अथ सप्ताधिकशततमोऽध्यायः
नारायण उवाच
अथ कोपपीतश्च बलदेवो महाबलः ।
हलेन रुक्मियानं च बभञ्ज मुनिपुङ्गव ॥ १ ॥
घोटकान्सारथिं चैव निहत्य जगतीपतिः ।
भुमिष्ठं चापि पापिष्ठं रुक्मिं हन्तुं जगाम सः ॥ २ ॥
रुक्मी च शरजालेन वारयामास लीलया ।
नागास्त्रं योजयामास बद्धुं हलिनमीश्वरम् ॥ ३ ॥
नागास्त्रं गारुडेनैव सञ्जहार हली स्वयम् ।
जग्राह कोपाद्रुक्मी च परं पाशुपतं मुने ॥ ४ ॥
अव्यर्थं वैरिमर्द च शतसूर्यसमप्रभम् ।
अभितो हलिना रुक्मी जृम्भणास्त्रेण जृम्भितः ॥ ५ ॥
भूमिष्ठः स्थाणुमद्रुक्मी निद्रास्त्रेणैव निद्रितः ।
शाल्वस्तं निद्रितं दृष्ट्वा शतबाणान्मुमोच तम् ॥ ६ ॥
शैलवृष्टिं शिलावृष्टिं जलवृष्टिं चकार सः ।
ज्वलदङ्गारवृष्टिं च शरवृष्टिं चकार ह ॥ ७ ॥
बलाच्चास्त्रेण सर्वाणि वारयामास लाङ्गली ।
हलेन तद्रथं चूर्ण चकार रणमध्यतः ॥ ८ ॥
घोटकान्सारथिं चैव जघान चैव लीलया ।
कोपाद्बलेन तं हन्तुं वाग्बभूवाशरीरिणी ॥ ९ ॥
त्यज शाल्वं कृष्णवध्यं तव किं पौरुषं रणे ।
यस्य मूर्ध्नि च ब्रह्माण्डं शूर्पे च सर्षपे यथा ॥ १० ॥
तच्छ्रुत्वा बलदेवश्च हलेन तस्य मस्तकम् ।
चकार चूर्ण व्यथितः पपात रणमूर्धनि ॥ ११ ॥
शाल्वस्य पतनं दृष्ट्वा शिशुपालो महाबली ।
चकार शरवृष्टिं च जलवृष्टिं यथा भुवि ॥ १२ ॥
हली तस्य रथं चूर्ण चकार लाङ्गलेन च ।
अर्धचन्द्रेण तद्वाणान्वारयामास लीलया ॥ १३ ॥
तं हन्तुं शङ्करः साक्षान्निषेधं च चकार तम् ।
कृष्णवध्यं त्यज बल पार्षदप्रवरं हरः ॥ १४ ॥
दन्तवक्त्रस्य दन्तं च बभञ्ज स हलेन च ।
सुप्रवृत्तस्य युद्धेन ते सर्वे जहसुश्च तम् ॥ १५ ॥
बलस्य विक्रमं दृष्ट्वा सर्वे वीराः पलायिताः ।
चक्रुः प्रवेशनं सर्वे कुण्डिनं वरयात्रिकाः ॥ १६ ॥
एतस्मिन्नन्तरे तत्र शतानन्दो महामुनिः ।
कोटिभिर्मुनिभिः सार्धमाजगाम हरेः पुरः ॥ १७ ॥
पुरं प्रवेशयामास शतद्वारं च दुर्गमम् ।
अगम्यं चापि शत्रूणां मित्राणा च सुखप्रदम् ॥ १८ ॥
देवकन्या नागकन्या राजकन्यास्तथैव च ।
मुनिकन्या वरं द्रष्टुं सस्मिताश्च समाययुः ॥ १९ ॥
ददृशुर्योषितः सर्वा निमेषरहितेन च ।
प्रसन्नं कारयामास सस्मितश्चन्द्रशेखरः ॥ २० ॥
रत्नेन्द्रसारनिर्माणरथस्थं परमेश्वरम् ।
सर्वेषां परमात्मानं भक्तानुग्रहविग्रहम् ॥ २१ ॥
