१०९

नारायण उवाच
एतस्मिन्नन्तरे राज्ञी रुक्मिणीजननी शभा ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिता मुदा ॥ १ ॥
आगत्य मङ्गलं कृत्वा तत्र निर्मञ्छनादिकम् ।
दम्पती वेशयामास रत्ननिर्माणमन्दिरम् ॥ २ ॥
नानाचित्रविचित्राढ्यं हीरहारेण भूषितम् ।
मुक्तामाणिक्यरत्नेन मुदीप्तं दर्पणेन च ॥ ३ ॥
ददर्श कृष्णस्तत्रैव दुर्गां दुर्गतिनाशिनीम् ।
सरस्वतीं च सावित्रीं रतिं च रोहिणीं सतीम् ॥ ४ ॥
देवपत्नीं राजपत्नीं मुनिपत्नीं पतिव्रताम् ।
रत्नमिहानस्थां च रत्नभूषणभूषिताम् ॥ ५ ॥
उत्तस्थुराराद्दृष्ट्वा च श्रीकृष्णं जगतीपतिम् ।
रत्नसिहासने रम्ये वारयामास तां मुदा ॥ ६ ॥
स्तुतिं चक्रुश्च देवाश्च मुनिपत्न्यश्च माधवम् ।
पुटाञ्जलियुतास्तत्र त्रमेण च पृधक्पृथक् ॥ ७ ॥
भोजयामास राज्ञी च वरेण सह कन्यकाम् ।
सकर्पूरं सताम्बूलं प्रददौ वासितं जलम् ॥ ८ ॥
दुर्गा कृष्णाय प्रददौ तत्र मङ्गलपत्रिकाम् ।
सर्वासामाज्ञया देवी पठेति तमुवाच सा ॥ ९ ॥
पपाठ पत्रिकां कृष्णो देवीसंसदि सस्मितः ।
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका सती ॥ १० ॥
तुलसी पृथिवी गङ्गाऽरुन्धति यमुनाऽदितिः ।
शतरूपा च सीता च देवहूतिश्च मेनका ॥ ११ ॥
दैव्यश्चैताश्च दम्पत्योः कुर्वन्तु परम् ।
पपाठ चेति कृष्णश्च शुश्रुवुर्जहसुश्च ताः ॥ १२ ॥
पार्वत्युवाचरुक्मिणीं रुक्मिणीकान्त त्वां पश्यन्तीं च सस्मिताम् ।
पश्य प्रौढां रुपवतीं सुन्दरीं नवयौवनाम् ॥ १३ ॥
शच्युवाच
तव योग्या च युवती रत्नभूषणभूषिता ।
त्वां प्रार्थयन्ती सुचिरमवमन्यान्यमीश्वरम् ॥ १४ ॥
सावित्र्युवाच
यथा वरस्तथा कन्या विधिना योजिता पुरा ।
विदग्धाया विदग्धेन सर्वत्र सङ्गमः शुभः ॥ १५ ॥
रत्युवाच
ईश्वरेण परीहासं का वा कर्तुं क्षमा भुवि ।
ध्यानासाध्यो दुराराध्यश्चावमन्यान्यमीश्वरम् ॥ १६ ॥
गायत्र्युवाच
यथा वरस्तथा कन्या चाक्षुब्धे भैष्मके गृहे ॥ १७ ॥
रोहिण्युवाच
सत्यं ब्रूहि जगन्नाथ कामिनीनां च संसदि ।
कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी ॥ १८ ॥
सरस्वत्युवाच
राधायां यादृशी प्रीती रुक्मिण्यां नैव तादृशी ।
सा सङ्गिनी पूर्वकाले सर्वक्रीडासु वर्धिनी ॥ १९ ॥
प्राणाधिष्ठातुदेवी सा पञ्चप्राणाधिका सती ।
रुक्मिणी कमला साक्षात्सम्पदामधिदेवता ॥ २० ॥
सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ।
बुद्धेरप्यधिदेवी च दुर्गा नारायणी परा ॥ २१ ॥
देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका ।
विद्याधिदेवताऽहं च ततोऽन्याश्च कलाकलाः ॥ २२ ॥
न ब्रह्मणि शिवे शेषे गणेशे च दिनेश्वरे ।
न भक्तेषु च पद्मायां न शिवायां च मय्यपि ॥ २३ ॥
प्रसादो यादृशस्तस्यामन्येषु च न तादृशः ।
त्रैलोक्ये पृथिवी धन्या सुपुण्यं भारतं यतः ॥ २४ ॥
तत्र वृन्दावनं धन्यं राधापादाब्जचिह्नितम् ।
सर्वासामपि देवीनां राधा पुण्यवती सती ॥ २५ ॥
राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् ।
अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः ॥ २६ ॥
ध्यायन्ते दूर्तः सर्वा राधा वक्षःस्थलस्थिता ।
तस्माद्राधां नमस्कृत्य तुलनां मन्यते किल ॥ २७ ॥
सरस्वतीवचः श्रुत्वा सावित्री पार्वती सती ।
अन्याश्च योषितः सर्वाः साध्वित्यूचुश्च संसदि ॥ २८ ॥
लोपामुद्राऽनसूया चाप्यहल्याऽरुन्धती तथा ।
सर्वास्ता मुनिपत्न्यश्च रभसं चक्रुरीश्वरम् ॥ २९ ॥
अथ देवांश्च भूपांश्च मुनीद्रांश्चापि भीष्मकः ।
पूजयामास विधिना भोजयामास सादरम् ॥ ३० ॥
खाद्यतां लोका दीयतां दीयतामिति ।
शब्दो बभूव नगरे वाद्यसङ्गीतमङ्गलैः ॥ ३१ ॥
अथ प्रभाते ब्रह्मेशसेषास्त्रिदशास्तथा ।
यानमारोहणं भूपाश्चक्रिरे च त्वरान्विताः ॥ ३२ ॥
राजा महोग्रसेनश्च वसुदेवस्त्वरान्वितः ।
कारयामास यात्रां च श्रीकृष्णं रुक्मिणीं सतीम् ॥ ३३ ॥
सुभद्रा रुक्मिणीमाता कन्यां कृत्वा स्ववक्षसि ।
रुरोदोच्चैस्तत्सखीभिर्बान्धवैरित्युवाच सा ॥ ३४ ॥
सुभद्रोवाच
क्व यासि मां परित्यज्य वत्से मातरमीश्वरीम् ।
कथं जीवामि त्वां त्यक्त्वा कथं त्वं वाऽपि जीवसि ॥ ३५ ॥
महालक्ष्मीर्मम गृहात्कन्यारूपा च मायया ।
वसुदेवालयं यासि वासुदेवप्रिया सतीः ॥ ३६ ॥
इत्युक्त्वा कन्यकां शोकात्सिषेव नेत्रजैर्जलैः ।
भीष्मकः साश्रुनेत्रश्च कन्यां कृष्णे समर्प्य च ॥ ३७ ॥
तं च कृत्वा परीहारं रुरोदोच्चैरतीव सः ।
रुरोद रुक्मिणी देवी श्रीकृष्णश्चापि मायया ॥ ३८ ॥
रथमारोपयामास वसुदेवः सुतं वधूम् ।
एतस्मिन्नन्तरे राजा जामात्रे यौतुकं ददौ ॥ ३९ ॥
गचेन्द्राणां सहस्रं च षङ्गुणं च तुरङ्गमम् ।
दासीनां च सहस्रं च किङ्कराणां शतं शतम् ॥ ४० ॥
रत्नानां च सहस्रं चैवामुल्यरत्नभूषणम् ।
स्वर्णानां परिशुद्धानां पञ्चलक्षं च सादरम ॥ ४१ ॥
तोयभोजनपात्राणि कुतानि विश्वकर्मणा ।
सौवर्णानि च रम्याणि सुरभीः प्रददौ मुदा ॥ ४२ ॥
दुग्धवतीनां धेनुनां सवत्सानां सहस्रकम् ।
अमूल्यानि च रम्याणि वह्निशुद्धांशुकानि च ॥ ४३ ॥
वसुदेवश्चोग्रसेनो देवैश्च मुनीभिः सह ।
प्रहृष्टवदनः शीघ्रं द्वारकाभिसुखं ययौ ॥ ४४ ॥
प्रविश्य स्वपुरीं रम्या कारयामास मङ्गलम् ।
वाद्यं च वादयामास सुन्दरं सुमनोहरम् ॥ ४५ ॥
देवकी रोहिणी रम्या यशोदा नन्दगेहिनी ।
अदितिश्च दितिश्चैव तथा च वरकामिनी ॥ ४६ ॥
श्रीकृष्णं रुक्मिणीं रम्यां विलोक्य च पुनः पुनः ।
गृहं प्रवेशयामास कारयामास मङ्गलम् ॥ ४७ ॥
चतुर्विधं भोजयित्वा देवांश्च मुनिपुङ्गवान् ।
नृपांश्च बान्धवांश्चैव परीहारं चकार च ॥ ४८ ॥
भट्टेभ्यो ब्राह्मणेभ्योऽपि ददौ रत्नादिकं मुदा ।
तांश्चपि भोजयामास परितुष्टांश्च सस्मितान् ॥ ४९ ॥
एवं भुक्त्वा धनं लब्ध्वा ययुः सर्वे गृहं मुदा ।
मङ्गलं कारयामास वसुदेवस्य वल्लभा ॥ ५० ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo रुक्मिण्यु-
द्वाहो नाम नवाधिकशततमोऽध्यायः ॥ १०९ ॥