अथ त्र्यधिकशततमोऽध्यायः
नारायण उवाच
अथाऽऽगत्य मधुपुरीं प्रणम्य पितरं विभुः ।
सबलो वटमूले च सस्मार गरुडं हरिः ॥ १ ॥
सादरं लवणोदं च विश्वकर्मणमीप्सितम् ।
तत्याज गोपवेषं च नृपवेषं दधार सः ॥ २ ॥
एतस्मिन्नन्तरे चक्रमाजगाम् हरिं स्वयम् ।
परं सुदर्शनं नाम सूर्यकोटिसमप्रभम् ॥ ३ ॥
तेजसा हरिणा तुल्यं परं वैरिविमर्दनम् ।
अव्यर्थमस्त्रमस्त्राणां प्रवरं परमं परम् ॥ ४ ॥
रत्नयानं पुरः कृत्वा गरुडो हरिसन्निधिम् ।विश्वकर्मा सशिष्यश्च जलधिः कम्पितस्तथा ॥ ५ ॥
हरिं प्रणेमुस्ते सर्वे मुर्ध्ना च भक्तिपूर्वकम् ।
सस्मितः सादरं यत्नात्तानुवाच क्रमाद्विभुः ॥ ६ ॥
श्रीकृष्ण उवाच
हे समुद्र महाभाग स्थलं च शातयोजनम् ।
देहि मे नगरार्थ च पश्चाद्दास्यामि निश्चितम् ॥ ७ ॥
नगरं कुरु हे कारो त्रिषु लोकेषु दुर्लभम् ।
रमणीयं च सर्वेषां कमनीयं च योषिताम् ॥ ८ ॥
वाञ्चितं चापि भक्तानां वैकुण्ठसदृशं परम् ।
सर्वेषामपि स्वर्गाणां परं पारमभीप्सितम् ॥ ९ ॥
दिवानिशं खगश्रेष्ठ सन्निधौ विश्वकर्मणः ।
स्थितिं कुरु महाभाग यावन्निर्माति द्वारकाम् ॥ १० ॥
दिवानिशं च मत्पार्श्वे चक्रश्रेष्ठ स्थितिं कुरु ।
ओमित्युकत्वा तु प्रययुः सर्वे चकं विना मुने ॥ ११ ॥
कंसस्य पितरं भद्रमुग्रसेनं महाबलम् ।
नृपं चकार नगरे क्षत्रियाणां सतामपि ॥ १२ ॥
विजित्य च जरासन्धं निहत्य यवनं तथा ।
उपायेन महाभाग निर्माणक्रममीश्वरः ॥ १३ ॥
श्रीभगवानुवाच
शतयोजनपर्यन्तं नगरं सुमनोहरम् ।
पद्मरागैर्मरकतैरिन्द्रनीलैरनुत्तमैः ॥ १४ ॥
रुचकैः पारिभद्रैश्च पलङ्कैश्च स्यमन्तकैः ।
गन्धकैर्गालिमैश्चैव चन्द्रकान्तादिभिस्तथा ॥ १५ ॥
सूर्यकान्तादिभिश्चैव पुत्रैश्च स्फटिकाकृतैः ।
हरिद्वर्णैश्च मणिभिः श्यामैर्गोरमुखैश्चषैः ॥ १६ ॥
गोरोचनाभिः पीतैश्च दाडिमीबीजरूपकैः ।
पद्मबीजनिभैश्चैव नीलैः कमलवर्णकैः ॥ १७ ॥
मणिभिः कज्जलाकारैरुज्ज्वलैश्च परिष्कृतैः ।
श्वेतचम्पकवर्णाभैस्तप्तकाञ्चनसन्निभैः ॥ १८ ॥
स्वर्णमूल्यशतगुणैरीषद्रक्तैः सुशोभनैः ।
गरिष्ठैश्च वरिष्ठैश्चम णिश्रेष्ठैश्च पूजितैः ॥ १९ ॥
यथाविधानं यद्योगं यत्र यन्मुक्तमीप्सितम् ।
मणीनां हरणं चैव यक्षसङ्घा हिमालयात् ॥ २० ॥
दिवानिशं करिष्यन्ति यावन्निर्माणपूर्वकम् ।
यक्षैश्च सप्तभिर्लक्षैः कुबेरप्रेरितैरपि ॥ २१ ॥
वेताललक्षैः कूष्माण्डलक्षैः शङ्करयोजितैः ।
दानवैर्ब्रह्मरक्षोभिः शैलकन्यानियोजितैः ॥ २२ ॥
कुरु दिव्यं च पत्नीनां सहस्राणां च षोडश ।
अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ॥ २३ ॥
शिबिरं परिखयुक्तमुच्चै प्राकारवेष्टितम् ।
युक्तद्वादशशालं च सिंहद्वारपरिष्कृतम् ॥ २४ ॥
युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।
निषिद्धवृक्षरहितं प्रसिद्धैश्च परिष्कृतम् ॥ २५ ॥
सुलक्षणं चन्द्रवेधं प्राङ्गणं च तथैव च ।
यदूनामाश्रमं दिव्यं किङ्कराणां तथैव च ॥ २६ ॥
सर्वत्र सिद्धं निलयमुग्रसेनस्य भूभृतः ।
आश्रमं सर्वतोभद्रं वसुदेवस्य मत्पितुः ॥ २७ ॥
विश्वकर्मोवाच
के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन ।
भद्राभद्रप्रदाश्चापि तान्वदस्व जगद्गुरो ॥ २८ ॥
केषामस्थिनियुक्तं च शिबिरं च शुभाशुभम् ।