नवीनजलदश्यामं शोभितं पीतवाससा ।
यन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ॥ २२ ॥
रत्नकेयूरवलयरत्नमालाकुलोज्ज्वलम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलविराचितम् ॥ २३ ॥
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जितम् ।
सस्मितं मुरलीहस्तं पश्यन्तं रत्नदर्पणम् ॥ २४ ॥
सप्तभिः पार्षदैर्गोपैः सेवितं श्वेतचामरैः ।
नवयौवनसम्पन्नं शरत्कमललोचनम् ॥ २५ ॥
शरत्पूर्णेन्दुतुल्यास्यं भक्तानुग्रहकारकम् ।
कोटिकन्दर्पसौन्दर्यं सत्यं नित्यं सनातनम् ॥ २६ ॥
तीर्थपूतं कीर्तिपूतं ब्रह्मेशशेषवन्दितम् ।
परम्ह्नादकं रूपं कौटिचन्द्रसमप्रभम् ॥ २७ ॥
ध्यानासाध्यं दुराराध्यं परमं प्रकृतेः परम् ।
दूर्वया पट्टसूत्रं च रत्नेन्द्रसारदर्पणम् ॥ २८ ॥
दधानं कर्तृकासार्ध कदल्याः स्फुटमञ्जरीम् ।
चूडां त्रिविक्रमाकारां मालतीमाल्यभूषितम् ॥ २९ ॥
पुष्पं नारीप्रदत्तं च मुकुटं मस्तकोजज्ववलम् ।
दृष्ट्वा वरं युवत्यश्च मूर्च्छा सम्प्रापुरीश्वरम् ॥ ३० ॥
रुक्मिणीजीवनं धन्यं श्लाध्यमित्यूचुरीप्सितम् ।
जामातरं सा ददर्श राज्ञी भीष्मककामिनी ॥ ३१ ॥
निमेषरहिता तुष्टा प्रसन्नवदनेक्षणा ।
राजा प्रसन्नवदनः सामात्यः सपुरोहितः ॥ ३२ ॥
समागत्य सुरान्विप्रान्भूपांश्च प्रणनाम सः ।
ददौ योग्याश्रमं तेभ्यो भक्ष्यपूर्ण सुधोपमम् ॥ ३३ ॥
दिवानिशं चाप्युवाच दीयतां दीयतामिति ।
सुखं निनाय रजनीं देवैश्च बान्धवैः सह ॥ ३४ ॥
वसुदेवः प्रभाते च प्रातःकृत्यं चकार सः ।
स्नात्वा सन्ध्यादिकं कृत्वा धृत्वा धौते च वाससी ॥ ३५ ॥
चकार वेदमन्त्रेण शुभाधिवासनं हरेः ।
सम्पूज्य मातृकाः सर्वाः साक्षाच्च सर्वदेवताः ॥ ३६ ॥
प्रदाय वसुधारां च वृद्धिश्राद्धादिकं तथा ।
प्राह्मणान्भोजयामास देवांश्च बान्धवांस्तथा ॥ ३७ ॥
वाद्यं च वादयामास कारयामास मङ्गलम् ।
सुवेषं कारयामास वरस्यापि प्रशंसितम् ॥ ३८ ॥
सज्जं च कारयामास नरयानं सुशोभनम् ।
एवं राजा भीष्मकश्च विवाहार्हं च मङ्गलम् ॥ ३९ ॥
पुरोहितैर्वेदमन्त्रैः सर्व कर्म चकार सः ।
मणिरत्नं धनं चापि मुक्तामाणिक्यहीरकम् ॥ ४० ॥
भक्ष्यद्रव्यं च वस्त्रं चाप्युपहारमनुत्तमम् ।
भट्टेम्यो ब्राह्मणेभ्योऽपि भिक्षुकेभ्यो ददौ मुदा ॥ ४१ ॥
वाद्यं च वादयामास कारयामास मङ्गलम् ।
