत्वा शिवदुर्गापदाम्बुजे ॥ २२ ॥
स्मारं स्मारं कृष्णपदं पुनष्च द्वारकां ययौ ।
तत्र गत्वा हरिं दृष्ट्वा तुष्टाव परमेश्वरम् ॥ २३ ॥
एकानंशालयं गत्वा स च रेमे तया सह ।
कृष्णो युधिष्ठिरध्यानात्प्रययौ हस्तिनापुरम् ॥ २४ ॥
कुन्तीं सभाष्य भूपं च भ्रातॄं श्चप्रमुदाऽन्वितः ।
उपायेन जरासन्धं निहत्य शाल्वमेव च ॥ २५ ॥
कालयामास यज्ञं च विधिबोधितदक्षिणम् ।
मुनीन्द्रैश्च नृपेन्द्रैश्च राजसूयमभीप्सितम् ॥ २६ ॥
शिशुपालं दन्तवक्त्रं तत्र यज्ञे जघान सः ।
अतीव निन्दां कुर्वन्तं सभायां सुरभूपयोः ॥ २७ ॥
पपात तच्छरीरं च जीवो गत्वा हरेः पद्म् ।
न दृष्ट्वा तत्र मर्वेशं तुष्टावाऽऽगात्य माधवम् ॥ २८ ॥
शिशुपाल उवाच
वेदानां जनकोऽसि त्वं वेदाङ्गानां च माधव ।
सुराणामसुराणां च प्राकृतानां च देहिनाम् ॥ २९ ॥
सूक्ष्मां विधाय सृष्टिं च कल्पभेदं करोपि च ।
मायया च स्वयं ब्रह्मा शङ्करः शषे एव च ॥ ३० ॥
मनवो मुनयश्चैव देवाश्च मृष्टिपालकाः ।
कलांशेनापि कलया दिक्पालाश्च ग्रहादयः ॥ ३१ ॥
स्वयं पुमान्स्वयं स्त्री च स्वयमेव नपुंसकः ।
कारणं च स्वयं कार्यं जन्यश्च जरकः स्वयम् ॥ ३२ ॥
यन्त्रस्य च गुणो देषो यन्त्रिणश्च श्रुतौश्रुतम् ।
सर्वे यन्त्रा भवान्यन्त्री त्वयि सर्वं प्रतिष्ठितम् ॥ ३३ ॥
मम क्षमस्वापराधं मूढस्य द्वारिणस्तव ।
ब्रह्मशापात्कुबुद्धेश्च रक्ष रक्ष जगद्गुरो ॥ ३४ ॥
इत्येवमुक्त्वा क्रमतो जयो विजय एव च ।
मुदा तौ ययतुः शीघ्रं वैकुण्ठद्वारमीप्सितम् ॥ ३५ ॥
शिशुपालस्य स्तोत्रेण सर्वे ते विस्मयं ययुः ।
परिबूर्णतमं कृत्वा मेनिरे कृष्णमीश्वरम् ॥ ३६ ॥
कारयित्वा राजसूयं भोजयामास ब्राह्मणान् ।
कुरुपाण्डवयुद्धं च कारयामास भेदतः ॥ ३७ ॥
भुवो भारावतरणं चकार स कृपानिधिः ।
पुनर्ययौ द्वारकां च चिरं स्थित्वा नृपाज्ञया ॥ ३८ ॥
विप्राया मृतवत्साया जीवयामास पुत्रकान् ।
मृतस्थानात्समानीय तन्मात्रे प्रददौ सुतान् ॥ ३९ ॥
तद्दृष्ट्वा देवकी तुष्टा ययाचे मृतपुत्रकान् ।
मृतस्थानात्समानीय ददौ मात्रे सहोदरान् ॥ ४० ॥
सद्यो जहार दारिद्र्यं सुदाम्नो ब्राह्मणस्य च ।
समागतस्य स्वगृहाद्द्वारकां शरणार्थिनः ॥ ४१ ॥
तस्मै ददौ राजलक्ष्मीं निश्चलां साप्तपौरुषीम् ।
पृथुकानां कणं भुक्त्वा भक्तस्य फक्तवत्सलः ॥ ४२ ॥
