१०५

अथ पञ्चाधिकशततमोऽध्यायः
नारायण उवाच
अथ वैदर्भराजेन्द्रो महाबलपराक्रम् ।
विदर्भदेशे पुण्याश्च सत्यशीलश्च भीष्मकः ॥ १ ॥

राजा नारायणांशश्च दाता च सर्वसम्पदाम् ।
धर्मिष्ठस्च गरीयांश्च वरिष्ठश्टापि पूजितः ॥ २ ॥

तस्य कन्या महालक्ष्मी रुक्मिणी योषितां वरा ।
अतीव सुन्दरी रम्या रमा रामासु पूजिता ॥ ३ ॥

नवयौवनसम्पन्ना रत्नाभरणभूषिता ।
तप्तकाञ्चनवर्णाभा तेजसोज्ज्वलिता सती ॥ ४ ॥

शुद्धसत्त्वस्वरूपा सा सत्यशीला पतिव्रता ।
शान्ता दान्ता नितान्ता चाप्यनन्तगुणशालिनी ॥ ५ ॥

इन्द्राणी वरुणानी च चन्द्रनारी च रोहिणी ।
कुबेरपत्नी सूर्यस्त्री स्वाहा शान्ता कलावती ॥ ६ ॥

अन्यासु रमणीयासु श्रेष्ठा च सुमनोहरा ।
रुक्मिण्या भीष्मकन्यायाः कलां नार्हति षोडशीम् ॥ ७ ॥

तां दृष्ट्वा राजराजेन्द्रो वालक्रीडारतां पराम् ।
बालां सुशोभां कुर्वन्तीं यथाऽभ्रेषु विधोः कलाम् ॥ ८ ॥

शरत्पूर्णेन्दुशोभाढ्यां शरत्कमललोचनाम् ।
विवाहयोग्यां युवतीं लज्जानम्राननां शुभम् ॥ ९ ॥

सहसा चिन्तितो धर्मो धर्मशीलश्च सुव्रतः ।
सुतां पप्रच्छ पुत्रांश्च ब्राह्मणांश्च पुरोहितान् ॥ १० ॥

कं वृणोमि सुतार्ध च वराहं प्रवरं वरम् ।
मुनिपुत्रं देवपुत्रं राजेन्द्रसुतमीप्सितम् ॥ ११ ॥

विवाहयोग्या कन्या मे वर्धमाना मनोहरा ।
शीघ्रं पश्य वरं याग्यं नवयौवनसंस्थितम् ॥ १२ ॥

धर्मशीलं सत्यसन्धं नारायणपरायणम् ।
महाकुलप्रसूतं च सर्वत्रैव प्रतिष्ठितम् ॥ १४ ॥

करोषि राजपुत्रं चेद्रणशास्त्रविशारदम् ।
महारथं प्रतापार्हं रणमूर्ध्नि च सुस्थिरम् ॥ १५ ॥

करोषि देवपुत्रं चेद्देवं गुणयुतं तथा ।
करोषि मुनिपुत्रं चेच्चतुर्वेदविशारदम् ॥ १६ ॥

वावदूकं विचारज्ञं सिद्धान्तेषु नितान्तकम् ।
नृपेन्द्रवचनं श्रुत्वा तमुवाच मुनेः सुतः ॥ १७ ॥

गोतमस्य शतानन्दो वेदवेदाङ्गपारगः ।
आप्तः प्रवक्ता विज्ञश्च धर्मी कुलपुरोहितः ॥
पृथिव्यां सर्वतत्त्वज्ञो निष्णातः सर्वकर्मसु ॥ १८ ॥

शतानन्द उवाच
राजेन्द्र त्वं च धर्मज्ञो धर्मशास्त्रविशारदः ।
पृर्वाख्यानं च वेदोक्तं कथयामि निशामय ॥ १९ ॥

भुवो भारावतरणे स्वयं नारायणो भुवि ।
वसुदेवसुतः श्रीमान्परिबूर्णतमः प्रभुः ॥ २० ॥

विधातुश्च विधाता च ब्रह्मेशशेषवन्दितः ।
ज्योतिःस्वरूपः परमो भक्तानुग्रहविग्रहः ॥ २१ ॥

