नारायण उवाच
आगतेषु गतेष्वेवं साङ्गे मङ्गलकर्मणि ।
नन्दो यशोदया सार्ध पुत्राभ्याशं समाययौ ॥ १ ॥
यशोदोवाच
ज्ञानं च भवता दत्तं पित्रे नन्दाय माधव ।
मां चापि मातरं वत्स कृपां कुरु कृपानिधे ॥ २ ॥
मामुद्धर महाभाग धरोद्धारणकारण ।
भवाब्धितरणे भीमौ भीतां च पतितामपि ॥ ३ ॥
मायामयी सा प्रकृतिर्भवाब्धितरणे तरिः ।
त्वमेव कर्णधारश्च भक्तोत्तीर्णे कृपामय ॥ ४ ॥
यशोदावचनं श्रुत्वा जहास पुरुषोत्तमः ।
उवाच मातरं भक्त्या ज्ञानिनां च गुरोर्गुरुः ॥ ५ ॥
श्रीभगवानुवाच
ज्ञानं योगात्मकं मातर्ज्ञानं च विषयात्मकम् ।
ज्ञानं भक्त्यात्मकं श्रेष्ठं मद्दास्यकारणं शुभम् ॥ ६ ॥
ज्ञानं पञ्चविधं प्रोक्तं सर्ववेदेषु सम्मतम् ।
भक्त्यात्मकं सर्वपरं तेषां च लक्षणं शृणु ॥ ७ ॥
क्षुत्पिपासादिकानां च खण्डनं स्वान्तशोधनम् ।
नाडीनां शोधनं चैव चक्राणामपि भेदनम् ॥ ८ ॥
शक्तिकुण्डलिनीयुक्तमीश्वरं चिन्तयेत्ततः ।
इन्द्रियाणां च दमनं लौभादीनां च वर्जनम् ॥ ९ ॥
मूलाधारं स्वधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं च तथा ज्ञाख्यं चक्रषट्कं प्रकीर्तितम् ॥ १० ॥
नारीणामपि दुर्बोधं मुर्खाणां च विशेषतः ।
ज्ञानं योगात्मकं साध्वि सिद्धानां साध्यमीप्सितम् ॥ ११ ॥
जन्तूनामपि सर्वेषां ज्ञानं स्वविषये तथा ।
सन्तः सर्वे विजानन्ति स्वेच्छया च मदीयया ॥ १२ ॥
सिद्ध्यात्मकं च सिद्धानां नियुक्तं सर्वकर्मसु ।
चतुस्त्रिंशत्सु सिद्धानां साधनं बोधनं तथा ॥ १३ ॥
ज्ञानं मौक्षात्मकं सिद्धं परं निर्वाणकारणम् ।
निवृत्तिमार्गमारूढं भक्तस्तत्रैव वाञ्छति ॥ १४ ॥
भक्त्यात्मकं च यज्ज्ञानं तुभ्यं राधा प्रदास्यति ।
तस्यां च मानवं भावं त्यक्त्वा ज्ञानं करिष्यति ॥ १५ ॥
नन्दाय दत्तं यज्ज्ञानं तच्च तुभ्यं प्रदास्यति ।
गच्छ नन्दव्रजं मातर्नन्देन सह सादरम् ॥ १६ ॥
इत्युक्त्वा विनयं कृत्वा जगामाभ्यन्तरं हरिः ।
नन्दो यशोदया सार्धं प्रययौ कदलीवनम् ॥ १७ ॥
ददर्श राधां तत्रैव निद्रितां त्यक्तभूषणम् ।
दधानां शुक्लवस्त्रं च निराहारां कृशोदरीम् ॥ १८ ॥
पङ्कस्थे पङ्कजदले सजले चन्दनार्चिते ।
शयानां शुष्कितौष्ठीं च साश्रुनेत्रां च मूर्च्छिताम् ॥ १९ ॥
ध्यायमानां पदाम्भोजं कृष्णस्य परमात्मनः ।
बाह्यज्ञानपरित्यक्तां तन्नि विष्टैकमानसाम् ॥ २० ॥
