०९९

अथ नवनवतितमोऽध्यायः
नारायण उवाच
एतस्मिन्नन्तरे गर्गो वसुदेवाश्रमं ययौ ।
दण्डी छत्री च जटिलो दीप्तश्च ब्रह्मतेजसा ॥ १ ॥

शुक्लयज्ञोपवीती च तपस्वी संयतः सदा ।
शुक्लदन्तः शुक्लवासा यदोः कुलपुरोहितः ॥ २ ॥

तं दृष्ट्वा सहसोत्थाय देवकी प्रणनाम च ।
वसुदेवश्च भक्त्या च रत्नसिहासनं ददौ ॥ ३ ॥

मधुपर्कं कामधेनुं वह्निशुद्धांशुकं तथा ।
दत्त्वा गन्धं पुष्पमाल्यं पूजयामास भक्तितः ॥ ४ ॥

मिष्टान्नं परमान्नं च पिण्टकं मधुरं मधु ।
भोजयामास यत्नेन ताम्बूलं वासितं ददौ ॥ ५ ॥

प्रणम्य कृष्णं मनसा सबलं तं विलोक्य च ।
उवाच वसुदेवं च देवकीं च पतिव्रताम् ॥ ६ ॥

गर्ग उवाच
वसुदेव निबोधेनं सवलं पश्य पुत्रकम् ।
उवनीतोचितं शुद्धं वयमा साम्प्रतं वरम् ॥ ७ ॥

वसुदेव उवाच
शुभक्षणं कुरु गृरो यदूनां पूज्यदैवत ।
उपनीतोचितं शुद्धं प्रशंस्यं च सतामपि ॥ ८ ॥

गर्ग उवाच
सर्वेम्यो बान्धवेम्योऽपि देह्यामन्त्रणपत्रिकाम् ।
सम्भारं कुरु यत्नेन वसुदेव वसुपम ॥ ९ ॥

परश्वः सुभमेवास्ति चोपेनतुमिहार्हसि ।
दिनं सतामपि मतं विशुद्धं चन्द्रतारयोः ॥ १० ॥
गर्गस्य वचनं श्रुत्वा वसुदेवो वसूपमः ।
प्रस्थापयामास सर्वान्बन्धून्मङ्गलपत्रिकाम् ॥ ११ ॥

घृतकुल्यां दुग्धकुल्यां दधिकुल्यां मनोहराम् ।
मधुकुल्यां गुडकुल्यां प्रचकार समन्वितः ॥ १२ ॥

राशिं नानोपहाराणां मणिरत्नं सुवर्णकम् ।
नानालङ्कारवस्त्रं च मुक्तामाणिक्यहीरकम् ॥ १३ ॥

श्रीकृष्णो देववर्गाश्च मुनीन्द्रसिद्धपुङ्गवान् ।
सस्मार मनसा भक्त्या भक्ताश्च भक्तवत्सलः ॥ १४ ॥

शुभे दिने च सम्प्राप्ते ते च सर्वे समाययुः ।
मुनीन्द्रा बान्धवा देवा राजानो बहुशस्तथा ॥ १५ ॥

देवकन्या नागकन्या राजकन्याश्च सर्वशः ।
विद्याधर्यश्च गन्धर्वाश्चाऽऽययुर्वाद्यभाण्डकाः ॥ १६ ॥

ब्राह्मणा भिक्षुका भट्टा यतयो ब्रह्मचारिणः ।
सन्न्यासिनश्चावधूता योगिनश्च समाययुः ॥ १७ ॥

स्त्रीबान्धवाः स्वबन्धूनां वर्गा मातामहस्य च ।
बन्धूनां बान्धवाः सर्वे स्वाययुः शुभकर्मणि ॥ १८ ॥

भीष्मो द्रोणश्च कर्णश्चाप्यश्वत्थामा कृपो द्विजः ।
सुपुत्रो धृतराष्ट्रश्च सभार्यश्च समाययौ ॥ १९ ॥

