११२

अथ द्वादशाधिकशततमोऽध्यायः
नारायण उवाच
वासुदेवो द्वारकायां वसुदेवाज्ञया मुने ।
प्रययौ रत्नरुचिरं रुक्मिणीमन्दिरं वरम् ॥ १ ॥

शुद्धस्फटिकसङ्काशममूल्यरत्ननिर्मितम् ।
पुरतः परितो रम्यं नानाचित्रेण चित्रितम् ॥ २ ॥

अमूल्यरत्नकलशं श्वेतचामरदर्पणैः ।
वहनिशुद्धाशुकैः शुद्धैः परितः परिशोभितम् ॥ ३ ॥

ददर्श रुक्मिणीं देवीमतीव नवयौवनाम् ।
रत्नपर्यङ्कमारुह्य शयानां सस्मितां मुदा ॥ ४ ॥

अप्रौढां च नवोढां तां नवसङ्गमलज्जिताम् ।
अमूल्यरत्ननिर्माणभूषणेन विभूषिताम् ॥ ५ ॥

सुचारुकबरीभारां मालतीमल्यभूषिताम् ।
दृष्टवा कृष्णां भीष्मकन्या सहसा प्रणनाम सा ॥ ६ ॥

तां सम्प्राप्य जगन्नाथो रत्नतल्पे उवास सः ।
शुभक्षणे च शुभया स रेमे रामया सह ॥ ७ ॥

सुखसम्भोगमात्रेण मूर्च्छामाप मुदा सती ।
तस्यां जज्ञे कामदेवो भस्मीभूतदश्च शम्भुना ॥ ८ ॥

स शम्बरं निहत्यैव तत्र प्राप रतिं सतीम् ।
रतिर्मायावतीनाम्ना सङ्केतेन सुरस्य च ॥
छायां दत्त्वा च शयने गृहिणी शम्बरालये ॥ ९ ॥

नरद उवाच
जहार शम्बरं कामो दैत्यं केन प्रकारतः ।
कथयस्व माहाभाग विस्तरेण शुभां कथाम् ॥ १० ॥

नारायण उवाच
समतीते च सप्ताहे रुक्मिणीसूतिकागृहात् ।
गृहीत्वा बालकं दैत्यो जगाम् स्वालयं जवात् ॥ ११ ॥

अपुत्रकश्च दैत्येशः पुत्रं प्राप्य प्रहर्षितः ।
मायावत्यै ददौ हृष्टो हृष्टा मायावती सती ॥ १२ ॥

अतीव पालनेनैव वर्धयामास बारकम् ।
सरस्वती तां रहसि कथयामास निर्जने ॥ १३ ॥

सरस्वत्युवाच
शिवकोपानले पूर्व भस्मीभूतः पतिस्तव ।
स चायं रुक्मिणीपुत्रो दैत्येनैव समाहृतः ॥ १४ ॥

माययाऽपि च मायेशो रुक्मिणीसूतिकागृहात् ।
समानीय ददौ तुभ्यं पतिस्तेऽयं न चाऽऽत्मजः ॥ १५ ॥

कामं च कथयामास जगन्माता च सा सती ।
तव पत्नी रतिश्चेयं रमस्व रामया सह ॥ १६ ॥

त्वमेव रुक्मिणीपुत्रो नान्यदैत्यस्य मन्मथः ।
कुररीव सती नित्यं रोदिति स्म त्वया विना ॥ १७ ॥

इत्युक्त्वा च ययौ वाणी ब्रह्माणी ब्रह्मणः पदम् ।स रेमे निर्जने नित्यं रामया सह सुन्दरः ॥ १८ ॥

एकदा मन्मथं दैत्यौ ददर्श रहसि श्थितम् ।
शृङ्गारं रामया सार्धं कुर्वन्तं कौतुकेन च ॥ १९ ॥

सस्मितं सस्मितायाश्च मध्यवक्षःस्थलस्थितम् ।
रतिं ददर्श कामेन मूर्च्छितां सुरतोत्सुकाम् ॥ २० ॥

दृष्ट्वा चुकोप दैत्यश्च जग्राह खड्गमुत्तमम् ।
उवाच खड्गहस्तश्च कामदेवं रतिं सतीम् ॥ २१ ॥

