अथ पडधिकशततमोऽध्यायःनारायण उवाच
एतस्मिन्नन्तरे नाजा ककुद्मी च महाबलः ।
वरार्थं कन्यकायाश्च ब्रह्मलोकात्समागतः ॥ १ ॥
प्रददौ रेवतीं कन्यां शश्वत्सुस्थिरयौवनाम् ।
अमूल्यरत्नभूषाढ्या त्रिषु लोकेषु दुर्लभाम् ॥ २ ॥
बलाय बलदेवाय सम्प्रदानेन कौतुकात् ।
वयो यस्या गतं सत्ये युगानां सप्तविंशतिः ॥ ३ ॥
दत्त्वा कन्यां विधानेन मुनिदेवेन्द्रसंसदि ।
गजेन्द्राणां त्रिलक्षं च जामात्रे यौतुकं ददौ ॥ ४ ॥
दशलक्षं तुरङ्गाणां रथानां लक्षमेव च ।
रत्नालङ्कारयुक्तानां दासीनां चापि लक्षकम् ॥ ५ ॥
मणिलक्षं रत्नलक्षं स्वर्णकोटिं च सादरम् ।
वह्निशुद्धांशुकं रम्यं मुक्तामाणिक्यहीरकम् ॥ ६ ॥
दत्तवा कन्यां च राजेन्दो बलाय बलशालिने ।
रत्नेन्द्रसारयानेन तैः सार्ध कुण्डिनं ययौ ॥ ७ ॥
अथान्तरे च निर्बन्धे साङ्गे मङ्गलकर्मणि ।
रेवतीं वेशयामास योषितां कमलाकलाम् ॥ ८ ॥
देवकी रोहिणी चैव यशोदा नन्दगेहिनी ।
अदितिश्च दितिः शान्तिर्जयं कृत्वा च मन्दिरम् ॥ ९ ॥
ब्राह्मणान्भोजयामास ददौ तेभ्यो धनं मुदा ।
मङ्गलं कारयामास वसुदेवस्य वल्लभा ॥ १० ॥
अथ देवाश्च मुनयो राजेन्द्रः कटकैः सह ।
सम्प्रापुर्लीलामात्रेण कुण्डिनं नगरं मुदा ॥ ११ ॥
ददृशुर्नगरं सर्वे ह्यतीव सुमनोहरम् ।
सप्तभिःपरिशाभिश्च गभीराभिश्च वेष्टितम् ॥ १२ ॥
प्राकारैः सप्तभिर्युक्तं द्वाराणां शतकैस्तथा ।
नानारत्नैश्च मणिभिर्निर्मितं विश्वकर्मणा ॥ १३ ॥
नगरस्य बहिर्द्वारं ददृशुर्वरयात्रिणः ।
रक्षितं रक्षकैः सार्ध चतुर्भिश्च महारथैः ॥ १४ ॥
रुक्मिश्च शिशुपालश्च दन्तवक्त्रो महाबली ।
शाल्वो मायाविनां श्रेष्ठो युद्धशास्त्रविशारदः ॥ १५ ॥
नानाशास्रत्रैस्तथाऽश्त्रैश्च रथस्थश्च रणोन्मुखः ।
विलोक्य कृष्णसैन्यं च चुकोप नृपनन्दनः ॥ १६ ॥
उवाच निष्ठुरं वाक्यं श्रुतितीक्ष्मं सुदुष्करम् ।
उपहास्य मुनीन्द्रांश्च देवांश्च मुनिपुङ्गवान् ॥ १७ ॥
रुक्मिरुवाच
अहो कालकृतं कर्म दैवं च केन वार्यते ।
किंवाऽहं कथयिष्यामि देवेन्द्राणां च संसदि ॥ १८ ॥
ग्रहीतुं रुक्मिणीं कन्यां देवयोग्यां मनोहराम् ।
आयाति देवैर्मुनिभिर्नन्दस्य पशुरक्षकः ॥ १९ ॥
साक्षाज्जारश्च गोपीनां गोपोच्छिष्टान्नभोजनः ।
जातेश्च निर्मयो नास्ति भक्ष्यमैथुनयोस्तथा ॥ २० ॥
किं नु राजेन्द्रपुत्रश्च किं नु वा मुनिपुत्रकः ।
वसुदेवः क्षत्रियश्च भक्षणं वैश्यमन्दिरे ॥ २१ ॥
शिशुकाले च स्त्रीहत्या कृताऽनेन दुरात्मना ।
कुब्जा मृता च सम्भोगाद्वाससा रजको मृतः ॥ २२ ॥
राजेन्द्रस्य वधे दुष्टो ब्रह्महत्यां लभेद्ध्रुवम् ।
मथुरायां च धर्मिष्ठः सद्यः कंसो निपातितः ॥ २३ ॥
शाल्व उवाच
यदुक्तं रुक्मिणा देवाः किमसत्यं च तत्र वै ।
को वाऽयं रुक्मिणीभर्ता नन्दस्य पशुरक्षकः ॥ २४ ॥
शिशुपाल उवाच
अहो भुवि किमाश्चर्य देवा ब्रह्मादयस्तथा ।
मुनीन्द्रा ब्रह्मणः पुत्राश्चाऽऽययुर्मानवाज्ञया ॥ २५ ॥
दन्तवक्त्र उवाच
सन्ततं ब्राह्मणा लुब्धा देवाश्च भक्तवत्सलाः ।
आययुर्ब्रह्मपुत्राश्च नन्दपुत्राज्ञया कथम् ॥ २६ ॥
तेषां च वचनं श्रुत्वा चुकोप देवसन्धकः ।
मुनिराजेन्द्रसङ्घश्च लाङ्गलीत्यादयस्तथा ॥ २७ ॥
इति श्रीब्रह्मo महाo शीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे
षडधिकशततमोऽध्यायः ॥ १०६ ॥