परमात्मा च सर्वेषां प्राणिनां प्रकृतेः परः ।
निर्लिप्तश्च निरीहप्तश्च साक्षी च सर्वकर्मणाम् ॥ २२ ॥

राजेन्द्र तस्मै कन्यां च परिपूर्णतमाय च ।
दत्त्वा यास्यसि गोलोकं पितॄणां शतकैः सह ॥ २३ ॥

लभ सारूप्यमुक्तिं च कन्या दत्त्वां परत्र च ।
इहैव सर्वपूज्यश्च भव विश्वगुरोर्गुरुः ॥ २४ ॥

सर्वस्वं दक्षिणां दत्त्वा महालक्ष्मीं च रुक्मिणीम् ।
समर्पणं कुरुविभो कुरुष्व जन्मखण्डनम् ॥ २५ ॥

विधाता निखितो राजन्सम्बन्धः सर्वसम्मतः ।
द्वारकानगरे कृष्णं शीघ्रं प्रस्थापय द्विजम् ॥ २६ ॥

कृत्वा शुभक्षणं तूर्ण सर्वेषामपि सम्मतम् ।
आनीय परमात्मानं भक्तानुग्रहविग्रहम् ॥ २७ ॥

ध्यानानुरोधहेतुं च नित्यदेहमनुत्तमम् ।
दृष्टिमात्रात्कुरु नृप स्वजन्मकर्मखण्डनम् ॥ २८ ॥

यं न जानन्ति चत्वारो वेदाः सन्तश्च देवताः ।
सिद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयस्तथा ॥ २९ ॥

ध्यायन्ते ध्यानपूताश्च योगिनो न विदन्ति यम् ।
सरस्वती जडीभूता वेदाः शास्त्राणियानि च ॥ ३० ॥

सहस्रवक्त्रः शेषश्च पञ्चवक्त्रः सदाशिवः ।
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ॥ ३१ ॥

ऋषयो मुनयश्चैव भक्ताः परमवैष्णवाः ।
अक्षमाः स्तवने यस्य ध्यानासाध्यश्च योगिनाम् ॥ ३२ ॥

बालकोऽहं महाराज तद्गुणं कथयामि किम् ।
शतानन्दवचः श्रुत्वा प्रफुल्लवदनो नृपः ॥ ३३ ॥

आनिङ्गनं ददौ तस्मै समुत्थाय जवेन च ।
नानारत्नं मुवर्ण च वस्त्रं च रत्नभूषणम् ॥ ३४ ॥

ददौ तस्मै प्रदानं च प्रसादसुमुखो नृपः ।
गजेन्द्र तुरगं श्रेष्ठं रथं च मणिनिर्मितम् ॥ ३५ ॥

रत्नसिहासनं रम्यं धनं च विपुलं तथा ।
भूमिं च सर्वसस्याढ्यां शश्वद्वृष्टिकरीं शुभाम् ॥ ३६ ॥

अकृष्टसाध्यां पूज्यां च ग्रामं सर्वप्रशंसितम् ।
एतस्मिन्नन्तरे रुक्मिश्चुकोप नृपनन्दनः ॥ ३७ ॥

कम्पितोऽधर्मयुक्तश्च रक्तास्यो रक्तलोचनः ।
उवाच पितरं व्रिप्रं सभायामस्थिरस्तदा ॥ ३८ ॥

उत्याय तिष्ठन्पुरतः सर्वेषां च सभासदाम् ॥ ३९ ॥

रुक्मिरुवाच
श्रृणु राजेन्द्र वचनं हितं तथयं प्रशंसितम् ।
त्यज वाक्यं भिक्षुकाणां लोभिनां क्रोधिनामहो ॥ ४० ॥

नर्तकानां च वैश्यानां भट्टानामर्थिनामपि ।
कायस्थानां च भिक्षूणामसत्यं वचनं सदा ॥ ४१ ॥

घटकानां नाटकानां स्त्रीलुब्धाना च कामिनाम् ।
दरिद्राणां च मूर्खाणां स्तुतिपूर्व वचः सदा ॥ ४२ ॥

निहत्य कालयवनं राजेन्द्रं दूरतो भिया ।
उवायेन महाबाहो लब्धं कृष्णेन तद्धनम् ॥ ४३ ॥