दिशि कुत्र जलं भद्रमभद्रं च वद प्रभो ॥ २९ ॥
भद्रप्रदश्च को वृक्षो दिशि कृत्र प्रवर्तते ।
किं प्रमाणं गृहाणां च प्राङ्गणानां सुरेश्वर ॥ ३० ॥
मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ।
प्राकाराणां किं प्रमाणं परिखाणां सुरेश्वर ॥ ३१ ॥
द्वाराणां च गृहाणां च प्राकाराणां प्रमाणकम् ।
कस्य कस्य तरोः काष्ठं प्रशस्तं शिबिरे प्रभो ॥ ३२ ॥
अमङ्गलं वा केषां च सर्व मां वक्तुमर्हसि ॥ ३३ ॥
श्रीभगवानुवाच
आश्रमे लारिकेलश्च गृहिणां च धनप्रदः ।
शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ॥ ३४ ॥
सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा ॥ ३५ ॥
शुभप्रदश्च सर्वत्र सुरकारो निशामय ।
बिल्वश्च पनसश्चैवजम्बीरो बदरी तथा ॥ ३६ ॥
प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनदस्तथा ।
सम्पत्प्रदश्च सर्वत्र यतो हि बर्धते गृही ॥ ३७ ॥
जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।
बन्धुप्रदश्च पूर्वस्मिन्दक्षिणे मित्रदस्तथा ॥ ३८ ॥
सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः ।
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥ ३९ ॥
ईशाने सुखदश्चैव सर्वत्रैव निशामय ।
सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥ ४० ॥
अलाबुश्चापि कूष्माण्डमायाम्बुश्च सकिंशुकः ।
खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा ॥ ४१ ॥
वास्तूककारबिल्वश्च वार्ताकश्च शुभप्रदः ।
लताफलं च शुभदं सर्वं सर्वत्र निश्चितम् ॥ ४२ ॥
प्रशस्तं कथितं कारो निषिद्धं च निशामय ।
वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च ॥ ४३ ॥
वटो निषिद्धः शिबिरे नित्यं चोरभयं यतः ।
नगरेषु प्रसिद्धश्च दर्शनात्पुण्यदस्तथा ॥ ४४ ॥
निषिद्धः शाल्मरिश्चैव शिबिरे नगरे पुरे ।
दुःखप्रदश्च सततं भूमिपानां सदाऽपि च ॥ ४५ ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
विद्यामतिनिषिद्धस्तु सततं दुःखदस्तदा ॥ ४६ ॥
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्जयेत् ।
शतेन धनहानिः स्यात्प्रजाहानिर्भवेद्ध्रुवम् ॥ ४७ ॥
शिबिरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ।
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ॥ ४८ ॥
विद्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् ।
खर्जूरश्च गहश्चैव निषिद्धः शिबिरे तथा ॥ ४९ ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगलेषु च ।
वृक्षश्च चणकादीनां धान्यं च मङ्गलप्रदम् ॥ ५० ॥
ग्रामेषु नगरे चापि शिबिरे च तथैव च ।
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥ ५१ ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्चिद्धरिद्रा शुभदा शुभदश्चाऽऽर्द्रकस्तथा ॥ ५२ ॥
हरीतकी च शुभदा ग्रामेषु नगरेषु च ।
न वाद्या भद्रदा नित्यं चाऽऽमलकी घ्रुवम् ॥ ५३ ॥
गजानामस्थि शुभदमश्वानां च तथैव च ।
कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ॥ ५४ ॥
न शुभप्रदमन्येषामुच्छिन्नकारणं परम् ।
वानराणां नराणां च गर्दभानां गवामपि ॥ ५५ ॥
कुक्कुराणां शृगालानां मार्जाराणामभद्रकम् ।