शम्वर उवाच
धिक्त्वां महाकामुकं च मूर्खं पण्डितमानिनम् ।
महापातकिनां श्रेष्ठं प्रमत्तं मातृगामिनम् ॥ २२ ॥

धिक्त्वां च पुंश्चलीं मत्तां कामुकीं हतचेतनाम् ।
पुत्रं गृहीत्वा रहसि कलोषि सुरतिं सति ॥ २३ ॥

इत्येवमुक्त्वा खड्गं च तामेव हन्तुमृद्यतः ।
जिघांसन्तं रतिं देत्यं प्रेरयामास मन्मथः ॥ २४ ॥

पपात दूरतो ब्रह्मन्मूर्च्छितः स्वाङ्गपीडितः ।
पुनश्च चेतनां प्राप्य कोपेन प्रज्वलन्निव ॥ २५ ॥

शिवदत्तं च शूलं च जग्राह निर्भरेण च ।
शतसूर्यप्रभं शूलं प्रलयाग्निसमं मुने ॥ २६ ॥

दृष्ट्वाऽऽजग्मुश्च देवाश्च ब्रह्मेशशेषसञ्ज्ञकाः ।
पवनः कथयामास कर्णे कामस्य यत्नतः ॥ २७ ॥

स्मर स्मर महामायां दुर्गां तुर्गतिनाशिनीम् ।
पवनस्य वचः श्रुत्वा दुर्गां सस्मार मन्मथः ॥ २८ ॥

शूलं बभूव तस्याङ्गे रम्यं माल्यं मनोहरम् ।
ब्रह्मास्त्रेण च तं दैत्यं जघान मन्मथो मुदा ॥ २९ ॥

रतिं गृहीत्वा यानेन जगाम द्वारकां पुरीम् ।
प्रययुर्देवताः सर्वा स्तुत्वा च पार्वतीं स्वयम् ॥ ३० ॥

रुक्मिणी मङ्गलं कृत्वा प्रजग्राह रतिं सुतम् ।
उत्सवं कारयामास परं स्वस्त्ययनं हरिः ॥ ३१ ॥

ब्राह्मणान्भोजयामास पूजयामास पार्वतीम्र ।
अथ कृष्णः क्रमेणैव वेदोक्ते मङ्गले दिने ॥ ३२ ॥

सप्तानां रमणीनां च पाणिग्राहं चकार ह ।
कालिन्दीं सत्यभामां च सत्या राग्निजितीं सतीम् ॥ ३३ ॥

जाम्बवतीं लक्ष्मणां च समुद्वाहं चकार सः ।
ताभिः सार्ध क्रमेणैव पुत्रत्पत्तिं चकार ह ॥ ३४ ॥

एकस्यां दशपुत्राश्च कन्यकैका क्रमेण च ।
निहत्य नरकं दैत्यं सपुत्रं च नृपेश्वरम् ॥ ३५ ॥

बलवन्तं मुरं दैत्यं जघान रणमूर्धनि ।
ददर्श कन्यास्तत्रस्थाः सहस्राणां च षोडश ॥ ३६ ॥

शताधिका वयस्याश्च शश्वत्सुस्थिरयौवनाः ।
प्रफुल्लवदनाः सर्वा रत्नभूषणभूषिताः ॥ ३७ ॥

शुभक्षणे च तासां च पाणिं जग्राह माधवः ।
ताभिः सार्धं स रेमे च क्रमेण च शुभक्षणे ॥ ३८ ॥

एकस्यां दशपुत्राश्च कन्यकैका क्रमेणा च ।
हरेरेतान्यपत्यानि बभूवुश्च पृथक्पृथक् ॥ ३९ ॥

एकदा द्वारकां रम्यां दुर्वासा मुनिपुङ्गवः ।
शिष्यैस्त्रिकोटिभिः सार्धमाजगामावलीलया ॥ ४० ॥

राजा महोग्रसेनश्च सपुत्रः सपुरोहितः ।
वसुदेवो वासुदेवोऽप्यक्रूरश्चोद्धवस्तथा ॥ ४१ ॥

नीत्वा षोडशोपचारं प्रणेमुर्मुनिपुङ्गवम् ।
शुभार्शिषं च प्रददौ तेभ्यो ब्रह्मन्पृथक्पृथक् ॥ ४२ ॥