सुवेषं कारयामास रुक्मिण्याश्च मनोहरम् ॥ ४२ ॥
राज्ञीभिर्मुनिपत्नीभिर्विधानं च यथोचितम् ।
ततः शुभे क्षणे प्राप्ते माहेन्द्रे परमोदये ॥ ४३ ॥
विवाहोचितलग्ने च लग्नाधिपतिसंयुते ।
सद्ग्रहेक्षणशुद्धे चाप्यसतां दृष्टिवर्जिते ॥ ४४ ॥
शुभक्षणे सुभर्क्षे च विशुद्धे चन्द्रतारयोः ।
वेधदोषादिरहिते शलाकादिविवर्जिते ॥ ४५ ॥
दम्पत्योः शर्मयोग्ये च परिणामसुखप्रदे ।
एवम्भूते च समये भीष्मकप्राङ्गणं हरिः ॥ ४६ ॥
आजगाम सुरैः सार्ध सुनिविप्रपुरोहितैः ।
ज्ञातिभिर्बान्धवैः सार्धं पित्रा मात्रानृपैस्तथा ॥ ४७ ॥
गोपालकैः पार्षदैश्च वयस्यैश्च मनोहरैः ।
भट्टैश्च गणकैर्ज्योतिः शास्त्रज्ञानविशारदैः ॥ ४८ ॥
वाद्यैर्नानाविधैश्चैव नर्तकैर्गायनैस्तथा ।
नानाशिल्पकरैश्चैव मालाकारैस्तथाऽपरैः ॥ ४९ ॥
विद्याधर्यप्सरोभिश्च किन्नरीभिश्च सत्वरम् ।
स्थलं च ददुशुर्देवा मुनयश्च नृपेश्वराः ॥ ५० ॥
सर्वे समागता ये च विवाहदर्शनोत्सुकाः ।
रम्भास्तम्भसहस्रैश्च पट्टसूत्रपरिष्कृतैः ॥ ५१ ॥
चम्बकानां चन्दनानां रसालानां च पल्लवैः ।
माल्यैर्नानाविधैश्चैव पीतरक्तसितान्वितैः ॥ ५२ ॥
परितो मङ्गलघटैः फलपल्लवसंयुतैः ।
कस्तूरीचन्दनाक्तैश्च कुङ्कुमेन विराजितैः ॥ ५३ ॥
पर्णैर्लाजैः फलैः पुष्पैर्दूर्वाभिरुपशोभितैः ।
मुनिभिर्ब्राह्मणैश्चैव राजेन्द्रैरपि वेष्टितम् ॥ ५४ ॥
रत्नेन्द्रसारनिर्माणवेदीयुक्तं मनोहरम् ।
चर्चितं चन्दनस्निग्धैः कस्तूरीकुङ्कुमान्वितैः ॥ ५५ ॥
सुगन्धिशीतमन्दैश्च पवनैः सुरभीकृतम् ।
रत्नानां च सहस्रैश्च ज्वलितं ज्वलदीप्तकैः ॥ ५६ ॥
नानाप्रकारधूपैश्च गन्धद्रव्यैः सुवासतम् ।
चित्रैर्विचित्रैर्विविधैः शिल्पिनाम्पुण्यकारिणाम् ॥ ५७ ॥
परितः परितश्चैव शोभनार्हैः सुशोभनैः ।
गन्धर्वाणां च सङ्गीतैमधुरंर्मधुरीकृतम् ॥ ५८ ॥
विद्याधरीणान्नृत्यैश्च नर्तकीनां च शिल्पिनाम् ।
तत्र निश्चेष्टचित्रैश्च जनराजिविराजितम् ॥ ५९ ॥
गुप्तद्वारैर्गवाक्षैश्च युवतीभिश्च वीक्षितम् ।
मङ्गलेन घटेनैव विधुषा च पुरोधसा ॥ ६० ॥
कुशहस्तेन भूपेन दानेन दानवस्तुना ।
दृष्ट्वा च प्राङ्गणं राज्ञो देवा ब्रह्मादयस्तथा ॥ ६१ ॥
अवरुह्य रथात्तूणं तिष्टन्ति प्राङ्गणे मुदा ।
राजेन्द्रा दानवेन्द्राश्च सुनयः सनकादयः ॥ ६२ ॥
