०९६

अथ षण्णवतितमोऽध्यायः
नारायण उवाच
श्रीकृष्णस्मरणं कृत्वा गमनोन्मुखमुद्धवम् ।
नतं राधापदाम्भोजे शिरसा पुलकाञ्चितम् ॥ १ ॥

उवाच माधवी गोपी रुदती प्रेमविह्वला ।
भक्तं रुदन्तमुच्छैश्च राधाविच्छेदकातरम् ॥ २ ॥

माधव्युवाच
उद्धव शृणु वक्ष्यामि क्षणं तिष्ठ यथोचितम् ।
निगूढं परमं ज्ञानं यत्ते मनसि वाञ्छितम् ॥ ३ ॥

सुदुर्लभं पुराणेषु वेदेषु गोपनीयकम् ।
प्रश्नं कुरु महाभाग राधिकां त्रिजगत्प्रसूम् ॥ ४ ॥

इत्युक्त्वा सा च गोपीशा समुवास मुसंसदि ।
उवाच मधुरं शान्तामुद्धवश्चापि राधिकाम् ॥ ५ ॥

उद्धवउवाच
एकाकी भवमायाति यात्येकाकी पुनः पुनः ।
प्राणी कर्मानुरोधेन स्वकर्मफलभुक्पुमान् ॥ ६ ॥

कर्मणा जायते जन्तुः कर्मणौव प्रलीयते ।
सुखं दुःखं भयं शोकं कर्मणैवाभिपद्यते ॥ ७ ॥

जन्तुर्भोगावशेषेण भोगं भुङ्क्ते भवेषु च ।
पुनश्च कर्मणो भोगात्समायाति च याति च ॥ ८ ॥

रत्नादिकं च यत्किचिन्मह्यं दत्तं त्वया सति ।
मया सार्ध न यात्येव तेन मे किं प्रयोजनम् ॥ ९ ॥

भवाब्थितारणे देवि भवती तरणिर्वरा ।
कर्णधारः स्वयं कृष्णः सर्वेषां पारकारकः ॥ १० ॥
किञ्चिद्यानं देहि मह्यं भवाब्धिपारकारणम् ।
प्राप्य प्रसातं यास्यामि मथुरां कृष्ममूलकम् ॥ ११ ॥

यां यां कालगतिं मातः सुराणां च नृणामपि ।
पितॄणां ब्रह्मलोकस्य तदूर्ध्वस्य च तां वद ॥ १२ ॥

तामेव दुस्तरां घोरां तीर्त्वा यामि हरेः पदम् ।
एवम्भूतमुपायं च देहि मे कमलालये ॥ १३ ॥

दूरतो यत्पदाम्भोजं ध्यायन्ते च दिवानिशम् ।
देवा ब्रह्मेशशेषाद्यास्त्वं तद्वक्षः स्थलस्थिता ॥ १४ ॥

उद्धवस्य वचः श्रुत्वा जहास कमलालया ।
वाससा नेत्रनीरं च सम्भार्ज्य तमुवाच सा ॥ १५ ॥

राधोवाच
माधवीवचनेनैव करोषि प्रश्नमुद्धव ।
स्त्रीजातिरबला लोके किं वा ज्ञानं ददामि ते ॥ १६ ॥

शुद्धां कालगतिं वत्स जानाति भगवान्हरिः ।
ब्रह्म महेशः शेषश्च वेदाश्चत्वार एव च ॥ १७ ॥

किञ्चिद्वेदानुसारेण सन्तो जानन्ति पुत्रक ।
श्रूयतां कुष्णवक्त्रेण गोलोके रासमण्डले ॥ १८ ॥

गोलोके चापि वैकुण्ठे ब्रह्मलोके च साम्प्रतम् ।
या च दृष्टा कालगतिस्तामेव कथयामि ते ॥ १९ ॥