कुन्ती सपुत्रा विधवा हर्षशोकसमाप्लुता ।
नानादेशोद्भवा योग्या राजानो राजपुत्रकाः ॥ २० ॥
अत्रिर्वसिष्ठश्च्यवनो भरद्वाजो महातपाः ।
याज्ञवल्क्यश्च भीमश्च गार्ग्यो गर्गो महातपाः ॥ २१ ॥

वत्सः सपुत्रश्च धर्मो जैगीषव्यः पराशरः ।
पुलहश्च पुलस्त्यश्चाप्यगस्त्यश्वापि सौभरिः ॥ २२ ॥

सनकश्च सनन्दश्च तृतीयश्च मनातनः ।
सनत्कुमारो भगवान्वोढुः पञ्चशिखस्तथा ॥ २३ ॥

तुर्वासाश्चाङ्गिरा व्यासो व्यासपुत्रः शुकस्तथा ।
कुशिकः कौशिको राम ऋष्यशृङ्गो विभाण्डकः ॥ २४ ॥

शृङ्गी च वामदेवश्च गौतमश्च गुणार्णवः ।
क्रतुर्यतिश्चाऽऽरुणिश्च शुक्राचार्यो बृहस्पतिः ॥ २५ ॥

अष्टावक्रो वामनश्च वाल्मीकिः पारिभद्रकः ।
पैलो वैशम्पायनश्च प्रचेताः पुरुजित्तथा ॥ २६ ॥

भृगुर्मरीचिर्मधुजित्कश्यपश्च प्रजापतिः ।
अदितिर्देवमाता च दितिर्दैत्यप्रसूस्तथा ॥ २७ ॥

सुमन्तुश्च सुभानुश्च कण्वः कात्यायनस्तथा ।
मार्कण्डेयो लोमशश्च कपिलश्च पराशरः ॥ २८ ॥

पाणिनिः पारियात्रश्च पारिभद्रश्च पुङ्गवः ।
संवर्तश्चाप्युतथ्यश्च नरोऽहं चापि नारद ॥ २९ ॥

विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा ।
सान्दीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां गुरुः ॥ ३० ॥
उपमन्युर्गौरमुखो मैत्रेयश्च श्रुतश्रवाः ।
कठः कचश्च करखो भरद्वाजश्च धर्मवित् ॥ ३१ ॥

सशिष्या मुनयः सर्वे वसुदेवाश्रमं ययुः ।
वसुदेवश्च तान्दृष्ट्वा ववन्दे दण्डवद्भुवि ॥ ३२ ॥

अथास्मिन्नन्तरे ब्रह्मा सस्मितो हंसवाहनः ।
रत्ननिर्माणयानेन पार्वत्या सह शङ्करः ॥ ३३ ॥

नन्दी स्वयं महाकालो वीरभद्रः सुभद्रकः ।
मणिभद्रः पारिभद्रः कार्तिकेयो गणेश्वरः ॥ ३४ ॥

गजेन्द्रेण महेन्द्रश्च धर्मश्चन्द्रो रविस्तथा ।
कुबेरो वरुणश्चैव पवनो वह्निरेव च ॥ ३५ ॥

यमः संयमिनीनाथो जयन्तो नलकूबरः ।
सर्वे ग्रहाश्च वसवो रुद्राश्च सगणस्तथा ॥ ३६ ॥

आदित्याश्च तथा शेणो नानादेवाः समाययुः ।
वसुदेवश्च भक्त्या च ववन्दे शिरसा भुवि ॥ ३७ ॥

तुष्टाव परया भक्त्या देवेन्द्रांश्च तथा सुरान् ।
भक्तिन म्रात्ममूर्धा च पुलकाञ्चितविग्रहः ॥ ३८ ॥

वसुदेव उवाच
परं ब्रह्म परं धाम परमेशः परात्परः ।
स्वयं विधाता मद्गेहे जगतां परिपालकः ॥ ३९ ॥

