अथ चतुरधिकशततमोऽध्यायः
नारायण उवाच
एतस्मिन्नन्तरे ब्रह्मा भवान्या च भवः स्वयम् ।
अनन्तश्चापि धर्मश्च भास्करश्च हुताशनः ॥ १ ॥
कुबेरो वरुणश्चैव पवनश्च यमस्तथा ।
महेन्द्रश्चपि चन्द्रश्च रुद्राश्चैकादशैव ते ॥ २ ॥
अन्ये देवाश्च मुनयो वसवः सप्त एव च ।
आदित्याश्चापि दैत्याश्च गन्धर्वाः किन्नरास्तथा ॥ ३ ॥
आययुर्द्वारकां द्रष्टुं श्रीकृष्णं च बलं तथा ।
आगच्छन्तं च सहसा वटमूलं मनोहरम् ॥ ४ ॥
दृष्ट्वा च देवताः सर्वास्तुष्टुवुः पुरुषोत्तमम् ।
आकाशाच्च विमानैश्च सम्प्राप्य वटमूलकम् ॥ ५ ॥
ददृशुर्द्वारकां रम्यामतीव सुमनोहरम् ।
मुक्तामाणिक्यहीरेणा रत्नराजिविराजिताम् ॥ ६ ॥
परितश्चतुरस्रां च शतयोजनसम्मिताम् ।
सप्तभिः परिखाभिश्च गम्भीराभिश्च वेष्टिताम् ॥ ७ ॥
प्राकारैर्नवभिर्युक्तां लक्षैः क्रीडासरोवरैः ।
मनोहरैः सपद्मैश्च सहितैश्च मधुव्रतैः ॥ ८ ॥
शोभितां सर्वतोभद्रैः पुष्पोद्यानत्रिलक्षकैः ।
प्रफुल्लपुष्पैः पवनैः सर्वत्र सुरभीकृताम् ॥ ९ ॥
आमोदितां च शीतेन मन्दचन्दनवायुना ।
तरुभिर्नारिकेलाणां शोभितां शतकोटिभिः ॥ १० ॥
गुवाकानां च वृक्षैश्च भूषितां तच्चतुर्गुणैः ।
चतुर्गुणैर्गुवाकानां युक्तामाम्रमहीरुहैः ॥ ११ ॥
परीतां पनसानां च वृक्षैराम्रसमैर्मुने ।
सुशोभितां च तालानां द्रुमैराम्रसमैर्मुने ॥ १२ ॥
अश्वत्थैर्बदरीभिश्च बिल्वैराम्रातकैर्वटैः ।
शाल्मलीभिश्च जम्बूभिः कदम्बैश्चापि शोभिताम् ॥ १३ ॥
वंशैश्च तिन्तिडीभिश्च चम्पकैर्बकुलैस्तथा ।
नागेश्वरैर्नागरङ्गैर्जम्बीरैर्दाडिमैर्युताम् ॥ १४ ॥
खर्जुरैरर्जुनैः पिष्टैरिक्षुभिः काञ्चनैरपि ।
हरीतकीभिर्धात्रीभिरिन्दुभिः परितः प्लुताम् ॥ १५ ॥
शालैः प्रियालैर्हिन्तालैः शिरीषैः सप्तपर्णकैः ।
अन्यैर्नानाद्रुमैरिष्टैरिष्टां युक्तां परिप्लुताम् ॥ १६ ॥
असङ्ख्यैर्मन्दिरै रम्यैरत्युच्चैरपि संस्कृताम् ।
रत्नेन्द्रसारनिर्माणैर्मुक्तामाणिक्यभूषितैः ॥ १७ ॥
माणिक्यहीरकैश्चित्रैः सद्रत्नकलशान्वितैः ।
मणिभिर्निर्मितैरिष्टैः सोपाननिकरैर्वरैः ॥ १८ ॥
कपाटैः कठिनैर्दव्यैरर्गलाकीलकैर्युताम् ।
हरिन्मणीनां स्तम्भानां कदम्बैरपि संयुतैः ॥ १९ ॥
नानाचित्रैर्विचित्रैश्च सुचित्रैश्च परिष्कृतैः ।
दर्पणैः सूक्ष्मवस्त्रैश्च शोभितैः श्वेतचामरैः ॥ २० ॥