एकानंशां च कन्यां तां ददौ तस्मै शुभक्षणे ।
मुक्तामाणिक्यङीरांश्च रत्नं च यौतकं ददौ ॥ ४३ ॥

स रेमे रामया सार्ध माहेन्द्रे रत्नमन्दिरे ।
रत्नेन्द्रसारनिर्माणं ददौ तस्मै शुभाश्रमम् ॥ ४४ ॥

एकदा स मुनिश्रेष्ठः समालोच्य स्वचेतसा ।
शयानं कृत्रचिद्रम्यपर्यङ्के रत्ननिर्मिते ॥ ४५ ॥

श्रुतवन्तं पुराणं च श्रद्धया कुत्रचिद्धिभुम् ।
महोत्सवे नियुक्तं च कुत्रचित्प्राङ्गणे शुभे ॥ ४६ ॥

तामबूलं भुक्तवन्तं च भक्त्या दत्तं च सत्यया ।
कुत्रचित्सेवितं तल्पे रुक्मिण्या श्चेतचामरैः ॥ ४७ ॥

कालिन्दीसेपितपदं शयानं कुत्रचिन्मुदा ।
सर्वत्र समसम्भाषां चकार भगवान्मुनिम् ॥ ४८ ॥

विस्मयं प्रययौ विप्रौ दृष्ट्वा तत्परमाद्भुतम् ।
तुष्टाव जगतीनाथं रुक्मिणीमन्दिरे पुनः
वसन्तं च सुधर्मायां सतां संसदि सुन्दरम् ॥ ४९ ॥

दुर्वासा उवाच
जय जय जगतां नाथ जितसर्व जनार्दन सर्वात्मक
सर्वेश सर्वबीज पुरातन निर्गुण निरीह ॥ ५० ॥

निर्लिप्त निरञ्जन निराकार भक्तानुग्रहविग्रह सत्यम्वरूपसनातन निःस्वरूप नित्यनूतन ॥ ५१ ॥

ब्रह्मेशशेषधनेशवन्दित पद्मया सेवितपादपद्म ब्रह्मज्योतिरनिर्वचनीय वेदाविदितगुणरूप महाकाशसम्माननीय परमात्मन्नमोऽस्तु ते ॥ ५२ ॥

इत्येवमुक्त्वा मनसा हरेरनुमतेन च ।
प्रणम्य तस्थौ विप्रेन्द्रस्तत्रैव पुरतो हरेः ॥ ५३ ॥

तमुवाच जगन्नाथो हितं सत्यं पुरातनम् ।
ज्ञानं च वेदविहितं सर्वेषां च सतां मतम् ॥ ५४ ॥

श्रीभगवानुवाच
मा भेर्विप्र शिवांशस्त्वं किं न जानासि ज्ञानतः ।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ॥ ५५ ॥

अहमात्मा च सर्वेषां शावाः सर्वे मया विना ।
प्राणिदेहान्मयि गते यान्त्येव सर्वशक्तयः ॥ ५६ ॥

जातावप्येक एवाहं व्यक्तावेव पृथक्पृथक् ।
यो भुङ्क्ते तस्य तृप्तिः स्यान्नान्येषां च कदाचन ॥ ५७ ॥

पृथग्जीवादिसर्वेषां प्रतिमानं च प्राणिनाम् ।
परिपूर्णतमोऽहं च गोलोके रासमण्डले ॥ ५८ ॥

श्रीदामशापाद्राधा सा मां द्रष्टुमक्षमाऽधुना ।
सर्वे चैवांशरूपेणा कलया च तदंशतः ॥ ५९ ॥

रुक्मिणीमन्दिरे चांशोऽप्यन्यासां मन्दिरे कलाः ।
ममापि कुत्रचिच्चांशं कुत्र चिच्च कलाकलाः ॥ ६० ॥

कलाकलांशाः कुत्रापि प्रतिमासु च देहिषु ।
इत्युक्त्वा जगतां नाथो गृहस्याभ्यन्तरं ययौ
दुर्वासाश्च प्रियां त्यक्त्वा श्रीहरेस्तपसे गतः ॥ ६१ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo मुनिकृष्णसंo
द्वादशाधिकाशततमोऽध्यायः ॥ ११२ ॥