वेदानां जनकः स्रष्टा सृष्टिहेतुः सनातनः ।
सुराणां च मुनीन्द्राणां सिद्धेन्द्राणां गुरोर्गुरुः ॥ ४० ॥
स्वप्ने यत्पादपद्मं च क्षणं द्रष्टुं सुदुर्लभम् ।
शिवस्मरणमोत्रेण सर्वानिष्टाः पलायिताः ॥ ४१ ॥

सर्वसङ्कटमुत्तीर्य कल्याणं लभते नरः ।
सर्वाग्रे पूजनं यस्य देवानामग्रणीः परः ॥ ४२ ॥

घटेषु मङ्गलं मन्त्रैर्भक्त्या चाऽऽवाहनेन च ।
स्वयं गणेशो भगवान् साक्षाद्विघ्नविनाशकः ॥ ४३ ॥

कार्तिकेयश्च भगवान्देवादीनां च पूजितः ।
देवानां प्रवरा पूज्या महालक्ष्मीः परात्परा ॥ ४४ ॥

मद्गेहे पार्वती माता जगतामादिरूपिणी ।
सर्वशक्तिस्वरूपा च मूलप्रकृतिरीश्वरी ॥ ४५ ॥

परापराणां परमा परब्रह्मस्वरूपिणी ।
यस्याः पादौ समाराध्य वाञ्छितं लभते नरः ॥ ४६ ॥

शरत्कारे च भक्त्या च सा साक्षान्मम मन्दिरे ।
सर्वदेवैश्च सहिता सगणा भक्तवात्सला ॥ ४७ ॥

कृपामयी च कृपया चाऽऽविर्भूता च भारते ।
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ॥ ४८ ॥

आगताऽसि यतो दुर्गे परमाद्या च मद्गृहे ।
एवं सर्वांश्च तुष्टाव क्रमेण च परस्परम् ॥ ४९ ॥

सर्वान्मुनीन्द्रान्विप्रांश्च गले बद्ध्वांऽशुकं मुदा ।
प्रत्येकं वासयामास रत्नसिहासने वरे ॥ ५० ॥
पूजयामास विधिवत्क्रमेण च पृथक्पृथक् ।
प्रत्येकं वरयामास ब्रह्मादींश्च सुरानपि ॥ ५१ ॥

मुनिवर्गान्ब्राह्मणांश्च भक्त्या गर्गं पुरोहितम् ।
रत्नैः प्रवालैर्मणिभिर्मुवतामाणिक्यहीरकैः ॥ ५२ ॥

भूषणैर्वसनैश्चैव माल्यैश्च गन्धचन्दनैः ।
लत्नसिहासने रम्ये सर्वेषां मध्यदेशतः ॥ ५३ ॥

गणेशं वासयामास पूजार्थं शुभकर्मणि ।
सप्ततीर्थोदकेनैव सुवर्णकलशेन च ॥ ५४ ॥

पुष्पजन्द्रनयुक्तेन शीतेन वासितेन च ।
स्वर्गगङ्गाजलेनैव पुष्करोदकुण्यतः ॥ ५५ ॥

पञ्चामृतेन शुद्धेन पञ्चगव्येन भक्तितः ।
हेरम्बं स्नापयामास समुद्रोदेन मन्त्रतः ॥ ५६ ॥

वरयामास माल्येन पारिजातस्य नारद ।
रत्नेन्द्रभूषणेनैव वह्निशुद्धेन वाससा ॥ ५७ ॥

गन्धयन्दनपुष्पैश्च रत्नमाल्याङ्गुलीयकम् ।
तुष्टाव पार्वतीपुत्रं सर्वदेवाधिपं शुभम्
विघ्ननिघ्नकरं शान्तं भगवन्तं सनातनम् ॥ ५८ ॥

इति श्रीब्रह्मo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवदुपनयने
गणेशाभिषेको नाम नवनवतितमोऽध्यायः ॥ ९९ ॥