अथ सप्तनवतितमोऽध्यायः
नारायण उवाच
गच्छन्तमुद्धवं दृष्ट्वा सन्त्रस्ता श्रीहरेः प्रिया ।
समुत्थायाऽऽसनाच्छीघ्रं हृदयेन विदूयता ॥ १ ॥
गोपीभिः सहिता शीघ्रं समुद्विग्ना सहासती ।
ददौ शुभाशिषं तस्मै तस्य मूर्ध्नि करं तथा ॥ २ ॥
स्तिग्धदूर्वाक्षतं शुक्लधान्यं पुष्पं च मङ्गलम् ।
प्रेरयामास लाजांश्च फलं पर्णं तथा दधि ॥ ३ ॥
दर्मणं दर्शयामास पूर्णकुम्भ सपल्लवम् ।
सफलं गन्धसिन्धूरकस्तूरीचन्दनान्वितम् ॥ ४ ॥
पुष्पमाल्यं प्रदीपं च रत्नं गन्धं द्विजोत्तम ।
पतिपुत्रवती साध्वी काञ्चनं रजतं तथा ॥ ५ ॥
तमुवाच महासाध्वी हितं सत्यं च मङ्गलम् ।
सङ्गोप्यं साश्रुनेत्रं च पतितं दुःखिता हृदि ॥ ६ ॥
राधिकोवाच
शुभं भवतु मार्गस्ते कल्याणमस्तु सन्ततम् ।
ज्ञानं लभ हरेः स्थानात्कृष्णस्य सुप्रियो भव ॥ ७ ॥
कृष्णभक्तिः कृष्णदास्यं दलेषु च वरं वरम् ।
श्रेष्ठा पञ्चविधा मुक्तेर्हरिभक्तिर्गरीयसी ॥ ८ ॥
ब्रह्मत्वादपि देवत्वादिन्द्रत्वादमरादपि ।
अमृतात्सिद्धिलाभाच्च हरिदास्यं सुदुर्लभम् ॥ ९ ॥
अनेकनन्मतपसा सम्भूय भारते द्विजः ।
हरिभक्तिं यदि लभेत्तस्य जन्म सुदुर्लभम् ॥ १० ॥
सफलं जीवनं तस्य कुर्वतः कर्मणः क्षयम् ।
पितॄणां च सहस्राणि स्वस्य मातुश्च निश्चितम् ॥ ११ ॥
मातामहानां पुंसां च शतानां सोदरस्य च ।
बान्धवस्यापि पत्न्याश्च गुरूणां शिष्यभृत्ययोः ॥ १२ ॥
तत्कर्म शोभरं वत्स यच्च कृष्णो समर्पणम् ।
तत्कर्म शोभनं शुद्धं कुष्णसन्तोषणं यतः ॥ १३ ॥
सङ्कल्पसाधनं कर्म सम्प्रीतिविधिपूर्वकम् ।
तदेव मङ्गलं धन्यं परिणामसुखावहम् ॥ १४ ॥
तद्व्रतं तत्तपः सत्यं तद्भक्तिः पूजनं तथा ।
तदुद्देश्यमनशनं केवलं दास्यकालणम् ॥ १५ ॥
समस्तपृथिवीदानं प्रदक्षिण्यं भुवस्तथा ।
समस्ततीर्थस्नानं च समस्तं च व्रतं तपः ॥ १६ ॥
समस्तयज्ञकरणं सर्वदानफलं तथा ।
समस्तवेदवेदाङ्गपठनं पाठनं तथा ॥ १७ ॥
भीतस्थं रक्षणं चैव ज्ञानदानं सुदुर्लभम् ।
अतिथीनां पूजनं च शरणागतरक्षणम् ॥ १८ ॥
सर्वदेवार्चनं चैव वन्दनं जपनं मनोः ।
भोजनं विप्रदेवानां पुरश्चरणपूर्वकम् ॥ १९ ॥
गुरुशुश्रूषणं चैव पित्रोर्भक्तिश्च पोषणम् ।
सर्वं श्रीकृष्णदास्यस्य कलां नार्हति षोडशीम् ॥ २० ॥
तस्मादुद्धव यत्नेन भज कृष्णं परात्परम् ।
निर्गुणं च निरीहं च परमात्मानमीश्वरम् ॥ २१ ॥
नित्यं सत्यं परं ब्रह्म प्रकृतेः परमीश्वरम् ।
परिबूर्णतमं शुद्धं भक्तानुग्रहविग्रहम् ॥ २२ ॥
कर्मिणां कर्मणां साक्ष्यप्रदं निर्लिप्तमेव च ।