नृणां पितॄणां देवानां ब्रह्मलोकादिकस्य च ।
बहिल्रोकस्य ब्रह्माण्डात्पातालानां च निश्चितम् ॥ २० ॥
दुरत्ययां कालगतिं येनोपायेन पण्डिताः ।
निस्तरन्ति बुधश्रेष्ठ कथयामि निशामय ॥ २१ ॥

भजन्ति जगतां नाथं कालकालं जगद्गुरुम् ।
निर्गुणं च निरीहं च परमात्मानमीश्वरम् ॥ २२ ॥

सद्यः पतति देहोऽयं विना येन सदात्मना ।
तं निषेव्य कालगतिं तलत्येव हि केवलम् ॥ २३ ॥

आयुर्हरति सर्वेषां प्राणिनां रविरेव च ।
श्रीहरेः शुद्धभक्तानां सतां पुण्यवतां विना ॥ २४ ॥

विधेर्मानसिकान्पुत्रांश्चतुरः पश्य पुत्रक ।
सनकादीन्भागवतान्येषां च सुस्थिरं वमः ॥ २५ ॥

रुद्राद्यान्वयसा नित्याञ्ज्ञातिनां च गुरोर्गुरून् ।
बालाननुपनीतांश्च पञ्चवर्षशिशून्यथा ॥ २६ ॥

अम्यन्तरे महास्फीतान्सस्मितांश्च दिगम्बरान् ।
श्रीकृष्णध्यानपूताश्च तीर्थपूतांश्च वैष्णवान् ॥ २७ ॥

वेदवेदाङ्गशास्त्राणां चिन्ताहीनान्प्रफुल्लितान् ।
भक्त्या दिवानिशं शश्वद्धरिभावेन तत्परान् ॥ २८ ॥

बाह्यपूजाविहीनांश्च पूतान्मानसिकांस्तथा ।
मृत्युञ्जयान्महाभागान्कालव्यालजितस्तथा ॥ २९ ॥

सनकं च सनन्दं च तृतीयं च सनातनम् ।
परं सनत्कुमारं च ये स्मरन्ति च सर्वशः ॥ ३० ॥
तीर्थस्नानफलं लब्ध्वा मुच्यते कृतपातकात् ।
हरिभक्तिर्भवेत्तेषां हरिदास्यं लभन्ति च ॥ ३१ ॥

मृकण्डुबालकं पश्य कर्मणा च द्विजोत्तमम् ।
दशवर्षायुषं तीव्रं ज्वलन्तं ब्रह्मतेजसा ॥ ३२ ॥

हरिसेवनतः पश्चात्सप्तकल्पान्तजीविनम् ।
वोढुं पञ्चशिखं पश्य लोमशं चाऽऽसुरिं तथा ॥ ३३ ॥

सर्वकर्मविहीनं च हरिसेवनतत्परम् ।
शतकल्पायुषं चैव ध्यायमानं हरेः पदम् ॥ ३४ ॥

जमदग्नेः सुतं पश्य रामं तं चिरजीविनम् ।
हनुमन्तं बलिं व्यासमश्वत्थामानमेव च ॥ ३५ ॥

विभीषणं कृपं विप्रं जाम्बवन्तं च भल्लुकम् ।
हरिभावनया चैते शुद्धाः सुचिरजीविनः ॥ ३६ ॥

सिद्धेन्द्रेषु मुनीन्द्रेषु नरेष्वन्येषु चोद्धव ।
हरिभावनशुद्धाश्च सर्वे ते चिरजीविनः ॥ ३७ ॥

प्रह्लादं पश्य दैत्येषु हिरण्यकशिपोः सुतम् ।
हरिद्विषो दुरन्तस्य हरिभावनतत्परम् ॥ ३८ ॥

चिरायुषं कालजितं पश्यान्यं चाप्यसङ्ख्यकम् ।
अनेकजन्मतपसा लब्ध्वा जन्म च भारते ॥ ३९ ॥