श्रीकृष्णश्चापि भगवान्पार्षदप्रवरैः सह ।
तान्दृष्ट्वा सहसोत्थाय जवेन भीष्मकस्तथा ॥ ६३ ॥
मूर्घ्ना ववन्दे देवाश्च मुनोन्द्रांश्च नृपांस्तथा ।
रत्नसिहासनेष्वेव सुरम्येषु पृथवपृथक् ॥ ६४ ॥
क्रमतो वासयामास सम्पूज्य सादरेण च ।
राजा तुष्टाव भक्त्या च तान्सर्वान्भक्तिपूर्वकम्
वसुदेवं वासुदेवं साश्रुनेत्रः पुटाञ्जलिः ॥ ६५ ॥
भीष्मक उवाच
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
बभूव जन्मकोटीनां कर्ममूलनिकृन्तनम् ॥ ६६ ॥
स्वयं विधाता जगतां प्रदाता सर्वसम्पदाम् ।
स्वप्रे यत्पादपद्मं च द्रष्टुं नैव क्षमः प्रभो ॥ ६७ ॥
तपसां फरदाता च संस्रष्टा प्राङ्गणे मम ।
स्वात्मारामेषु पूर्णेषु शुभप्रश्नमनीप्सितम् ॥ ६८ ॥
योगीन्द्रैरपि सिद्धेन्द्रैः सुरेन्द्रैश्च मुनीन्द्रकैः ।
ध्यानादृष्टश्च यो देवः स शिवः प्राङ्गणे मम ॥ ६९ ॥
कालस्य कालो भगवान्मृत्योर्मृत्युश्च यः प्रभुः ।
मृत्युञ्जयश्च सर्वेशोनराणां दृष्टिगोचरः ॥ ७० ॥
यस्यमूर्ध्नां सहस्रेषु मूर्ध्नि विश्वं चराचरम् ।
नास्त्यन्तः सर्ववेदेषु सोऽयं च मम प्राङ्गणे ॥ ७१ ॥
सर्वकामप्रणेयो हि सर्वाग्रे यस्य पूजनम् ।
श्रेष्ठो देवगणानां च स गणेशो ममाङ्गणे ॥ ७२ ॥
मुनीनां वैष्णवानां च प्रवनो ज्ञानिनां गुरुः ।
सनत्कुमारो भगवान्प्रत्यक्षः प्राङ्गणे मम ॥ ७३ ॥
ब्रह्मपुत्राश्च पौत्राश्च प्रपौत्राश्चापि वंशजाः ।
ते सर्वे मदगृहेऽद्यैव ज्वलन्तो ब्रह्मतेजसा ॥ ७४ ॥
अहो कल्पान्तपर्यन्तं तीर्थीभूतो ममाऽऽश्रमः ।
येषां पादोदकैस्तीर्थ विशुद्धं तद्गृहे मम ॥ ७५ ॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
सागरे यानि तीर्थानि विप्रपादेषु तानि च ॥ ७६ ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपत्रेषु पिबन्ति पितरो जलम् ॥ ७७ ॥
विप्रपादोदकं भुक्त्वा दत्त्वा विप्राय दक्षिणाम् ।
स्रानानां सर्वतीर्थानां फलमाप्नोति निश्चितम् ॥ ७८ ॥
निकृन्तनं च विपदां व्याधिनिर्मुलकारणम् ।
सुखदं शुभदं सारं विप्रपादोदकं नृणाम् ॥ ७९ ॥
न गङ्गासदृशं तीर्थ न देवो माधवात्परः ।
सनत्कुमारा द्भक्तो न न हि कल्पतरोस्तरुः ॥ ८० ॥
न पुष्पं पारिजाताच्च न व्रतं हरिवासरात् ।
पूजने न हि पूज्यं च न पत्रं तुलसीपरम् ॥ ८१ ॥
न देवी प्रकृतेश्चापि नाऽऽधारः पवनात्परः ।