ज्योतिः स्वरूपं परमं कारणानां च कारणम् ॥ २३ ॥
सर्वस्वरूपं सर्वेशं सर्वसम्पत्प्रदं शुभम् ।
भक्तिदं दास्यदं स्वस्य निजसम्पत्पदप्रदम् ॥ २४ ॥
विसृज्य ज्ञातिबुद्धिं च मात्सर्यमशुभप्रदम् ।
भज तं परमानन्दं सानन्दं नन्दनन्दनम् ॥ २५ ॥
वेदे कौथुमिशाखायां तस्य नाम्नां सहस्रकम् ।
नन्दनन्दननामोक्तं कृतौ विघ्नं सुदुर्लभम् ॥ २६ ॥
उद्धवः सर्वमाकर्ण्य परमं विस्मयं ययौ ।
ज्ञानं सम्प्राप्य सम्पूर्ण परिबूर्णे भभूव ह ॥ २७ ॥
स्ववस्त्रं च गले बद्ध्वा दण्डवत्प्रणनाम् ताम् ।
मुर्ध्नः केशैश्च तत्पादं निबध्य च पुनाः पुनः ॥ २८ ॥
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रश्च भक्तितः ।
तद्विच्छेदशुचा प्रेम्ण रुरोदोच्चैश्च नारद ॥ २९ ॥
रुरोद राधा तत्प्रेम्णा रुरोद बल्लवीगणः ।
उद्धवस्य गलं धृत्वा सथापयामास लोभतः ॥ ३० ॥
उद्ववं मूर्च्छितं दृष्ट्वा जृम्भितं त्यक्तचेतनम् ।
शीघ्रसुत्थापयामास राधिका कृष्णमानसम् ॥ ३१ ॥
चेतनं कारयामास जलं दत्त्वा मुखाम्बुजे ।
शुभाशिषं च प्रददौ वत्स जीवेति नारद ॥ ३२ ॥
उद्धवश्चेतनां प्राप्य तमुवाच सुसंसदि ।
रुदतीनां च गोपीनां पुरतः परमार्थदम् ॥ ३३ ॥
उद्धव उवाच
धन्यो यशस्यो द्वीपानां जम्बुद्वीपः सुदुर्लभः ।
यत्र भारतवर्ष तु सर्वैषामीप्सितं वरम् ॥ ३४ ॥
अहो भारतवर्षे तु पुण्यं वृन्दावनं वनम् ।
राधापादाब्जसंस्पर्शरजः पूतं सुरेप्सितम् ॥ ३५ ॥
धन्या मान्या च पृथिवी त्रेषु लोकेषु पूजिता ।
राधायास्तीर्थपूतायाः पादाब्जरजसा वरा ॥ ३६ ॥
षष्टिवर्षसहस्राणि दिव्यानि पुष्करे पुरा ।
ब्रह्मणा च तपस्तप्तं वेदोक्तं भक्तिपूर्वकम् ॥ ३७ ॥
गोलोके राधिकाकृष्णदर्शनार्थं मनोरथात् ।
गोलोके राधिकाकृष्णो न दृष्टः स्वप्नतस्तदा ॥ ३८ ॥
श्रुता तेनाऽऽकाशवाणी सत्यरूपा च लीलया ।
वाराहे भारते वर्षे पुण्ये वृन्दावने वने ॥ ३९ ॥
रासोत्सवे महाराम्ये तत्रैव रासमण्डले ।
द्रक्ष्यसीति च देवानां मध्ये सुस्थो न संशयः ॥ ४० ॥
श्रुत्वा च विरतो ब्रह्मा तपसः स्वगृहं गतः ।कृष्णो दृष्टश्च हृष्टश्च परिपूर्णमनोरथः ॥ ४१ ॥
गोपानां गोपिकानां च सफलं जन्म जीवनम् ।
नित्यं पश्यन्ति ते पादपद्मं ब्रह्मादिदुर्लभम् ॥ ४२ ॥
मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः ।
योगीन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा वैष्णवास्तथा ॥ ४३ ॥
सतीं पुण्यां तीर्थपूतां स्वतः शुद्धां सुदुर्लभाम् ।
सुलभं यत्वदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥ ४४ ॥