बभूव तस्य राज्यं च यथोन्द्रस्यामरावती ।
यथा धनेश्वरो देवो धनाढ्यः स बभुव ह ॥ ४३ ॥
निश्चलां हरिभक्तिं च ददौ दास्यं सृदुर्लभम् ।
अविनाशिनि गोलोके यथेष्टं वदमुत्तमम् ॥ ४४ ॥
जहार पारिजातं च शक्राहङ्कारमेव च ।
सत्यां च कारयामास पुण्यकं व्रतमीप्सितम् ॥ १३३.४५ ॥
वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ।
तत्र व्रते कुमाराय स्वात्मानं दक्षिणां ददौ ॥ १३३.४६ ॥
ब्रह्माणान्भोजयामास तेभ्यो रत्नं ददौ मुदा ।
सत्यभामातिमानं च वर्धयामास सर्वतः ॥ १३३.४७ ॥
रुक्मिण्या अतिसौभाग्यमन्यासां च नवं नवम् ।
वैष्णवानां सुराणां च विप्रणामपि पूजनम् ॥ १३३.४८ ॥
वर्धयामास सर्वत्र नित्यं नैमित्तिकं मुने ।
परमाध्यात्मिकं ज्ञानमुद्धवाय ददौ प्रभुः ॥ १३३.४९ ॥
अर्जुनं कथयामास गीतां च रणमूर्धनि ।
कृत्वा निष्कण्टकं चैव कृपया च कृपानिधिः ॥ १३३.५० ॥
युधिष्ठिराय पृथिवीराज्यलक्ष्मीं ददौ प्रभुः ।
दुर्गां च पूजयामास वैष्मवीं ग्रामदेवताम् ॥ ५१ ॥
यज्ञं च कारयामास कोटिहोमान्वितं शुफम् ।
नानाप्रकारनैवेद्यैर्द्यूपदीपैर्मनोहरैः ॥ ५२ ॥
ब्राह्मणान्भोजयामास पार्वतीप्रीतये तथा ।
रैवते पर्वते रम्ये चामूल्यरत्नमन्दिरे ॥ ५३ ॥
गणेशं पूजयामास देवानामीश्वरं परम् ।
लड्डुकानां तिलानां च सुस्वदुसुमनोहरम् ॥ ५४ ॥
परिपूष्टं पञ्चलक्षं नैवेद्यं च ददौ मुदा ।
लड्डुकं स्वस्तिकानां च सप्तलक्षं सुधोपमम् ॥ ५५ ॥
गणेश्वराय प्रददौ शर्कराशतराशिकम् ।
पक्वरम्भाफलानां च दशलक्षमपूपकम् ॥ ५६ ॥
मिष्टान्नं पायसं रम्यं स्वादु स्वस्तिकपिष्टकम् ।
घृतं च नवनीतं च दधि दुग्धं सुधोपमम् ॥ ५७ ॥
धूपं दीपं पारिजातपुष्पमाल्यमभीप्सितम् ।
सुगन्धि चन्दनं गन्धं वह्निशुद्धाशुके ददौ ॥ ५८ ॥
यज्ञं च कारयामास कोटिहोमान्वितं शुभम् ।
ब्राह्मणान्भोजयामास तुष्टाव स गणेश्वरम् ॥ ५९ ॥
वाद्यं दशविधं चैव वादयामास तत्र वै ।
सूर्यं च पूजयामास साम्बः कुष्ठक्षयाय च ॥ ६० ॥
हविष्यं कारयामास तं च साम्बंसमातरम् ।
परिबूर्ण वत्सरं चाप्युपहारैरनुत्त्मैः
वरं ददौ च साम्बाय स्तोत्रं च भास्करः स्वयम् ॥ ६१ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तं नारदनाo गणेशपूजा
नाम त्रयोदशाधिकशततमोऽध्यायः ॥ ११३ ॥