अथ पञ्चनवतितमोऽध्यायः
नारायण उवाच
उद्धवस्य वचः श्रुत्वा चेतनं प्राप्य राधिका ।
सा चोवाच समुत्थाय रत्नसिंहासने वरे ॥ १ ॥
उवाच मधुरं देवी हृदयेन विदूयता ।
गोपीभिः सप्तभिर्भकत्या सेविता श्वेतचामरैः ॥ २ ॥
राधिकोवाच
मथुरां गच्छवत्स त्वं माञ्च (न) विस्मर संवदा ।
अतोऽप्यधर्मो नास्त्येव भवतो भवसागरे ॥ ३ ॥
मदीयं वचनं सर्वं गत्वा कथय साम्प्रतम् ।
श्रीकृष्णं परमानन्दं शीघ्रमानय मत्प्रभुम् ॥ ४ ॥
योषिज्जन्मनि योषित्सु सम्प्राप्य तादृशं पतिम् ।
भेदो बभूव कस्या वा मदन्या काऽपि दुःखिनी ॥ ५ ॥
किं ददासि प्रबोधं मे नास्ति मे बोधनोचितम् ।
निष्फलो देहिनां देहो विनाऽऽत्मानं सहोद्धव ॥ ६ ॥
सम्प्रीत्या सह सौभाग्यं गौरवं नित्यनूतनम् ।
अतीव दुर्लभं प्रेम रहस्यं नवसङ्गमम् ॥ ७ ॥
स्मरामि मनसा शश्वन्नान्यो मनसि वर्तते ।
रात्रौ निद्रां परित्यज्य स्मरणं शोकवर्धनम् ॥ ८ ॥
मामुद्धर ध्रुवं वत्स निमग्नां शोकसागरे ।
जीवाभवप्रदानेन तीर्थे स्नानफलं नृणाम् ॥ ९ ॥
प्रबोधितुं न शक्नोमि दुर्निवारं च मानसम् ।
चिन्तये चरणाम्भोजं कृष्णस्य परमात्मनः ॥ १० ॥
तद्गुणं महिमानं च प्रीतिं च प्रेमसागरम् ।
स्मारं स्मारं च सौभाग्यं मनो मे न स्थिरं चलम् ॥ ११ ॥
जगतां युवतीनां च कासां वा दुःखमीदृशम् ।
श्रीकृष्णभेददुःख च का वा जानाति मां विना ॥ १२ ॥
किं चिज्जानाति सीता साऽप्यहं च विधिबोधितम् ।
मत्परा दुःखिनी नास्ति कामिनीषु जगत्त्रये ॥ १३ ॥
कावायाति प्रतीतिं मे श्रुत्वा च मानसीं व्यथाम् ।
कासां वा मत्समं दुःखं युवतीनां सुतोद्धव ॥ १४ ॥
राधिकासदृशी स्त्रीषु न भूता न भविष्यति ।
दुःखिनी विरहातप्ता सुखसौभाग्यवर्चिता ॥ १५ ॥
सम्प्राप्य कल्पवृक्षं च पतिं च जगतां पतिम् ।
वञ्चिताऽहं विधात्रा च निर्दयेन च पापिना ॥ १६ ॥
जीवनं सफल जन्म सुस्निग्धं चक्षुषी मनः ।
तत्पादपद्मवक्त्रेन्दुरूपवेषप्रदर्शनात् ॥ १७ ॥
यन्नामश्रुतिमात्रेण पञ्च प्राणाः प्रहर्षिताः ।
स्मृतिमात्रात्प्रफुल्ल्यन्त आत्मा सुस्निग्ध एव च ॥ १८ ॥
यश्च पस्पर्श सुरतौ यशस्त्रिभुवनष्वपि ।
कथा वा सम्पदा वत्स विस्मरामि तमीश्वरम् ॥ १९ ॥
त्रैलोक्यविजयं रूपं गुणमेव बिभर्ति यः ।
न निर्मितो यो विधिना तेनैव निर्मितो विधिः ॥ २० ॥
तं विधेश्च विधातारं दातारं सर्वसम्पदाम् ।
कल्पवृक्षात्परं शान्तं लक्ष्मीकान्तं मनोहरम् ॥ २१ ॥
सर्वेशं सर्वबीजं च परमात्मानमीश्वरम् ।
कया वा सम्पदा तात विस्मरामि चतं पतिम् ॥ २२ ॥
यस्य निर्मञ्छनार्हश्च न चन्द्रो न च मन्मथः ।
नैवाश्विनीकुमारश्च गुणसाभ्यं न दिश्वतः ॥ २३ ॥
ध्यायन्ते यत्पदाम्भोजं ब्रह्मेशशेषसञ्ज्ञकाः ।
कया वा सम्पदा तात विस्मरामि च तं प्रभुम् ॥ २४ ॥
स्वप्ने पश्यन्ति ये रूपमतुलं च मनोहरम् ।
तेऽपि सर्वं परित्यज्य ध्यायान्ते तमर्निशम् ॥ २५ ॥
गुणेन शैलः सलिलं शुष्ककाष्ठं द्रवेदिति ।
मृतवृक्षो मुकुलितः स्तम्भितश्च समीरणः ॥ २६ ॥
सूर्यश्च जलधिश्चैव स्थगितो भक्तिभावतः ।
कया वा सम्पदा पुत्र विस्मरामि चतं प्रियम् ॥ २७ ॥
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ॥ २८ ॥
यद्भयात्फलिनो वृक्षाः पुष्पिताः समयेऽपि च ।
समुद्राः स्वात्मविषये ग्रहाश्च मुनयः सुराः ॥ २९ ॥
कालस्य कालः संहर्तुः संहर्ता स्रष्टुरीश्वरः ।
स्वाधीनश्च स्वतन्त्रश्च स्वयमेवाऽऽत्मसञ्ज्ञकः ॥ ३० ॥
कया वा सम्पदा भक्त विस्मरामि च तं प्रभुम् ।
प्रबोधो नास्ति तद्भेदे येन मां बोधयेद्बुधः ॥ ३१ ॥
मां च बोधयितुं शक्ता न सावित्री सरस्वती ।
न वेदा न च वेदाङ्गाः के वा सन्तश्च के सुराः ॥ ३२ ॥
सहस्रवक्त्रोऽनन्तश्च वेदानां जनको विधिः ।
न शम्भुनं गणेशाश्च योगीन्द्राणां गुरोर्गुरुः ॥ ३३ ॥
स्थितेर्गतिश्चिन्तनीया मार्गशून्ये कुतो गतिः ।
कालसाध्यं च सर्व च सुखं दुःखं शुभाशुभम् ॥ ३४ ॥
दुर्निवारः स कालश्च कालसाध्यं जगत्सु च ।
उत्तिष्ठ मथुरां गच्छ सुखं वत्स मनोहरम् ॥ ३५ ॥
व्रजवाकं परित्यज्य भवांश्च गमनोत्सुकः ।
सुचिरं कृष्णविच्छेदो दुःखाय न सुखाय च ॥ ३६ ॥
पश्य चन्द्रमुखं तस्य जन्ममृत्युजरापहम् ।
राधिकावचनं श्रुत्वा रुरोद भृशमुद्धवः
रुदतीं राधिकां दृष्ट्वा बन्धुविच्छेदकातराम् ॥ ३७ ॥
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo राधोद्धवसंo
पञ्चनवतितमोऽध्यायः ॥ ९५ ॥