प्राङ्गणैः पद्मरागाद्यरिन्द्रनीलपरिष्कृताम् ।
वीथीभी रत्नखचितैराजमार्गैः समन्विताम् ॥ २१ ॥
ग्रीष्मध्याह्नसूर्याभां ज्वलितां रत्नतेजसा ।
गवाक्षलक्षैः संयुक्तां वाजिशालापरिष्कृताम् ॥ २२ ॥
दृष्ट्वा च द्वारकां रम्यां ते देवा विस्मयं ययुः ।
प्रसन्नवदनो देवो लाङ्गली भगवानजः ॥ २३ ॥
सस्मार यदुवंशानां समूहमुग्रसेनकम् ।
वसुदेवं देवकीं च पाण्डवांश्च समातृकान् ॥ २४ ॥
नन्दं यशोदां गोपालान्राजेन्द्रमुनिपुङ्गवाम् ।
गन्धर्वान्किन्नरांश्चैव सहितो यदुपुङ्गवैः ॥ २५ ॥
नन्दो यशोदा गोपाश्च जनन्या सह पाण्डवाः ।
गन्धर्वाः किन्नराश्चैव विद्याधर्यश्च नारद ॥ २६ ॥
किन्नर्यश्चापि नर्तक्यो गायका वाद्यभाण्डकाः ।
भिक्षुका भाण्डकाश्चैव भट्टाश्चगणकास्तथा ॥ २७ ॥
नानादेशो द्भवा भूपा वैद्याश्चान्ये च मानवाः ।
सन्न्यासिनश्च यतयोऽवधूता ब्रह्मचारिणः ॥ २८ ॥
आययुर्मुनयः सर्वे सशिष्याः सिद्धपुङ्गवाः ।
सनकश्च सनन्दश्च त्तीयश्च सनातनः ॥ २९ ॥
सनत्कुमारो भगवाञ्ज्ञानिनां च गुरोर्गुरुः ।
शिष्यैस्त्रिकोटिभिः सार्ध पञ्चवर्षा दिगम्बरः ॥ ३० ॥
शिष्यैस्त्रिलक्षैः सहितो दुर्वासा भगवानजः ।
लक्षशिष्यैः कश्यपश्च वाल्मीकिश्च त्रिलक्षकैः ॥ ३१ ॥
लक्षशिष्यैर्गौ तमश्च कौटिभिश्च बृहस्पतिः ।
शुक्रस्त्रिकोटिभिः सार्ध भरद्वाजश्च लक्षकैः ॥ ३२ ॥
शिष्यैस्त्रिकोटिभिः सार्धमङ्गिरा भगवानजः ।
वसिष्ठः कोटिभिः शिष्यैः प्रचेताः कोटिभिस्तथा ॥ ३३ ॥
त्रिलक्षैश्च पुलस्त्यश्चाप्यगस्त्यः कोटिभिः सह ।
पुलहो लक्षशिष्यैश्च क्रतुर्लक्षैस्थैव च ॥ ३४ ॥
अत्रिस्त्रिकोटिभिः शिष्यैर्भृगुश्च पञ्चकोटिभिः ।
त्रिकोटिभिर्मरीचिश्च शतानन्दः सहस्रकैः ॥ ३५ ॥
सार्ध त्रिकोटिभिः शिष्यैर्ऋष्यशृङ्गो विभाण्डकः ।
पापिनिः कोटिभिः शिष्यैर्लक्षैः कात्यायनस्तथा ॥ ३६ ॥
याज्ञवल्क्यः सहस्रैश्च व्यासः शिष्यत्रिकोटिभिः ।
शिष्यैर्लक्षैश्च सहितो गर्गः कुलपुलोहितः ॥ ३७ ॥
गालवश्च सहस्रैश्च सहसैः सौभरिस्तथा ।
त्रिकोटिभिर्लोमशश्च मार्कण्डेयस्त्रिकोटिभिः ॥ ३८ ॥
कोटिभिर्वामदेवश्च जैगीषव्यस्त्रिकोटिभिः ।
सान्दीपनिर्देवलश्च सच्छिष्यैश्च त्रिकोटिभिः ॥ ३९ ॥
वोढुः शिष्यैः कोटिभिश्च लक्षैः पञ्चशिखस्तथा ।
अहं नारायणश्चैव नरो मम सहोदरः ॥ ४० ॥