भेटकानां सूकराणां कर्वेषां च शुभपदम् ॥ ५६ ॥
ईशाने चापि पूर्वस्मिन्पश्चिमे च तथोत्तरे ।
शिबिरस्य जलं भद्रमन्यत्राशुभमेव च ॥ ५७ ॥
दीर्घे प्रस्थे समानं च न कुर्यान्मन्दिरे बुधः ।
चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥ ५८ ॥
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।
शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥ ५९ ॥
प्रस्थे हस्तद्वयात्पूर्वं दीर्घे हस्तत्रयं तथा ।
गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥ ६० ॥
न मध्यदेशे कर्तव्यं किञ्चिन्न्यूनाधिके शुभम् ।
चतुरस्रं चन्द्रवेधं शिबिरं मङ्गलप्रदम् ॥ ६१ ॥
अभद्रदं सूर्यवेधं शिबिरं मङ्गलप्रदम् ।
अभद्रदं सूर्यवेधं प्राङ्गणं च तथैव च ॥ ६२ ॥
शिबिराम्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।
धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ॥ ६३ ॥
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।
मालती यूथिका कुन्दं माधवी केतकी तथा ॥ ६४ ॥
नागेश्वरं मल्लिकां च काञ्चनं बकुलं शुभम् ।
अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ॥ ६५ ॥
पूर्वे च दक्षिणे चैव शुभदं नात्र संशयः ।
ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद्गृहं गृही ॥ ६६ ॥
उर्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ।
सूत्रधारं तैलकारं स्वर्णकारं च हीरकम् ॥ ६७ ॥
वाटीमूले ग्राममध्ये न कुर्यात्स्थापनं बुध ।
ब्राह्मणं क्षभियं वैश्यं सच्छूद्रं गणकं शुभम् ॥ ६८ ॥
भट्टं वैद्यं पुष्पकारं स्थापयेच्छिबिरान्तिके ।
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ॥ ६९ ॥
पारतः शिबिराणां च गम्भीरं दशहस्तकम् ।
सेकेतपूर्वकं चैव परिखाद्वारमीप्सितम् ॥ ७० ॥
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ।
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च ॥ ७१ ॥
निम्बाणां सिन्धुवाराणां बदरीणामभद्रकम् ।
धत्तूराणां वटानां चाप्येरण्डानामवाञ्छितम् ॥ ७२ ॥
एतेषामतिरिक्तानां शिबिरे काष्ठमीप्सितम् ।
वृक्षं च वज्रहस्तं च भूधरो वर्जयेदधः ॥ ७३ ॥
पुत्रदारधनं हन्यादित्याह कमलोद्भवः ।
कथितं लोकशिक्षार्थं कुरुकाष्ठं विना पुरीम् ॥ ७४ ॥
शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ।
विश्वकर्मा हरिं नत्वा जगाम् पक्षिणा सह ॥ ७५ ॥
समुद्रस्य समीपं च वटमूलं मनोहरम् ।
सुष्वाप तत्र नक्तं च कारुश्च पक्षिणा सह ॥ ७६ ॥
स्वप्ने द्वारवतीं रम्यां ददर्श गरुडस्तथा ।
यत्किञ्चित्कथितं कारुं कृष्णेन परमात्मना ॥ ७७ ॥
तदेव लक्षणं सर्वं ददर्श नगरे मुने ।
कारुं हमन्ति स्वप्ने च सर्वे ते शिल्पकारिणः ॥ ७८ ॥
गरुडं गरुडाश्चान्ये बरवन्तश्च पक्षिणः ।
बुद्धो ददर्श गरुडो विश्वकर्मा च लज्जितः ॥ ७९ ॥
अतीव द्वारकां रम्यां शतयोजनविस्तृताम् ।
ब्रह्मादीनां च नगरं विजित्य च विराजिताम् ॥
तेजसाऽऽच्छादितां सूर्यं रत्नानां च परिष्कृताम् ॥ ८० ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo द्वारकानि-
र्माणारम्भे त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