ये हरिं तं न सेवन्ते ते मूढाः कृतपापिनः ।
वासुदेवं परित्यज्य विषये निरतो जनः ॥ ४० ॥
त्यक्त्वाऽमृतं महामूढो विषं भुङ्क्ते निजेच्छया ।
कस्य स्त्री कस्य वा पुत्रः कस्य वा बान्धवास्तथा ॥ ४१ ॥

कः कस्य बन्धुर्विपदि श्रीकृष्णेन विना भुवि ।
तस्मात्सन्तः सदा कृष्णं भजन्त्येव दिवानिशम् ॥ ४२ ॥

जन्ममृत्युजराव्याधिहरं सर्वहरं परम् ।
कालस्य तरणोपायं भजनं परमात्मनः ॥ ४३ ॥

आनन्दनन्दनस्यैव परिपूर्णतमस्य च ।
शृणु कालगतिं वत्स मदीयज्ञानगोचराम् ॥ ४४ ॥

नराणां च पितॄणां च सुराणां चापि ब्रह्मणः ।
नागानां राक्षसादीनां तत्परेषां च पुत्रक ॥ ४५ ॥

कथयामि निगूढार्थं सावधानं निशामय ।
सर्वस्माच्च परं स्थानं सर्वाधारो महान्विराट् ॥ ४६ ॥

यस्य लोमसु विश्वानि चासङ्ख्यानि च तानि च ।
सर्वस्माच्च परं सूक्ष्मं परमाणुं निशामय ॥ ४७ ॥

कालारम्भात्मकं सर्वमनूरं परमीप्सितम् ।
चरमः सद्विशेषाणामनेकोऽसंयुतः सदा ॥ ४८ ॥

परमाणुः स विज्ञेयो नृपामैक्यभ्रमो यतः ।
परमाणुद्वयेनाणुस्त्रसरेणुस्तु ते त्रयः ॥ ४९ ॥

त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः ।
वेधस्त्रुटिशतेनैव त्रिवेधेन लवस्तथा ॥ ५० ॥
त्रिलवेन निमेषश्च त्रि निमेषेण च क्षणः ।
काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया ॥ ५१ ॥

लघुपञ्चदशं दण्डस्तत्प्रमाणं निशामय ।
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ॥ ५२ ॥

स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ।
दण्डद्वये मुहूर्तः स्यात्वष्टिदण्डात्मिका तिथिः ॥ ५३ ॥

तदष्टभागः प्रहरः प्रमाणं च निरूपणम् ।
चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमुच्यते ॥ ५४ ॥

तिथिपञ्चदशेनैव पक्षमानं प्रकीर्तितम् ।
पक्षद्वयेन मासः स्याच्छुक्लकृष्णाभिधेन च ॥ ५५ ॥

ऋतुर्मासद्वयेनैव तत्षट्केनैव वत्सरः ।
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकाः ॥ ५६ ॥

वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः ।
संवत्सरः प्रवत्सर इलावत्सर एव च ॥ ५७ ॥

अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः ।
अब्दो द्विषट्कमासैश्च तन्नाम शुणु चोद्धव ॥ ५८ ॥

वैशाखो ज्येष्ठ आषाढः श्रावणो भाद्र एव च ।
आश्विनः कार्तिको मार्गः पौषो माघस्तु फाल्गुनः ॥ ५९ ॥

सैत्रस्तु चरमो ज्ञेयो वर्षशेषी निरूपितः ।
वसन्तश्चैत्रवैशाखमासयुग्मेन कीर्तितः ॥ ६० ॥
ज्येष्ठावाढद्वयेनैव ग्रीष्मस्तु परिकीर्तितः ।
वर्षा श्रावणभद्रे च ह्याश्विने कार्तिके शरत् ॥ ६१ ॥

मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने ।
अब्दस्तु चायनै द्वे वै चोत्तरे दक्षिणायने ॥ ६२ ॥

माघादिषड्विनिर्मितमुत्तरायणमीप्सितम् ।
श्रावणादिमासषट्कं दक्षिणायनमेव च ॥ ६३ ॥

माघादाषाढपर्यन्तं दिनं वृद्धं क्रमेण वै ।
नक्तं वृद्धं श्रावणश्च पौषपर्यन्तमेव च ॥ ६४ ॥