शिष्यैस्त्रिकोटिभिः सार्धं विश्वामित्रश्च कोटिभिः ।
त्रिकोटिभिर्जरत्कारुरास्तीकश्च त्रिकोटिभिः ॥ ४१ ॥
त्रिकोटिभिः पर्शुरामो वत्सो लक्षैश्च शिष्यकैः ।
दक्षस्त्रिलक्षैः शिष्यैश्च कपिलः पञ्चकोटिभिः ॥ ४२ ॥
संवर्तश्च त्रिलक्षैश्चाप्युतथ्यश्च तथैव च ।
सहस्रैर्जैमिनिश्चैव पैलो लक्षैस्तथैव च ॥ ४३ ॥
सुवणंश्च सहस्रैश्च वैशम्पायन एव च ।
शिष्यैर्लक्षैः समेतश्च व्यासशिष्यः पुरोगमः ॥ ४४ ॥
लक्षैः शिष्यैस्तथा शृङ्गी चोपमन्युस्तथैव च ।
सहस्रैश्च गौरमुखः कचो लक्षैर्गुरोः सुतः ॥ ४५ ॥
अश्वत्थामा तथा द्रोणः कृपाचार्यः सशिष्यकः ।
भीष्मः कर्णश्च शकुनी राजा दुर्योधनस्तथा ॥
नृपस्य भ्रातरः सर्वे चान्ये भूपा जगद्गुरुम् ॥ ४६ ॥
श्रीभगवानुवाच
शुभकर्मणि निष्पन्ने यास्यन्ति ये समागताः ।
शिवब्रह्मादयो देवा मुनयश्च तथाऽपरे ॥ ४७ ॥
भवाश्च यादवैः सार्धं प्रविश द्वारकां पुरीम् ।
मत्पित्रा मातृभिः सार्ध माहेन्द्रे च क्षणे नृप ॥ ४८ ॥
अपरे यदवोऽन्ये च यास्यन्ति मथुरां पुरीम् ।
श्रुत्वेति विरसो राजा तमुवाच भयाकुलः ॥ ४९ ॥
उग्रसेन उवाच
वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः ।
सर्वतीर्थपरां शुद्धां दैवे कर्मणि पैतृके ॥ ५० ॥
पावके भूमिदेशे च पितॄणां निर्वपेत्तु यः ।
तद्भूमिः स्वामिपितृभिः श्राद्धकर्मणि हन्यते ॥ ५१ ॥
पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् ।
किञ्चित्फलप्रदं चैव सम्पूर्णे पैतृके स्थले ॥ ५२ ॥
पुत्रपौत्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा ।
दुर्लभा पैदृकी भूमिः पितुर्मातुर्गरींयसी ॥ ५३ ॥
तत्सत्यं च पवित्रं च दैवे कर्मणि पैतृके ।
क्रीडां च दत्ते दानं च परदत्तमशुद्धकम् ॥ ५४ ॥
म्रियते पैतृकीभूम्यं तीर्थतुल्यफलं लभेत् ।
गङ्गाजलसमं पूतं पतृखातोदकं हरे ॥ ५५ ॥
तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् ।
पितणां तर्पणां तत्र पवित्रं देवपूजनम् ॥ ५६ ॥
पैतृकी जन्मभूमिश्चेद्द्विगुणं तत्फलं लभेत् ।
पैतृकीभूमितुल्याच दानभूमिः सतामपि ॥ ५७ ॥
वासुदेव उवाच
भोगास्ते वचनं किं वा निषेकः केन वार्यन्ते ।
पैतृकी तीर्थतुल्या सा किं तीर्थं द्वारकापरम् ॥ ५८ ॥
सर्वतीर्थपरा श्रेष्ठा द्वारका बहपुण्यदा ।
यस्याः प्रवेशमात्रेण नराणां जन्मखण्डनम् ॥ ५९ ॥