द्वारकाया धनी कृष्णो यवनस्य धनेन च ।
जरासन्धभयेनैव समुद्राभ्यन्तरे गृही ॥ ४४ ॥

जरासन्धशतं चैव क्षणेनैव च लीलया ।
क्षमोऽहं हन्तुमेकाकी राज्ञश्चान्यस्य का कथा ॥ ४५ ॥

दुर्वाससश्च शिष्योऽहं रणशास्त्रविशारदः ।
ध्रुवं भीष्मक तेनैव विश्वं संहर्तुमीश्वरः ॥ ४६ ॥

मत्समः पर्शुरामश्च शिशुपालश्च मत्समः ।
सखा च बलवाञ्छूरः स्वर्गं जेतुं स च क्षमः ॥ ४७ ॥

महेन्द्रं सगणं जेतुमहमीशः क्षणेन च ।
जित्वा युद्धे जरासन्धं दुर्बलं योगिनं नृप ॥ ४८ ॥

अहङ्कारयुतः कृष्णो पीरं स्वं मन्यते धिया ।
यद्यायास्यति मद्ग्रामं विवाहं कर्तुमीप्सितम् ॥ ४९ ॥

ध्रुवं प्रस्थापयिष्यामि क्षणेन यममन्दिरम् ।
अहो नन्दस्य वैश्यस्य तस्मै गोरक्षकाय च ॥ ५० ॥

साक्षाज्जाराय गोपीनां गोपालोच्छिष्टभोजिने ।
करोषि कन्यास्वीकारं देवयोग्यां च रुक्मिणीम् ॥ ५१ ॥

दातुमिच्छसि वाक्येन भिङुकस्य द्विजस्य च ।
राजेन्द्र बुद्धिहीनोऽसि वचनाद्वद्ग(दुर्ब) लस्य च ॥ ५२ ॥

मा राजपुत्रो माशूरो म कुलीनश्च मा शुचिः ।
मा दाता मा धनाढ्यश्च मा योग्यो मा जितेन्द्रियः ॥ ५३ ॥

कन्यां देहि सुपुत्राय शिशुपालाय भूमिप ।
बलेन रुद्रतुष्टाय राजेन्द्रतनयाय च ॥ ५६ ॥

निमन्त्रणं कुरु नृप नानादेशभवान्नृपान् ।
बान्धवांश्च मुनीन्द्रांश्च पत्रद्वारा त्वरान्वितः ५५ ॥

अङ्गं कलिङ्गं मगधं सौराष्ट्रं वल्कलं वरम् ।
राटं वरेन्द्रं वङ्गं च गुर्जरटिं च पठेरम् ॥ ५६ ॥

महाराष्ट्रं विराटं च मुद्गलं च मुरङ्गकम् ।
भल्लकं गल्लकं खर्व दुर्गं प्रस्थापय द्विजम् ॥ ५७ ॥

घृतकुल्यासहस्रं च मधुकुल्यासहस्रकम् ।
दधिकुल्यासहस्रं च दुग्धकुल्यासहस्रकम् ॥ ५८ ॥

तैलकुल्यापञ्चशतं गुडकुल्याद्विलक्षकम् ।
शर्कराणां राशिशतं मिष्टान्नानां चतुर्गुणम् ॥ ५९ ॥

यवगोधूमचूर्णानां पिष्टराशिशतं शतम् ।
पृथुकानां राशिलक्षमन्नानां च चतुर्गुणम् ॥ ६० ॥

गवां लक्षं छेदनं च हरिणानां द्विलक्षकम् ।
चतुर्लक्षं शशानां च कूर्माणां च तथा कुरु ॥ ६१ ॥

दशलक्षं छागलानां भेटानां तच्चतुर्गुणम् ।
पर्वणि ग्रामदेव्यै च बलिं देहि च भक्तितः ॥ ६२ ॥

एतेषां पक्वमांसं च भोजनार्थ च कारय ।
परिपूर्ण व्यञ्जनानां सामग्रीं कुरु भूमिप ॥ ६३ ॥

अथ श्रुत्वा च तद्वाक्यं राजेन्द्रः सपुरोहितः ।
चकार मन्त्रणां तूर्ण निर्जने मन्त्रिणा सह ॥ ६४ ॥

