अथाष्टाधिकशततमोऽध्यायः
नारायाण उवाच
एतस्मिन्नन्तरे देवी महालक्ष्मीश्च रुक्मिणी ।
आजगाम सभामध्ये मुनिदेवादिभिर्युते ॥ १ ॥
रत्नसिंहासनस्था च रत्नालङ्कारभूषिता ।
वह्निशुद्धाशुकाधाना कबरीभारभूषिता ॥ २ ॥
पश्यन्ती सस्मिता साध्वीह्यमूल्यरत्नदर्पणम् ।
कस्तूरीबिन्दुभिर्युक्ता स्निग्धचन्दनचर्चिता ॥ ३ ॥
सिधूरबिदुना शश्वद्भालमध्यस्थलोज्ज्वला ।
तप्तकाञ्चनवर्णभा शतचन्द्रसमप्रभा ॥ ४ ॥
चन्दनोक्षितमर्वाङ्गा मालतीमाल्यशोभिता ।
सप्तभिर्नृपपुत्रैश्चसमानीता च बालकैः ॥ ५ ॥
देवेन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा नृपपुङ्गवाः ।
ददृशू रुक्मिणीं देवीं महालक्ष्मीं पतिव्रताम् ॥ ६ ॥
सप्तप्रदक्षिणाःकृत्वा प्रणम्य स्वपतिंसती ।
सिषेच शीततोयेन स्निग्धचन्दनपल्लवैः ॥ ७ ॥
तां सिषेच जगत्कान्तः कान्ता शान्तां च सस्मिताम् ।
ददर्श कान्तः कान्तां च कान्तं कान्ता शुभे क्षणे ॥ ८ ॥
अथ देवी पितुः क्रोडे समुवास शुभानना ।
लज्जया नम्रवदना ज्वलन्ती च स्वतेजसा ॥ ९ ॥
राजा देवेश्वरीं तस्मै परिबूर्णतमाय च ।
प्रददौ सम्प्रदानेन वेदमन्त्रेण नारद ॥ १० ॥
वसुदेवाज्ञया कृष्णः स्वस्तीत्युक्त्वा स्थितो मुदा ।
जग्राह देवीं देवश्च भवानीं च भवो यथा ॥ ११ ॥
सुवर्णानां पञ्चलक्षं कृष्णाय परमात्मने ।
दक्षिणां तां ददौ राजा परिपूर्णतमाय च ॥ १२ ॥
शुभकर्मणि निष्पन्ने कृत्वा कन्यां च वक्षसि ।
रुरोद राजा मोहेन मुनिदेवेन्द्रसंसदि ॥ १३ ॥
परिहारेण वचसा कुत्वा तस्मै समर्पणम् ।
सिषेच कन्यां धन्यां च नेत्रयुग्मजलेन च ॥ १४ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्यु-
द्वाहेऽष्टाधिकशाततमोऽध्यायः ॥ १०८ ॥