न हि स्थूलो महाविष्णोर्न सूक्ष्मं परमाणुतः ॥ ८२ ॥
न ब्राह्मणात्परः पूतो नाऽऽश्रमश्च न तीर्यकम् ।
न देवो न परः कोऽपि चेत्याह कमलोद्भवः ॥ ८३ ॥
ब्रह्मविष्णुशिवादीनां प्रकृतेश्च परः प्रभुः ।
ध्यानासाध्यो दुराराध्यो योगिनामपि निश्चितम् ॥ ८४ ॥
निर्गुणश्च निराकारो भक्तानुग्रहविग्रहः ।
स एव चक्षुषो नॄणां साक्षाद्देवश्च मद्गृहे ॥ ८५ ॥
देवैर्ब्रह्मेशशेषैश्च ध्यातं यत्पादपङ्कजम् ।
धनेशेन गणेशेन दिनेशेनापि दुर्लभम् ॥ ८६ ॥
इत्युक्त्वा भीष्मकः कृष्णं समानीय स्वयं पुरः ।
तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम् ॥ ८७ ॥
भीष्मक उवाच
सर्वान्तरात्मा सर्वेषां साक्षी निर्लिप्त एव च ।
कर्मिणां कर्मणामेव कारणानां च कारणम् ॥ ८८ ॥
केचिद्वदन्ति त्वामेकं ज्योतीरूपं सनातनम् ।
केचिच्च परमात्मानं जीवो यत्प्रतिबिम्बकः ॥ ८९ ॥
केचित्प्राकृतिकं जीवं सगृणं भ्रान्तबुद्धयः ।
केचिन्नित्यशरीरं च बुद्धा (धा) श्च सूक्ष्मबुद्धयः ॥ ९० ॥
ज्योतिरभ्यन्तरे नित्यं देहरूपं सनातनम् ।
कस्मात्तेजः प्रभवति साकारमीश्वरं विना ॥ ९१ ॥
एवं स्तुत्वा स चाऽऽचान्तः स्मरन्विष्णुं च नारद ।
पाद्यं पद्मार्चिते पादपद्मे चायं ददौ मुदा ॥ ९२ ॥
अर्ध्यं च प्रददौ तत्र दूर्वापुष्पजलान्वितम् ।
मधुपर्कं च सुरभिं सर्वाङ्गे गन्धयन्दनम् ॥ ९३ ॥
यत्प्रदत्तं महेन्द्रेण शुभकर्मणि यौतुकम् ।
पारिजातस्य माल्यं च जामातुश्च गले ददौ ॥ ९४ ॥
कुबेरेण च यदत्तममूल्यरत्नभूषणम् ।
चकार वरणं तस्य स राजा भक्तिपूर्वकम् ॥ ९५ ॥
कह्निशुद्धांशुकयुगं यद्दत्तं वाह्निना पुरा ।
ददौ तदेव कृष्णाय परिपूर्णतमाय च ॥ ९६ ॥
ज्वलितं रत्नमुकुटं यद्दत्तं विश्वकर्मणा ।
ददौ तन्मस्तके राजा कृष्णस्य परमात्मनः ॥ ९७ ॥
धूपं रत्नप्रदीपं च नैवेद्यं सुमनोहरम् ।
नानाप्रकारपुष्पं च रत्नसिहासनं ददौ ॥ ९८ ॥
सप्ततीर्थोदकं चैव पुनराचमनीयकम् ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ९९ ॥
शय्यां रतिकरी रम्यां पानार्थं वासितं जलम् ।
कृत्वा च वरणं राजा परिहारं चकारतम् ॥ १०० ॥
कृताञ्जलिपुटो राजा तस्मै पुष्पाञ्जलीं ददौ ॥ १०१ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे
सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