द्विजं प्रस्थापयामास द्वारकां योग्यमीप्सितम् ।
कृत्वा च शुभलग्नं च सर्वेषामभिवाञ्छितम् ॥ ६५ ॥

राजा सम्भृतसम्भारो बभूव सत्वरं मृदा ।
निमन्त्रणं च सर्वत्र चकार च सुताज्ञया ॥ ६६ ॥

विप्रः सुधर्मां सम्प्राप्य नृपैर्देवैश्च वेष्टिताम् ।
प्रददी पत्रिकां भद्रामुग्रसेनाय भूभृते ॥ ६७ ॥

प्रफुल्लवदनो राजा श्रुत्वा पत्रं सुमङ्गलम् ।
सुवर्णानां सहस्रं च ब्राह्मणेभ्यो ददौ मुदा ॥ ६८ ॥

दुन्दुभिं वादयामास द्वारकायां च सर्वतः ।
देवान्मुनीन्नृपांश्चैव ज्ञातिवर्गाश्च बान्धवान् ॥ ६९ ॥

भट्टांश्च भिक्षुकांश्चैव भोजयामास सादरम् ।
श्रीकृष्णस्य सृवेषं च कारयामास भूपतिः ॥ ७० ॥

अतीव रम्यमतुलं त्रेषु लोकेषु दुल्रभम् ।
यात्रां च कारयामास जगतां प्रवरं वरम् ॥ ७१ ॥

वेदमन्त्रेण रम्येण माहेन्द्रे सुमनोहरे ।
आदौ ब्रह्मा रथस्थश्च सावित्र्या सहितो ययौ ॥ ७२ ॥

रथस्यश्च महाहृष्टो भवान्या च भवः स्वयम् ।
शेषश्चापि दिनेशश्च गणेशश्चापि कार्तिकः ॥ ७३ ॥

महेन्द्रश्चतथा चन्द्रो वरुणः पवनस्तथा ।
कुबेरश्च यमो वह्निरीशानोऽपि ययौ मुदा ॥ ७४ ॥

देवानां च त्रिकोट्यश्च मुनीनां षष्टिकोटयः ।
राजेन्द्राणां त्रिलक्षं च श्वेतच्छत्रं त्रिलक्षकम् ॥ ७५ ॥

उग्रसेनो बभौ राजा नक्षत्रेषु यथा शशी ।
ययौ प्रसन्नवदनः कुण्डिनाभिमुखो बली ॥ ७६ ॥

रत्ननिर्माणयानेन बलदेवो महाबलः ।
वसुदेवश्चोद्धवश्च नन्दोऽक्रूरश्च सात्यकिः ॥ ७७ ॥

गोपाला यादवेन्द्राश्च चन्द्रवंश्याश्च ते ययुः ।
धृतराष्ट्रसुताः सर्वे दुर्योधनपुलोगमाः ॥ ७८ ॥

युधिष्ठिरस्तथा भीमः फाल्गुनो नकुलस्तथा ।
सहदेवश्च यानैश्च प्रययुः पञ्च पाण्डवाः ॥ ७९ ॥

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा महाबलः ।
कृपाचार्यश्च शकुनिः शल्यश्चप्रययौ मुदा ॥ ८० ॥

भटानां च त्रिकोट्यश्च विप्राणां शतकोटयः ।
सन्न्यासिनां सहस्रं च यतीनां ब्रह्मचारिणाम् ॥ ८१ ॥

द्विसहस्रं जितक्रोधाश्चावधूतास्तथैव च ।
उत्पलानां सहस्रं च सहस्रं पुष्पकारिणाम् ॥ ८२ ॥

नानाशिर्पकराश्चैव विचित्रं चित्रमेव च ।
लक्षं च वाद्यभाण्डानां नर्तकानां च लक्षकम् ॥ ८३ ॥

गन्धर्वाणां गायकानां लक्षमेव तु नारद ।
तत्र कल्पे भक्त्येव गन्धर्वश्चोपबर्हणः ॥ ८४ ॥

पञ्चाशत्कामिनीभिश्च त्वमेव तेषु मध्यगः ।
विद्याधरीणां लक्षं च लक्षमप्सरसां तथा ॥ ८५ ॥

किन्नराणां त्रिलक्षं चगन्धर्वाणां त्रिलक्षकम् ॥ ८६ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo रुक्मिण्युद्वाहे
पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