दानं च द्वारकायां च श्राद्धं च देवपूजनम् ।
चतुर्गुणं च तीर्थानां गङ्गादीनां च भूमिप ॥ ६० ॥
गच्छ ब्रह्मदिभिः सार्ध मुनिभिर्यादवैः सह ।
राजेन्द्रभवनं तत्र गृहाणां सादरं पुनः ॥ ६१ ॥
करोति शश्वन्न्यक्कारं महेन्द्रस्यामरावतीम् ।
निवस त्वं सुधर्मायां माहेन्द्रे च क्षणे नृप ॥ ६२ ॥
जम्बुद्वीपस्थिता भूपा राजेन्द्रमण्डलेश्वराः ।
करं दास्यन्ति तुभयं च महेन्द्राय सुरा यथा ॥ ६३ ॥
भूयाज्जितः कुबेरश्च धनेन धनसम्पदा ।
तेजसा भास्करश्चापि महेन्द्रः सम्पदः तथा ॥ ६४ ॥
देवा जिता रणेनैव पुण्येन मुनयो जिताः ।
तपस्विनश्य तपसा व्रतीनश्च व्रतेन च ॥ ६५ ॥
उग्रसेनसमो राजा न भूतो न भविष्यति ।
सभायां यस्य भगवान्बलदेवो महाबलः ॥ ६६ ॥
विश्वं च यस्य शिरसां सहस्राणं नरेश्वर ।
एकस्मिञ्शिरसि न्यस्तं शूर्पे च सर्षपो यथा ॥ ६७ ॥
न ह्यनन्तसमो देवो बलेन बलवत्तरः ।
यद्गुणानां च नास्त्यन्तस्तेनानन्तं जगुर्बुधाः ॥ ६८ ॥
वसवोऽष्टौ महाभागा रुद्राश्च शङ्करं विना ।
बलिनो द्वादशादित्या महेन्द्रश्च सुरैः समः ॥ ६९ ॥
न समर्था ध्रुवं जेतुमुग्रसेनं नृपेश्वरम् ।
कृष्णस्य वचनं श्रुत्वा प्रसन्नवदनो नृपः ॥ ७० ॥
प्रययौ यादवैः सार्ध महेन्द्रभवनात्परम् ।
स्वालयं द्वारकामध्ये ज्वलन्तं मणितेजसा ॥ ७१ ॥
सहस्रैद्वरिपालैश्च शूलिभिर्दण्डहस्तकैः ।
नियुक्तै रक्षितं द्वारं ददर्श मानवेश्वरः ॥ ७२ ॥
अभ्यन्तरे च शिबिरं द्वारेभ्यः षड्भ्य एव च ।
मन्दिराणां च शतकै रत्नानां परिभूषणम् ॥ ७३ ॥
कोटिं मत्तगजेन्द्राणां ददर्श गजमन्दिरे ।
चतुर्युगं गजौघं गजानां षड्गुणं तथा ॥ ७४ ॥
महाबलांश्च तुरगान्सूर्याश्वं च हसन्ति ये ।
गजेन्द्रराजं सर्वेषां वाहनानामपीश्वरम् ॥ ७५ ॥
हसत्यैरावतं शश्वन्महेन्द्रस्य च नारद ।
अत्युच्चैरुच्चैःश्रवमां ददर्श कोटिमीप्सितम् ॥ ७६ ॥
खराणां दशकोटिं च पादातं षड्गुणं तथा ।
निर्माणं रत्नसाराणां तथानां पञ्चलक्षकम् ॥ ७७ ॥
पञ्चलक्षं सारथीनां तत्राश्वं षड्गुणं तथा ।
अश्ववाटं तत्समं च सुधर्मां च सभामपि ॥ ७८ ॥
ददर्शाम्यन्तरे रम्ये देवौघमुनिसंयुताम् ।
वह्निशुद्धाशुकै रम्यैर्भूषितां रक्तकम्बलैः ॥ ७९ ॥
रत्नसिंहासनै रम्यैर्भूषितां रक्तपिङ्गलैः ।
अमूल्यरत्ननिर्माणवीथीनां तेजसोज्ज्वलाम् ॥ ८० ॥