प्रतिपत्पूर्णिमान्तश्च शुक्लपक्षः प्रकीर्तितः ।
पूर्णिमायाः प्रतिपदश्चामावास्यान्त एव च ॥ ६५ ॥

कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः ।
द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा ॥ ६६ ॥

षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा ।
दशम्येकादशी चापि द्वादशी च त्रयोदशी ॥ ६७ ॥

चतुर्दशी कुहूर्यावद्दिनं तु गणनं स्मृतम् ।
अस्विनी भरणी चापि कृत्तिका रोहिणी तथा ॥ ६८ ॥

मृगशिरस्त्थाऽऽर्द्रा च नक्षत्रे द्वे पुनर्वसू ।
पुष्याश्लेषे मघा चैव पूर्वा चोत्तरफाल्गुनी ॥ ६९ ॥

हस्तचित्रे तथा स्वाती विशाखा चानुराधिका ।
ज्येष्ठा मूलं तथा ज्ञेया पूर्वाषाढोत्तरा तथा ॥ ७० ॥
श्रवणाभिजिती चैव धनिष्ठा च प्रकीर्तिता ।
ततः शतभिषा ज्ञेय पूर्वाभाद्रपदा तथा ॥ ७१ ॥

तथोत्तरा तु विज्ञेया रेवती चरमा स्मृता ।
अष्टाविंशति नक्षत्रं कलत्रं शशिनस्तथा ॥ ७२ ॥

क्रमेण ताभिः सार्ध च चन्द्रस्तिष्ठति नित्यशः ।
सप्तविंशति नक्षत्रं कलत्रं च श्रुतौ श्रुतम् ॥ ७३ ॥

अभिजिच्छूवणच्छाया तेनाष्टाविंशतिः स्मृता ।
एकदा च मधौ चन्द्रो रोहिण्या वामया सह ॥ ७४ ॥

रेमे दिवानिशं नित्यं श्रवणा च चुकोप सा ।
छायां च दत्त्वा चन्द्राय ययौ तातान्तिकं भिया ॥ ७५ ॥

ततः पितरमादाय सा चक्रे च विभागकम् ।
बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ॥ ७६ ॥

एतच्छ्रुत्वा कृष्णमुखाच्छतश्रृङ्गे च पर्वते ।
नक्षत्रं कथितं वत्स तिथ्या भ्रमति नित्यशः ॥ ७७ ॥

योगं च करणं चैव मद्वक्त्रेण निशामय ।
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यः शोभनस्तथा ॥ ७८ ॥

अतिगण्डः सुकर्मा च घृतिः शूलस्तथैव च ।
गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणास्तथा ॥ ७९ ॥

वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ।
सिद्धिः साध्यः शुभः शुक्लो ब्रह्मेन्द्रो वैधृतिस्तथा ॥ ८० ॥
कीर्तितस्ते योगगणः करणं श्रूयतामिति ।
बवश्च बालवश्चैव कौलवस्तैतिलस्तथा ॥ ८१ ॥

गरश्च वणिजश्चापि विष्टिश्च शकुनिस्तथा ।
चतुष्पाच्चापि नागश्च किंस्तुघ्न इति कीर्तितम् ॥ ८२ ॥

नराणां चापि मासेन पितॄणां च दिवानिशम् ।
शुक्ले चापि दिनं तेषां कृष्णे नक्तं प्रकीर्तितम् ॥ ८३ ॥

वत्सरेण नाराणां च सुराणां च दिवानिशम् ।
दिनं तेषामुत्तरे च नक्तं च दक्षिणायने ॥ ८४ ॥

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
मनोरायुः परिमितं शक्रस्याऽऽयुः प्रकीर्तितम् ॥ ८५ ॥