पश्यन्तीं सस्मितं कान्तं पश्यन्तीं तन्मुखाम्बुजम् ।
हसन्तीं च रुदन्तीं च स्वप्ने कान्तसमीपतः ॥ २१ ॥
सखीभिः परितः शश्वत्सेवितां श्चेतचामरैः ।
दिवानिशं रक्षितां च गोपीभिः शतकोटिभिः ॥ २२ ॥
सावधानपराभिश्च वेत्रहस्ताभिरीश्वरीम् ।
सप्तद्वारेषु युक्ताभिः परितः प्राङ्गणेषु च ॥ २३ ॥
तां दृष्ट्वा विस्मयं प्राप्य सभार्यो नन्द एव च ।
ननाम परया भक्त्या दण्डवत्प्रणिपत्य च ॥ २४ ॥
निद्रां त्याक्त्वा च सहसा बुबुधे सेश्वरेच्छया ।
क्षणेन चेतनां प्राप विषयज्ञानवर्चिताम् ॥ २५ ॥
पुरतो दम्पती दृष्ट्वा पप्रच्छ सादरं सती ।
उवाच मधुरं चैवं तत्रैव सखिसंसदि ॥ २६ ॥
राधिकोवाच
कस्त्वं चात्र समायातो ब्रूहि वा किं प्रयोजनम् ।
न च मे विषयज्ञानं न जानामि नरं पशुम् ॥ २७ ॥
किं जलं वा स्थलं किंवा नक्तं तिनं श्रुणु ।
स्त्रियं पुमांसं क्लीबं वा नाहं जानामि भेदाकम् ॥ २८ ॥
राधिकावचनं श्रुत्वा नन्दश्च विस्मयं ययौ ।
भीता यशोदा निकटं गोपीसम्भाषिता ययौ ॥ २९ ॥
उवास निकटे तस्याः समुवाच प्रियं वचः ।
उवास तत्र नन्दश्च गोपीदत्तासनेन च ॥ ३० ॥
यशोदोवाच
चेतनं कुरु राधे त्वमात्मानं रक्ष यत्नतः ।
द्रक्ष्यसि प्राणनाथं च सम्प्राप्ते मङ्गले दिने ॥ ३१ ॥
त्वत्तो विश्वं पवित्रं च स्वकुलं च सुरेश्वरि ।
गोप्यश्च पुण्यवत्यश्च त्वत्पादाम्बुजसेवया ॥ ३२ ॥
लोका गास्यन्ति त्वत्कीर्तितीर्थपूतां सुमङ्गलाम् ।
सन्तो वेदाश्च चत्वारः पुराणानि पुरातनीम् ॥ ३३ ॥
अहं यशोदा नन्दोऽयं बुद्धिरूपे निबोध माम् ।
वृषभानसुता त्वं च मां निशामय सुव्रते ॥ ३४ ॥
द्वारकानगराद्भद्रे श्रीकृष्णसन्निधानतः ।
तवान्तिकमागताऽहं प्रेरिता हरिणा सति ॥ ३५ ॥
शृणु मङ्गलवार्तां च मङ्गलं च गदाभृतः ।
आराद्द्रक्ष्यसि कृष्णं तं हे देवि चेतनं कुरु ॥ ३६ ॥
भक्त्या त्मकं परिज्ञानं देहि मह्यं च साम्प्रतम् ।
त्वद्भर्तुरुपदेशेन त्वत्समीपं समागतौ ॥ ३७ ॥
पश्चदायास्यति हरिस्त्वां मुहूर्तं वरानने ।
भविष्यत्यचिरेणैव श्रीदाम्नः शापमोचनम् ॥ ३८ ॥
यशोदावचनं श्रुत्वा वार्तां प्राप्य गदाभृतः ।
श्रीकृष्णनामस्मरणाद्दूरिभूतममङ्गलम् ॥ ३९ ॥
सम्प्राप चेतनं राधा सम्भाव्य कृष्णमातरम् ।
उवाच मधुरं शान्ता लौकिकीं भक्तिमुत्तमाम् ॥ ४० ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधायशोदासंo दशाधिकशततमोऽध्यायः ॥ ११० ॥