वेष्टितां च महाभीतैः किङ्करैः शतकोटिभिः ।
प्रविवेश सभां रम्यां श्रुत्वा शङ्खध्वनिं शुभम् ॥ ८१ ॥
वाद्यं च दुन्दुभीनां च मुनीनां वेदमन्त्रकम् ।
दृष्ट्वा नृपं समुत्तस्थौ वेगेन सबलो हरिः ॥ ८२ ॥
ब्रह्मा महेश्वरश्चैव शेषश्च देवपुङ्गवाः ।
समुत्तस्थुः सुराः सर्वे मुनयश्च महाव्रताः ॥ ८३ ॥
राजेन्द्राश्चापि सिद्धेन्द्रा वसुदेवपुरोगमाः ।
रत्नसिंहासने रम्ये चोग्रसेनो महाबलः ॥ ८४ ॥
समुवास महेन्द्रस्य मुनीनामाज्ञया हरेः ।
देवानां च गुरूणां च गर्गस्यापि तथैव च ॥ ८५ ॥
सप्ततीर्थोदकेनैव पूर्णकुम्भेन नारद ।
जकार वेदमन्त्रैश्च नृपस्याप्यभिषेचनम् ॥ ८६ ॥
तस्मै वस्त्रयुगं दत्तं वह्निशुद्धं मनोहरम् ।
वरुणेन पुरा दत्तं कृष्णाय परमात्मने ॥ ८७ ॥
माल्यं च पारिजातानां चन्दनं रत्नभूषणम् ।
रत्नच्छत्रं ददौ तस्मै बलदेवो महाबलः ॥ ८८ ॥
ब्रह्मा कमण्डलुं चैव शूलं चापि महेश्वरः ।
पार्वती रत्नमाल्यं च हारं च मालती सती ॥ ८९ ॥
अन्ये देवाश्च मुनयो राजेन्द्राः सिद्धपुङ्गवाः ।
यौतकं च ददौ तस्मै क्रमेण च पृथक्पृथक् ॥ ९० ॥
वसुदेवो ददौ तस्मै शुभदं श्वेतचामरम् ।
पवनेन पुरा दत्तं कृष्णाय परमात्मने ॥ ९१ ॥
नन्दो ददौ च सुरभिं कामधेनुं च पूजिताम् ।
यशोदा देवकी तस्मै रत्नश्रेष्ठं ददौ मुदा ॥ ९२ ॥
सप्तभिः किङ्करैश्चापि सैवितः श्वेतचामरैः ।
दधार च्छत्रमक्रूरो भक्त्या चैवाऽऽज्ञया हरेः ॥ ९३ ॥
रत्नसिहासने रम्ये ददर्श रत्नदर्पणम् ।
अतीव पुण्यावाप्यं च हरिणां च पुरस्कृतः ॥ ९४ ॥
चक्रुः स्तुतिं च भट्टाश्च भिङुका ब्राह्मणास्तथा ।
ददुः शुभाशिषं तस्मै देवाश्च मुनयस्तथा ॥ ९५ ॥
ब्रह्मणेम्यो ददौ राजा रत्नकोटिं च भक्ततः ।
भट्टभ्यो रत्नशतकं भिक्षुकेम्यस्तथैव च ॥ ९६ ॥
अभिषिच्य नृपेन्द्रं च देवांश्च मुनिपुङ्गवान् ।
सम्पूज्य ब्राह्मणांश्चापि भट्टान्भिक्षुं द्विजं गुरुम् ॥ ९७ ॥
स्वालयं च ययुः सर्वे यादवाश्च मुदाऽन्विताः ।
ये ये हरेः पार्षदाश्च ते सर्वे स्वालयं ययुः ॥ ९८ ॥
प्रभाते चाऽऽययुः सर्वे सुधर्मा च सभां हरेः ।
नमस्कृत्य नृपेन्द्रं च चोषुः सर्वे च संसदि ॥ ९९ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo द्वारकाप्रवेश
उग्रसेनाभिषेको नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