पञ्चविंशत्सहस्रं च तथा पञ्चशतं परम् ।
तत्र सूर्यगतिर्नास्ति शक्रपातानुसारतः ॥ ८६ ॥

दिवानिशं च जानन्ति ब्रह्मलोकनिवासिनः ।
दण्डद्वयं नरपलं शक्रपातेन तत्पलम् ॥ ८७ ॥

एवं त्रिशद्दिनेनैव धातुर्मासः प्रकीर्तितः ।
अब्दो द्वादशभिर्मासैरेवं तस्य शतायुषः ॥ ८८ ॥

ब्रह्मणः पतनेनैव निमेषाच्छ्रीहरेरपि ।
धातुः पातानुसारेण वैकुण्ठे न दिवानिशम् ॥ ८९ ॥

तत्र सूर्यगतिर्नास्ति चैवं गोलोकतः स्मृतम् ।
वैकुण्ठवासिनः सर्वे न वै जानन्त्यहर्निशम् ॥ ९० ॥
चन्द्रस्यापि ग्रहाणां च गतिर्नास्ति च तत्र वै ।
चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः ॥ ९१ ॥

दिनं च तेजसा दीप्तं कृष्णस्य परमात्मनः ।
नक्तं तेजोविहीनं च हरौ च मन्दिरं गते ॥ ९२ ॥

एवं कालगतिस्तत्र विष्णुलोकेऽस्ति सन्ततम् ।
कालस्वरूपो भगवान्परमात्मा निराकृतिः ॥ ९३ ॥

चन्द्रसूर्यगतिर्नास्चि पातालेषु च सप्तषु ।
,द्वासिनश्च जानन्ति शङ्कन्ते न दिवानिशम् ॥ ९४ ॥

दिने च मूर्ध्निनागानां मणिर्ज्वलति नित्यशः ।
सन्ध्यायां दीप्तमग्निश्च रात्रिश्च तमसाऽऽवृता ॥ ९५ ॥

कालं ताम्रीप्रमाणेन जानन्ति तन्निवासिनः ।
यथा भुवि तथा तत्र परिमाणं प्रकीर्तितम् ॥ ९६ ॥

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशसाहस्रैर्वत्सरैश्चापि तन्मितम् ॥ ९७ ॥

अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् ।
दिव्यैर्वर्षैः कृतयुगं कालविद्भिर्निरूपितम् ॥ ९८ ॥

अष्टाविंशत्सहस्राण्यप्यधिकं परिमाणकम् ।
लक्षाणां च सप्तदशं नृमानं परिकीन्तितम् ॥ ९९ ॥

अधिकं षट्शतान्येव सहस्राणां त्रयं तथा ।
दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः ॥ १०० ॥
षण्णवतिसहस्राणि लक्षैर्द्वादशभिः सह ।
नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्तितः ॥ १०१ ॥

चतुष्टयं शतानां चाप्यधिकं द्विसहस्रकम् ।
वर्ष दिव्यं द्वापरं च कालज्ञैः परिकीर्तितम् ॥ १०२ ॥

चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च ।
नृणां वर्षैर्द्वापरं च कालज्ञैः परिकीर्तितम् ॥ १०३ ॥

अधिकं द्विशतं चैव दिव्यं वर्षसहस्रकम् ।
एवम्मितं कलियुगं वत्स प्राज्ञैर्निरूपितम् ॥ १०४ ॥

द्वात्रिंशच्च सहस्रं च चतुर्लक्षं नृमानकम् ।
वर्ष चेति कलियुगे चकार कालकोविदः ॥ १०५ ॥

लक्षैर्द्विचत्वारिंशद्भिः सह विंशत्सहस्रकैः ।
नृमानवर्षैः कालज्ञैर्व्यक्तमेव चतुर्युगम् ॥ १०६ ॥

इति ते कथितं वत्स कालसङ्ख्यानिरूपणम् ।
यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम् ॥ १०७ ॥

इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्ववसंo
कालनिरूपणं नाम षण्ण्वतितमोऽध्यायः ॥ ९६ ॥