यत्पादपद्मनखरं कृतं यावकचिह्नितम् ।
सर्वेश्वरेश्वरेणैव कृष्णेन परमात्मना ॥ ४५ ॥
चकार यस्याः पूजां च स्तोत्रराजं सुदुर्लभम् ।
शतशृङ्गे स्वयं कृष्णो गोलोके रासमण्डले ॥ ४६ ॥
पारिजातप्रसूनानामञ्जलिं गन्धयन्दनम् ।
ददौ दूर्वाक्षतं स्निग्धं यस्याः पादारविन्दयोः ॥ ४७ ॥
त्रिंशत्सहस्रकोटीनां गोपीनामीश्वरी च या ।
तत्षट्त्रिंशत्सखीनां च ईश्वरी राधिकाभिधा ॥ ४८ ॥
ये वा द्विषन्ति निन्दन्ति पापिनश्च हसन्ति च ।
कृष्णप्राणाधिकादेवदेवीं च राधिकां वराम् ॥ ४९ ॥
ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः ।
तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे ॥ ५० ॥
तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके ।
चतुर्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह ॥ ५१ ॥
ततः परं च जायन्ते जन्मैकं लोकजन्मतः ।
दिव्यं वर्षसहस्रं च विष्ठाकीटाश्च पापतः ॥ ५२ ॥
पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षकाः ।
मलकीटाश्च तन्मानवर्षं च पूयभक्षकाः ॥ ५३ ॥
वेदे च काण्वशाखायामित्याह कमलोद्भवः ।
इत्युक्तवन्तं तं यान्तमुवाच राधिका पुनः
रुदन्तं च रुदन्ती सा कृष्णविच्छेदकातरा ॥ ५४ ॥
राधिकोवाच
गच्छ वत्स मधुपुरीं सर्वं बोधय माधवम् ।
यथा पश्यामि गोविन्दं प्रयत्नेन तथा कुरु ॥ ५५ ॥
निष्फलं च गतं जन्म गच्छ मिथ्यादुराशया ।
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ॥ ५६ ॥
पश्चाद्विचिन्त्य गोविन्दं जीवन्मुक्ता बभूव सा ।
इत्युक्त्वा राधिका तत्र रुरोद च भृशं पुनः ॥ ५७ ॥
प्रणम्य तां रुदन्तीं च यशोदाभवनं ययौ ।
अथोद्धवे गते राधा मूर्च्छां मम्प्राप नारद ॥ ५८ ॥
तत्याज चेतनां शश्वद्बभूव ध्यानतत्परा ।
पङ्कस्थे पङ्कजदके सजले शयने मुने ॥ ५९ ॥
गोप्यस्तां स्थापयामासुः साश्रुनेत्रोत्पला वराः ।
तत्स्पर्शमात्राच्छयनं भस्मीभूतं बभूव ह ॥ ६० ॥
पुनः स्निग्धस्थले स्थिग्धनिचोले चन्दनाङ्किते ।
पुनस्तां स्थापयामासुर्विरहज्वरकातराम् ॥ ६१ ॥
सहसा शुष्कतां प्राप सुगन्धि चन्दनोदकम् ।
निमेषेण शतयुगं तद्बभूवोद्धवं विना ॥ ६२ ॥
हा होद्धवोद्धव हरिं शीघ्रं गत्वा वदेति च ।
समानय हरिं शीघ्रं मत्प्राणेश्वरमित्यपि ॥ ६३ ॥
इत्युक्तवचनां दीनां सन्तापहृतचेतनाम् ।
रुरुदुर्गोपिकाः सर्वा राधां कृत्वा स्ववक्षसि
चेतनां कारयामासुर्बोधयामासुरौप्सितम् ॥ ६४ ॥
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo
सप्तनवतितमोऽध्यायः ॥ ९७ ॥